________________
उद्देशक ः १, मूलं : १८, [भा. ५४९] __ वृ-कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तं निरुपसर्ग परिहारतपः समाप्तिं यायादित्येवमर्थं, तथा शेषाणां साधूनां भयजननार्थं । यथामुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मान्नैतदापत्तिस्थानं सेवनीयं, किन्तु यत्नतो रक्षणीयमिति । ततः कायोत्सर्गकरणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरीश्च साधकोऽनुकूले शुभे तिथिकरणमुहूर्तादिके शुभे ताराबले शुभे च चन्द्रबले परिहारतपसः प्रतिपत्तिर्भवति । अन्यच्च कायोत्सर्गकरणानन्तरमादावेव तंपारिहारिकमिदंगुरुब्रूते[भा.५५०] कप्पट्टितो अहंते, अनुपरिहारीय एस तेगीतो ।
पुव्वं कयपरिहारो, तस्सासितियरोवि दढदेहो ।। वृ- यावत्तव कल्पपरिहारसमाप्तिस्तावदहं तव कल्पस्थितः वन्दनवाचनादिषु कल्पभावे स्थितो न तु परिहार्यः, शेषाः पुनः साधवः परिहार्याः । अन्यच्च एष साधुर्गीतो गीतार्थः पूर्वं कृतपरिहारः, कृतपरिहारत्वेन सकलसामाचारी ज्ञाता तवानुपरिहारी यत्रयत्र भिक्षादिनिमित्तं परिहारी गच्छतितत्रतत्र अनुपश्चात्पृष्टतो लग्नःसन्गच्छतीत्यनुगच्छतीत्यनुपरिहारी अथवा अनुपरिहारीत्यपिशब्दसंस्कारः । तत्रायमन्वर्थः-परिहारिणोऽणु स्तोकं प्रतिलेखनादिषु साहाय्यं करोतीत्यणुपरिहारी । तत्र यदि पूर्व कृतपरिहारोऽनुपरिहारी न लभ्यते । ततस्तस्य असति अभावे इतरोऽपिअकृतपरिहारतया अपिदृढदेहो दृढसंहननो गीतार्थोऽनुपरिहारी स्थाप्यते, । एवं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा स्थापना स्थापनीया ।तांचस्थापनांस्थापयन्नाचार्यः शेषसाधूनिदंवक्ति । [भा.५५१] एस तवंपडिवाइन किंचि आलवतिमाय आलवह ।
अत्तचिंतगस्सा वाघातो भेनकायव्यो ।। वृ- आचार्यः समस्तमपि सबालवृद्धं गच्छमामत्र्य ब्रूते-एष साधु परिहारतपः प्रतिपद्यते । ततः कल्पस्थितिरेषान किञ्चित्साधुमितरंवाआलापयति, वर्तमानसमीपेवर्तमानवद्वेतिवचनतोभविष्यति वर्तमानाततोऽयमर्थः नकिञ्चिदालापयिष्यति,माचयूयमपिएनमालापयथ,आलापयिष्यथ । तथा आत्मन एव केवलस्यार्थभक्तादिलक्षणं चिन्तयति, । नबालादीनांतथा कल्पसामाचारादित्यात्मार्थचिन्तकः, । यदि वा आत्मार्थो नाम अतीचारमलीनस्यात्मनो यथोक्तेन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमित्यर्थः, तंचिन्तयन्तीत्यात्मार्थचिन्तकः । तस्यभे-भवद्भिरेतैः पदैर्व्याघातोन कर्तव्यः । तान्येव पदान्याह[भा.५५२] आलावणपडिपुच्छणपरियट्ठाण वंदनगमत्ते ।
पडिलेहणसंघाडगभत्तदानसंभुंजणाचेव ।। वृ-एषन किञ्चिदप्यालापयिष्यति,युष्माभिरप्येषनालापयितव्यः । तथासूत्रमर्थमन्यद्वा किञ्चिदेष न युष्मान् प्रक्ष्यति, युष्माभिरप्येष सूत्रार्थादौ न पृष्टव्यस्तथा युष्माभिः सह नैष सूत्रमर्थं वा परिवर्तयिष्यति । नापि युष्माभिरनेन सह सूत्रादि परिवर्तनीयं, । तथैव कालवेलादिषु युष्मान्नोत्थापयिष्यति, युष्माभिरप्येष नोत्थापयितव्यस्तथा न वन्दनं युष्माकमेष करिष्यति, नापियुष्माभिरेतस्य कर्तव्यम् । तथा उच्चारप्रस्रवणखेलमात्रकाण्येष युष्मभ्यं न दास्यति, नापियुष्माभिरेतस्मै दातव्यम् । तथा न किञ्चिदुपकरणमेष युष्माकं प्रतिलेखयिष्यति । नापियुष्माभिरुपकरणमेतस्य प्रतिलेखनीयं । यथानैवयुष्माकंसङ्घाटकभावंयास्यति,नचयुष्माभिरेतस्य संघाटकैर्भवितव्यम् । तथानयुष्मभ्यमेष . भक्तं पानंवा आनीयदास्यति, नचयुष्माभिरेतस्यानीयदातव्यम् । तथा नायंयुष्माभिःसहभोक्ष्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org