SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १८ व्यवहार - छेदसूत्रम्-१तदनंतरं यतो निमित्तात्प्ररुपणातपृथक्त्वप्ररुपणाबाहुल्यं किमुक्तंभवति यतो निमित्तात्प्रतिसेवनातः संयोजन प्रायश्चित्तमारोपणा प्रायश्चित्तं परिकुंचना प्रायश्चित्तं च पृथगुपपद्यते तद् वक्तव्यं ततोऽनयोः कल्पाध्ययनव्यवहाराध्ययनयोर्विशेपो नानात्वं वक्तव्यं, तदनंतरं तदर्हा प्रायश्चित्तार्हा पर्षद वाच्या ततःसूत्रार्थः एव द्वारगाथासंक्षेपार्थः, व्यासार्थंतुप्रतिद्वारंवक्ष्यति, तत्रनिरुक्तद्वारप्रतिपादनार्थमाह । [भा.३५] पावं छिंदइजम्हा, पायच्छित्तंतुभन्नएतेनं । पाएण वा विचित्तं, विसोहएतेनपच्छित्तं ।। वृ- यस्मात् शोधिरुपोव्यवहारोऽपराधसंचितं पापं छिनत्ति विनाशयति, तेन कारणेन सप्रायश्चित्तं भण्यते, पृषोदरादित्वादिष्टरुपसिद्धिः, अथवा प्रायोऽपराधमलिनं चित्तं जीवमत्र चित्तशब्देन चित्तचित्तवतोरऽभेदोपचारात् जीवोऽभिधीयते, तथा चाह चूर्णिकृत् चित्त इति जीवस्याख्येति विशोधयत्यपराधमलरहितकोतितेने कारणेनप्रायश्चित्तं,प्रायःप्रायणचित्तंयथावस्थितंभवत्यस्मादिति प्रायश्चित्तमितिव्युप्तत्तेः, गतं निरुक्तद्वारभिदानीं भेदद्वार प्रतिपादनार्थमाह ।। भा.३६] पडिसेवणाय संजोयणाय आरोवणा यबोधव्वा । पलिउंचणा चउत्थी पायच्छित्तंचउद्धा उ ।। वृ- प्रतिपिद्धस्य सेवना प्रतिसेवना, अकल्प्यसमाचरणमिति भावः, च समुच्चये, संयोजना शय्यातरराजपिंडादिभेदभिन्नाऽपराधजनितप्रायश्चित्तानां संकलनाकरणं, आरोप्यते इति आरोपणा प्रायश्चितानामुपर्युपर्यारोपणं, यावत् षण्मासाः, परतो वर्द्धमानस्वामितीर्थे आरोपणायाः प्रतिषेधात्, परिकुंचनं परिकुंचना गुरुदोषस्य मायया लघुदोषस्य कथनं यथा सचित्तं प्रतिपेव्य मया अचित्तं प्रतिषेवितमित्याहति एषाप्रतिसेवनाद् आरभ्य गण्यमानाचतुर्थी, एवमेतत् प्रायश्चित्तं चतुर्द्धा भवति, तत्र यथोद्देशं निर्देश इति न्यायत्प्रथमतः प्रतिषेवणोच्यते, प्रतिषेक्णा प्रतिषेवकप्रतिषेव्यव्यतिरेकेण नोपपद्यते, सकर्मकक्रियायाः कर्तुकर्मव्यतिरेकेणासंभवात्ततस्त्रयाणामपिप्ररुपणां चिकीर्षुरिदमाह [भा.३७ पडिसेवओयपडिसेवणाय पडिसेवियव्वयंचेव । एएसिंतुपयाणंपत्तेयपरुवणंवोच्छं ।। वृ- प्रतिषिद्धं सेवते इति प्रतिषेवकः, प्रतिषेवकः प्रतिषेवणक्रियाकारी, च समुच्चये प्रतिषेवणा अकल्प्यसमाचरणं, प्रतिषेवित व्यमकल्प्यनीयमेतेषां त्रयाणामपि पदानां प्रत्येकं प्ररुपणां वक्ष्ये प्रतिज्ञामेव निर्वाहयति ।। [भा.३८] पडिसेवओ सेवंतो, पडिसेवणमूलउत्तरगुणेय । पडिसेवियव्वदव्वंरुविव्व सिया अरुविव्व ।। वृ-प्रतिषेवकोनामाकल्पंसेवमानःप्रतिषेवना अकल्प्यसमाचरणंसाचद्विधा मूलउत्तरगुणेय इति गुणशब्दः प्रत्येकमभिसंबध्यते, मूलगुणविषया उत्तरगुणविषया च, यच्च कार्य समाचर्यमाणं मूलगुणप्रतिघाति उत्तरगुणप्रतिघाति वा तत् प्रतिषेवितव्यं तच्च द्रव्यं पर्याया वा, तत्र पर्याया द्रव्य एवांतर्भूताविवक्षिताभेदाभावादिति द्रव्यंद्रष्टव्यं, तथा चाह, द्रव्यं तच्च स्यात् कदाचित् रुपि आधाकांद्योदनादि वा विकल्प अरुपि वा आकाशादि तदपि हि मृषावादादिविषयतया भवति, कदाचित प्रतिपेवनीयं, इह प्रतिषेवणामंतरेण न प्रतिषेवकस्य सिद्धि नपि प्रतिषेवनीयस्य, ततः प्रतिपेवणाया विशेषणः प्ररुपणामाह ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy