________________
उद्देशक :
5: १, मूलं : १८, [भा. ५७० ]
२०१
साधूनां पूरयति न पुनः संयमे सीदतः सारयति सोऽसारणिकः सारणारहिती इहलोकेहितो न परलोके । एषा प्रथमभंगभावना । यः पुनः संयमभोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति, स केवलं स्फुटं भणन् ब्रुवाणः परलोके हितो न इहलोके इति सामर्थ्याद्गम्यते । एषा द्वितीयभङ्गभावा । तृतीयचतुर्थभङ्गभावना त स्वयंभावनीया । सा चैवम्- यो वस्त्रपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके हितः परलोके चहितः । चतुर्थ उभयरहितः । अत्र पर आह-‘ननु यो भद्रस्वभावतया न सारयति वस्त्रपात्रभक्तादिकं तु समस्तमापूरयति स एव समीचीनां यः पुनः खरपरुषं ब्रुवाणश्चण्डरुद्राचार्य इव सारयति न समीचीनोऽसमाध्युत्पादकत्वात्तत्राह - [ भा. ५७१] जीहाण विलिहंतो न भद्दतो जत्थ सारणा नत्थि ।
दंडेनवि ताडेंतो स भद्दतो सारणा जत्थ ।।
वृ-यत्र नाम संयमयोगेषु सीदतां सारणा नास्ति, स आचार्यो जीह्वया विलिहन् मधुरवचोभिरानन्दयन् उपलक्षणमेतत् वस्त्रपात्रादिकं च पूरयन् न भद्रको न समीचीनः, परलोकापायेषु पातनात् । यत्र पुनः सीदतां साधूनां सम्यक् सारणासंयमयोगेषु प्रवर्तना समस्ति स आचार्यो दण्डेनापि ताडयन् भद्रकः एकान्तसमीचीनः सकलसांसारिकापायेभ्यः परित्राणकरणात् । अथ सारणामकुर्वार्णो जिह्वया विलिहन् कस्मान्न समीचीन इत्यत्राह
[ भा. ५७२ ]
जह सरणमुवगयाणं जीवियववरोवणं नरो कुणइ । एवं सारणियाणं आवरितो असारओ गच्छे ।।
वृ- यथा कोऽपि नर एकान्तेनाहितकारी शरणमुपगतानां जीवितव्यपरोपणं करोति एवं साधूनामपि सारणमुपगतानां सारणीयानां संयमयोगेषु प्रमादव्यावर्त्तनेना प्रवर्तनीयानामाचार्योऽसारको गच्छे भावनीयः । सोऽपि शरणोपगतशिरो निकर्त्तक इव एकान्तेनाहितकारीति भावः शरणमुपगतानां संसारापारपारावारे निरनुकम्पं प्रक्षेपणात् स च तादृश इह परलोकहितार्थिना परित्याज्यः । यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदतः सारयति संसारनिस्तारकत्वादेकान्तेनाश्रयणीयः । ततस्तृतीयभङ्गवर्ती आचार्यः परिहारिकस्यानुशिष्टयादित्रिविधं करोति कारयति अनुमन्यतेच । एवं चीरमाणे अनुसट्टाई मि वेयवच्चेउ । कोवि य पडिसेविज्जा से वियकसिणेऽरुहेयव्वे ||
[ भा. ५७३ ]
बृ- एवमपि यथागममनन्तरोदितेनापि प्रकारेण अनुशिष्ट्यादौ त्रिविधे वैयावृत्ये क्रियमाणे कोऽपि प्रतिसेवितप्रायश्चित्तस्थानमापद्यते इतिभावः । सेवियकसिणेरुहेयव्वे इति तदपि कृत्स्नमारोपयितव्यं । कृत्स्नं नाम निरवशेषम् । एतेन 'ठविए वि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया इति सूत्रपदं व्याख्यातं । कृत्स्नमित्युक्तं तत्र कृत्स्नप्ररूपणार्थमाह
[ भा. ५७४ ]
पडिसेवणाय संचय आरुवण अनुग्गहे य बोधव्वे । अनुग्घाय निरवसेसं कसिणं पुन छव्विहं होइ ।। पारंचियमासीयं छम्मासारूवण छद्दिणगएहिं ।
[ भा. ५७५]
कालगुरुनिरंतरं वा, अनुनमहियं भवेच्छङ्कं ।।
बृ- अनयोर्गाथयोर्यथासङ्घयेन पदयोजना । सा चैवं कृत्स्नं पुनः शब्दो वाक्यभेदार्थः । सच वाक्यभेद एवं वैयावृत्ये क्रियमाणे प्रतिसेवेत ततस्तत् कृत्स्नमारोपयेत् । तत्पुनः कृत्स्नं षड्विधं षट्प्रकारं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International