________________
१९८
व्यवहार - छेदसूत्रम् - १-१ / १८ तेनशुद्धयभावात् । अत्राचार्य आह-कप्पट्टगेत्यादि, कल्पस्थगा बालास्तेषां भंडी मंत्री तया दृष्टान्तस्तथा हि-कल्पस्थकग्रहणं महदुपलक्षणं, तेन महद्गंत्र्या दृष्टांत इत्यपि द्रष्टव्यम्, इयमत्रभावना अत्र बालकमंत्र्या बृहत् पुरुषगंत्र्या च दृष्टांतः तथा हि डिम्भा आत्मीयया गंत्र्या क्रीडन्ति स्वकार्यनिष्पत्तिं च साधयन्तिन पुनः शक्नुवन्ति बृहत्पुरुषगंत्र्या कार्यं कर्तुं तथा बृहत्पुरुषाणामपि आत्मीयया बृहद्गन्त्र्या कार्यं कुर्वन्ति । न डिम्भकद्गं अथ डिम्भकगंत्र्या कुर्वन्ति ततो भूयान् पलिमन्थदोषो न चाभिलषितस्य कार्यस्य परिपूर्णा सिद्धिः । अत्र बृहद्गंत्र्या भारस्तस्यामारोप्यते तर्हि सा भज्यते मूलत एव कार्यं न शुद्धयति । एवं शुद्धतपस्विनां शुद्धतपसा शुद्धिर्भवति परिहारतपस्विनां च परिहारतपसा, यदि पुनः शुद्धतपस्विनां परिहारतप आरोप्यते ततस्तत्र तेषां शक्त्यभावात् मूलत एव भ्रंशः, । अथवा परिहारतपस्विनां शुद्धतपस आरोपस्तर्हि चरणशुद्धयभावस्तावता तेषां चरणशुद्धययोगात् । अथ कथं शुद्धतपस्वी परिहारतपस्वी च स्वस्वतपसा शुद्धयति नान्येन तत आह-धम्मया शुद्धो इह शुद्धतपस्वी परिहारतपस्वी वा शुद्धो भवति । धम्मया स्त्रीत्वं प्राकृतत्वात् । धर्मेण स्वशक्तिलक्षणेन स्वभावेन, तत एवमेव शुद्धिर्नान्यथा । एतदेव स्पष्टतरं भावयति ।
I
[ भा. ५५९ ] जी काउं समत्थो, सो तेन विसुज्झए असढभावो । गूहियबलो न सुज्झइ, धम्मसहावोत्ति एगट्टं ।।
?
वृ- यः साधुर्यत् शुद्धतपः परिहारतपो वा कर्तुं समर्थः स साधुरशठभावः स्ववीर्य प्रतिमायामकुर्वाणः स्वधर्मव्यवस्थितत्वात्तेन तपसा शुद्धयति । यः पुनर्गृहितबलः स्ववीर्यंनिगूहति, स न शुद्धयति स्वधर्मगूहनात् । धर्मस्वभाव इति द्वयमप्येकार्थं । एतेन धर्मया शुद्धो इति धर्मशब्दस्य पर्यायेण व्याख्या कृता पादत्रयेण त्वादिमेन तत्वत इति । अथ शुद्धतपः परिहारतपसोः कतरत् कर्कशं तपः सूरिराहआलवणादी उपया सुद्धतवे अत्थि कक्खडो न भवे ।
[ भा. ५६० ]
इयरंमि उते नत्थि कक्खडओ तेन सो होइ ।।
वृ- यस्मात् शुद्धतपसि दशाप्यालापनादीनि पदानि सन्ति तेन कारणेन तत्तपः कर्कशं न भवति, । इतरस्मिंस्तु परिहारतपसि यस्मात्तान्यालापनादीनि पदानि न सन्ति तेषा पूर्वमेव सकलगच्छसमक्षं स्थापितत्वात्तेन सद्भवति कर्कशमिति । यः पुनस्तपः कालो यच्च तपः करणं तत् द्वयोरपि तुल्यम् । तम्हा ऊ कप्पट्ठियं अनुपरिहारिं च तो ठवेऊणं । कज्जुं वेयावच्चं किच्चं तं वेज्जवच्चं तु ।।
[ भा. ५६१ ]
वृ- यस्मादेवं परिहारतपःस्थितिः तस्मात्कल्पस्थितम् अनुपरिहारकं च स्थापयेत्, स्थापयित्वा च तौ तदनंतरं समापन्नं परहितपोवोढव्यं, तच्चापन्नं परिहारतपः प्रपन्नस्य ताभ्यां कल्पस्थितानुपारहिरिकाभ्यां स्थापिताभ्यां करणिज्जं वेयावच्चमिति सूत्रपदमेतदेवानुवदति कार्यं वैयावृत्यं एतदेव व्याचष्टे, कृत्यं करणीयं, तत् स्वोचितंताभ्यां वैयावृत्यं । अथ किं तत् वैयावृत्यं यत्ताभ्यां कर्तव्यमित्यत आहवेयावच्चे तिविहे, अप्पाणंमि य परे तदुभएय ।
[भा. ५६२]
अनुसिट्ठि उवालंभे, उग्गहे चेव तिविहम्मि ।।
वृ- वैयावृत्यं त्रिविधं, तद्यथा - अनुशिष्टिरुपालम्भोऽनुग्रहश्च । त्रिविधेऽप्यस्मिन् वैयावृत्ये प्रत्येकं यो भेदास्तद्यथा - अनुशिष्टिरात्मनि आत्मविषया, परस्मिन् परविषया, तदुभयस्मिन् उभयविषया । आत्मपरतदुभयविषया इत्यर्थः । एवमुपालम्भोपग्रहावपि प्रत्येकमात्मपरतदुभयविषयी भावयितया ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International