________________
१९२
व्यवहार - छेदसूत्रम् - १-१ /१८ वृ- प्रथमतः परिहारतपो योग्यता परिज्ञानाय को भदन्त त्वमसीति पृच्छा कर्तव्या । तदनन्तरं परिहारतपो योग्यस्य पर्यायो वाच्यः । ततः सूत्रार्थी तदनन्तरमभिग्रहस्ततस्तपः कर्म तत्र यदि तपसा कर्कशो भवति । किमुक्तं भवति ? कर्कशे तपसि सदा कृताभ्यासतया न कर्कशेन तपसा परिभूयते । ततः परिहारतपस्तस्मै दीयते । इतरस्मिंस्त्वकर्कशे शुद्धं तपः । अत्रार्थे द्वौमण्डपावेरण्डशिलानिष्पन्नौ दृष्टान्तौ । एष द्वारगाथासंक्षेपार्थः । व्यासार्थं तु प्रतिद्वारं विवक्षुः प्रथमतः पृच्छाद्वारं विवृणोति ।। सगणंमि नत्थि पुच्छा, अन्नगणा आगतं तु जं जाणे । अन्नायं पुन पुच्छे परिहारतवस्स जोगट्ठा ।।
[ भा. ५३९ ]
'
वृ- स्वगणे स्वगणसम्बन्धिनि पृच्छा उक्तस्वरूपा वक्ष्यमाणा वा नास्ति । स्वगणवास्तव्यतया परिचितत्वात् । अन्यगणादपितु से पिशद्वार्थः । स च भिन्नक्रमत्वादत्र सम्बद्धयते । आगतंयं जानाति गीतादिरूपमाकारेङ्गित्तदिभिस्तस्मिन्नपि नास्ति पृच्छा । अज्ञातं पुनः परगणादागतं परिहारतपसो योग्यार्थं योग्योऽयं न वेति परिज्ञानार्थं पृच्छेत्कथमित्याह-
[ भा. ५४० ]
गीयमगीतो गीतो अंहति किं वत्थुकासवसि जोग्गो । अविगीएत्ति व भणिए थिरमथिरतवे य कयजोग्गो ।।
वृ- स प्रायश्चित्तस्थानप्राप्त आलोचयितुमुपस्थितः पृच्छयते किं त्वं गीतो गीतार्थः । मकारो लाक्षणिकः । अगीतोगीतार्थः । तत्रयदि ब्रूते अहं गीतो गीतार्थः ततः पुनरपि पृच्छ्यते-त्वं किंवस्त्विति । आचार्य उपाध्यायो वृषभादिभिर्वा ? तत्रान्यतरस्मिन् कथिते भूयः पृच्छयते कासवसिजोग्गित्ति, कस्य वा तपसस्त्वमसियोग्यः । किमुक्तं भवति ? किं तपः कर्तुमुत्सहसे, कस्य वा तपसः समर्थ इति पृच्छनीय इति । अथ स ब्रूते - अहमविगीतो न विशिष्टो गीतोऽगीतार्थ इत्यर्थः । ततोऽविगीत इति भणितेन पुनः पृच्छति । थिरमथिरत्ति, किं त्वं स्थिरोऽस्थिरो वा ? तत्र स्थिरो नाम धृतिसंहननाभ्यां बलवान् । तद्विपरीतोऽस्थिरः । तत्र यदि बूयादहमस्थिरः ततः पुनरपि पृच्छा कार्या । तवे य कयजोगोत्ति, तपसि कृतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा इतरस्तु नेति । तत्र यदि तपसि कृतयोगस्ततस्तस्मै परिहारतपो दीयते इति, इतरस्मै शुद्धं तपः, गतं पृच्छाद्वारमधुना पर्यायद्वारमाह-
[ भा. ५४१ ]
गिहि सामन्ने या तहा परियातो दुविह होइ नायव्वो ।
इगुतीसा वीसाया जहन्न उक्कोस देसूना ।।
वृ- पर्यायो भवति द्विधा ज्ञातव्यस्तद्यथा-गृहे गृहविषयः जन्मत आरभ्येत्यर्थः । तथा श्रामण्ये श्रामण्यविषयः श्रमणभावप्रतिपत्तेरारभ्येति भावः । इयमत्र भावना - द्विविधः पर्यायस्तद्यथाजन्मपर्यायो दीक्षापर्यायश्च । इगुतीसा वीसा य जहन्नति यथासंख्येन योजना जन्मपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि विज्ञेयो दीक्षापर्यायो विंशतिवर्षाणि, उत्कर्षत उभयत्रापि देशोना पूर्वकोटी । उक्तं च- 'परियातो दुविहो- जन्मपरियातो दिक्खपरियातो । जन्मपरियातो जहन्नेणंइगुणतीसंवासा । उक्कोसेणं देसूणा पुव्वकोडी दिक्खापरियातो जहन्नेणंवीसं वासो उक्कोसेणं देसूणा पुव्वकोडीति । । गतं पर्यायद्वारम् सम्प्रति सूत्रार्थमाह द्वारम् - [ भा. ५४२ ]
नवसतयवत्थू जहन्नउक्कोस ऊणगा दसओ । सुत्तत्थाणि अभिग्गह दव्वादि ततोरयणमादी ।।
वृ- जघन्यतः सूत्रमर्थश्च यावत् नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु उत्कर्षतो यावदूनानि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International