________________
१९६
व्यवहार - छेदसूत्रम् - १-१/१८ नापि युष्माभिरेतेन सह भोक्तव्यम् । तथा कल्पे समाचारात्तस्मात् आलापने प्रतिप्रच्छन्ने परिवर्तने उत्थापने वन्दने वन्दनदापने मात्रे उच्चारप्रस्त्रवणखेलमात्रकानयने प्रतिलेखने सङ्घाटके संघाटककरणे भक्तदाने संभोजने च सह भोजनविषये व्याघातो न कर्तव्य इति सम्बन्धः । आलापनादिभिर्व्याघातो न कार्यइत्यर्थः । एवमेतैर्दशभिः पदैर्गच्छेन स परिहृतः सोऽपि गच्छमेतैः पदैः परिहरति, यदि पुनर्गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायश्चित्तम् ।
[ भा. ५५३ ]
संघाडगो उ जावय लहुओ मासो दसह उपयाण । लहुगाय भत्तपाणे, संभोजने होंत अनुग्धाया ।।
वृ- दशानां पदानां मध्ये आलापनापदादारभ्य यावदष्टमं पदं संघाटकरूपं तावदेकैकस्मिन् पदेऽतिचर्यमाणे लघुको मासः प्रायश्चित्तं यदिपुनर्भक्तं पानं च गच्छ्वासिनः प्रयच्छन्ति । ततो भक्तदानं भक्तपानदानविषये लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं, संभीजने सहभोजने भवत्यनुद्धाताः चत्वारो गुरुमासा इत्यर्थः । साम्प्रतमेतेष्वेव पदेषु परिहारिणः प्रायश्चित्तमाह
[ भा. ५५४ ]
संघाडगो उ जावय गुरुमासो दसह उपयाणं । भत्तपानेय संभुंजणे य परिहारिंगे गुरुगा ।।
वृ- दशानां यदानामालोचनपदादारभ्य यावत्संघाटकः संघाटकपदं तावदेतेषु पदेषु अतिचर्यमाणेषु प्रत्येकं प्रत्येकं परिहारिके गुरुको मासः । यदि पुनर्गच्छवासिभ्यो भक्तप्रदानं करोति तैः सह भुंक्ते वा तदा प्रत्येकं भक्तदाने संभोजने च प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । यः पुनः कल्पस्थित स इदं करोति
[ भा. ५५५ ]
कितिकम्मं च पडिच्छइ परिण पडिपुच्छियं पिसे देइ । सोचिअ गुरुमुवचिट्ठइ उदंतमवि पुच्छितो कहइए ।।
वृ- कृतिकर्म वन्दनकं तत् यदि परिहारिको ददाति तदा गुरुः प्रतीच्छति । उपलक्षणमेतत्, आलोचनमपि प्रतिच्छति परिण्यत्ति प्रत्यूषसि अपराह्णे च परिज्ञां प्रत्याख्यानं तस्मै ददाति । तथा सूत्रार्थे यदि वा पृच्छति ततः प्रतिपृच्छां च ददाति । सोऽपि च परिहारिको गुरुमाचार्यमागच्छन्तमभ्युत्थानादिना विनयेनोपतिष्टते । उदन्तः शरीरस्य च वार्त्तमानिकी वार्त्ता तमपि गुरुणा पृष्टः सन् कथयति । एवं स्थापनायां स्थापितायां भीतस्य पूर्वोक्तप्रकारेणाश्वासनायां च कृतायां स परिहारिकतपो वोढुं प्रवर्तते । तपो वहंश्च क्लमं गतो वीर्याचारमनिगृहयन् यद्यन्ततरां क्रियां कर्तुमसमर्थो भवति, तदा अनुपारिहारिकः करोति तथा चाह
[ भा. ५५६ ]
उज्ज निसीइज्जा भिक्खं हिंडेज भंडयं पेहे । कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ ।।
बृ- यद्युत्थातुं न शक्नोति ततो ब्रूते उत्तिष्ठामि तदनन्तरमनुपारिहारिकः समागत्योत्थापयेत् तथा यदि निषीदनं कर्तुमसमर्थस्तदा निषीदामीति वचनानन्तरं सत्वरमागत्य निषीदयेत् । यच्च भिक्षां गतः सन् कर्तुं न शक्नोति तदपि भिक्षाग्रहणादिकं करोति । अथ ब्रूते भिक्षा एव हिण्डितुसमर्थः । यदा भिक्षामनुपारिहारिकः केवलो हिण्डेत एवं भण्डकप्रत्युपेक्षणेऽपि साहाय्यं करोति । समस्तं वा भाण्डकं प्रत्युपेक्षते । कथमेतत्सर्वं करोतीत्यत आह कुवितेत्यादि, यथाकोपि कुपित प्रिय बांधवस्ययत्करणीयंतत्सर्व तुष्णीकः करोति, एवमितरोप्यनुपरिहारिक स्तूष्णीकः सन् सर्वं करोति, अतः पर आह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International