________________
१९१
उद्देशकः १, मूल : १८, [भा. ५३६] आलोचनावेलायामनुपूर्व्याआलोचितंपूर्वलघुपञ्चकाद्यालोचितंपश्चात्गुरुमासादीत्यर्थः । एषस्तृतीयो भङ्गः तथापश्चानुपूर्व्याप्रतिसेवितंगुरुलघुपर्यालोचनांदिविरहितोयथाकथंचनप्रतिसेवितमितिभावः । पश्चात् पश्चादनुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैवालोचितमथवा स्मृत्वा स्मृत्वा यथा कथञ्चनाप्यालोचितमित्यर्थः । एष चतुर्थोभङ्गः । इह प्रथमचरमभंगावप्रतिकुञ्चनायां द्वितीयतृतीयभङ्गो प्रतिकुञ्चनायामिति, प्रतिकुञ्चनाऽप्रतिकुञ्चनाभ्यां चतुर्थभङ्गी कृता तामेवाह-अपलिउंचिए अपलिउंचियमित्यादि । यदा अपराधानापन्न आलोचनाभिमुखस्तदैवं कश्चित्संकल्पितवान्, यथा सर्वेप्यपराधा मयाआलोचनीयाः ।। । एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनवेलायामप्रतिकुञ्चितमालोचयति । एष प्रथमोभङ्गः। तथा पूर्वं संकल्पकालेऽप्रतिकुञ्चितमालोचनावेलायां तु प्रतिकुञ्चितमालोचयतीत्येष द्वितीयः । पूर्व संकल्पकाले केनापि प्रतिकुञ्चितं यथा न मया सर्वेऽपराधा आलोचनीयाः । एवं पूर्वं संकल्पकाले प्रतिकुञ्चितेआलोचनावेलायांभावपरावृत्तेः सर्वमपिअप्रतिकुञ्चितमालोचयति । एष तृतीयो भङ्गः । तथा पूर्व सङ्कल्पकाले केनापि प्रतिकुञ्चितं यथा न मया सर्वे अपराधा आलोचनीयाः । तत एवं संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायामपि प्रतिकुञ्चितमेवालोचयति । एष चतुर्थो भङ्गः । तत्राप्रतिकुञ्चितमालोचयतो वीप्सा साकल्येन व्याप्या भवति । ततोऽयमों निरवशेषमालोचयतः सर्वमेतद्यदापन्नमपराधजातं, यदिवाकथमपिप्रतिकुञ्चनाकृतास्यात्ततः प्रतिकुञ्चनानिष्पन्नं,यच्चगुरुणा सहालोचनावेलायां समासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तन्निष्पन्नं च सकलमेतत् स्वयमात्मना अपराधकारिणा कृतं स्वकृतं साहणिया इति संहत्य एकत्र मीलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततःषाण्मासिकंप्रायश्चित्तंदद्यात् । यत्पुनःषाण्मासातिरिक्तंतत्सर्वंझोषयेत् । अथ मासादिकं प्रायश्चित्तमापन्नस्ततस्तदेव देयमिति, वाक्यशेषः, । जे एयाइ इत्यादि यः साधुरेतयानन्तरोदितयाषाण्मासिक्यामासिक्यादिकयावा प्रस्थापनायाः प्राकृतस्यामपराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थापना तया प्रस्थापितः प्रायश्चित्तकरणे प्रवर्तितो निर्विशमानस्ततः प्रायश्चित्तमुपभुजानः कुर्वाण इत्यर्थः । यत्प्रमादतो विषयकषायादिभिर्वा प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तंसेवते तदपि कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापिते प्रायश्चित्ते आरोहयितव्यं स्यात् चढापयितव्यमित्यर्थः । एव संक्षेपतः सूत्रार्थः व्यासार्थं तुभाष्यकारो वदन्जे भिक्खूइत्यादि सूत्रावयवस्य व्याख्यानमतिदेशतआह[भा.५३७] जेचिय सुत्तिविभासा हेडिल्लसुयंमि वणिया एसा ।
सच्चिय इहंपिनेया नाणत्तंठवणपरिहारे ।। वृ-याचैषासूत्रविभाषाजे भिक्खूइत्यादिसूत्रावयवव्याख्याएककद्विककादिसंयोगोपदर्शनरूपा अधस्तनसूत्रे अनन्तरोदितसूत्रे वर्णिता । सैव इहापि अस्मिन्नपि सूत्रे वर्णयितव्या यदि सैव वर्णयितव्यास्ततःको विशेषः? ततआह-नानात्वंपूर्वसूत्राद्विशेषःस्थापनापरिहारे, ।इयमत्रभावनाअधस्तनसूत्रे परिहास्तपो नोक्तमिहतुपरिहारतपो विभाव्यते इति; तत्र येन वक्तव्यक्रमेण परिहारतपो वक्तव्यं भवति । तद्वक्तव्यक्रमसंसूचिकां द्वारगाथामाह[भा.५३८] को भंतेपरियाओ सुत्तत्थाभिग्गहो तवो कम्मं ।
कक्खडमकक्खडे वासुद्धतवे मंडवादोन्नि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org