________________
१९३
उद्देशक : १, मूलं : १८, [भा. ५४२] किञ्चिन्नयूनानि दशपूर्वाणि, परिपूर्णदशपूर्वधरादीनां परिहारतपोदाना योगात् । तेषां हि वाचनादिपञ्चविधस्वाध्यायविधानमेव सर्वोत्तमं कर्मनिर्जरास्थानं । गतं सूत्रार्थद्वारमिदानीमभिग्रहद्वारमाहअभिग्रह-द्रव्यादि अभिग्रहा-द्रव्यादिकास्तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्याभिग्रहा अद्यमयाकुल्माषा ग्राह्यायदिवा तक्रादिकमेकंद्रव्यमिति क्षेत्रतोऽभिग्रहादेहलीमाक्रम्येत्यादिकाः । कालतोऽभिग्रहास्तृतीयस्यां पौरुष्यां । भावतोमभिग्रहा यदि हसन्ती रुदन्ती वा भिक्षां ददातीत्येवमादिकाः ।गतमभिग्रहद्वारमदुनातपोद्वारमाहतपोरयणमादीतपोरत्नादिकं, पदैकदेशैपदसमुदायोपचारात् रत्नावल्यादिकं आदिशब्दात्कनकालिमुक्तावलिसिंहविक्रीडितादि तपः परिग्रहः । एवं गीतार्थत्वयथोक्तपर्यायसूत्रार्थाभिग्रहकर्कशतपः कर्मलक्षणगुणसमूहयुक्तस्य परिहारतपो दीयते । एतद्गुणविहीनस्य पुनः शुद्धंतपोदेयम् । अत्रशिष्य पृच्छति[भा.५४३] एयगुणसंजुयस्स उकिं कारणदिज्जएउपरिहारो ।
कम्हा पुन परिहारोन दिज्जएतविहूणस्स ।। वृ-भगवन् किं कारणमेतैरनन्तरोदितैर्गीतार्थत्वादिभिर्गुणैर्युक्तस्य परिहारः परिहारतपो दीयते, । कस्मात्पुनस्तद्विहीनस्य गीतार्थत्वादिगुणविकल्पस्य परिहारो न दीयते ? अत्राचार्यो द्वौ मण्डपौ दृष्टान्तीकरोति-शैलमण्डपमेरण्डमण्डपंच । तथा चाह[भा.५४४) जंमाइ ततंछुडभइ सेलमंडवेन एरंडे ।
उभयबलियंमि एयं, परिहारो दुब्बलेसुद्धो ।। वृ-शैलमये पाषाणभये मण्डपे यत्किमपिमातितत्सर्वं छुभ्यतेप्रक्षिप्यते । तस्य तावत्यपि प्रक्षिप्ते भङ्गासम्भवात् । एरण्डे एरण्डमयेपुनर्मण्डपेयन्मातिनतत्सर्वंप्रक्षिप्यतेभङ्गसम्भवात्, किन्तुयावत्क्षमते तावत् प्रक्षिप्यते । एवं उभयेन धृत्या शरीरसंहननेन च बलिके बलिष्टे गीतार्थत्वादिगुणयुक्ते परिहारः परिहारतपो दीयते । दुर्बले धृत्या संहननेन वा उभयेन वा बलिविहीने शुद्धतपो दीयते । एते च परिहारशुद्धतपसी तुल्यायामप्यापत्तौ पुरुषविशेषाश्रयणेन दीयते । तथा चाह[भा.५४५) अविसिठा आवत्ती सुद्धतवेचेव तहय परिहारे ।
वत्थुपुन आसज्जा दिज्जइइयरो वइयरोवा ।। वृ-शुद्धतपसि दातुमिष्टे परिहारे च अविशिष्टा तुल्या आपत्तिस्तथापि वस्तुधृतिसंहननसम्पन्नं पुरुषवस्तुआसाद्यअपेक्ष्यइतरत्परिहारतपोदीयते । धृतिसंहननविहीनंपुनः पुरुषवस्तुआसाद्य इतरत् शुद्धतपो दीयते । किमुक्तं भवति । यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापन्नौ तथापि यो धृतिसंहननसम्पन्नस्तस्मै परिहारतपो देयमितरस्मै तुल्यायामप्यापत्तौ शुद्धतपः ।अत्र दृष्टान्तमाह[भा.५४६) वमणविरेयणमाईकक्खकिरिया जहाउरेवलिए।
कीरइ नदुब्बलंमी, अह दिटुंतो भवे दुविहो ।। वृ- यद्यपि द्वावपि पुरुषौ सदृशरोगाभिभूतौ तथापि तयोर्मध्ये य आतुरः शरीरेण बलवान् तस्मिन् बलिके यथा वमनविरेचनादिका कर्कशक्रिया क्रियते, न तु दुर्बले तस्मिन् यथा सहते तथा अकर्कशा क्रिया क्रियते । अहत्ति एष दृष्टान्तस्तपसि द्विविधे परिहारशुद्धतपोलक्षणे । इदमुक्तं भवति । अयमत्रोपसंहारो बलवत्यातुरे कर्कशक्रियेव धृतिसंहननसम्पन्ने परिहारतपो दीयते, 2113
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org