________________
पीठिका - [भा. ३०]
१७ प्रियधर्मत्वादिगुणैरेबाकल्प्यंन किमपिप्रतिसेविष्यंति, इति,कथंव्यवहर्त्तव्या निर्दिश्यंते,व्यवहारहेत्वकल्प्यंप्रतिसेवनासंभवात्, नैष दोषः,प्रमादवशतस्तेषामपिकदाचिदकल्प्यप्रतिसेवनोपपत्तेः, अन्यच्च प्रमादाभावेपि कदाचिदशिवाद्युत्पत्तौ गुरुलाधवं पर्यालोच्य दीर्घसंयमस्फातिनिमित्तमकल्प्यमतिप्रतिसेवंते, ततो भवति तेषामपि व्यवहारयोग्यतेतिव्यवहर्त्तव्या निर्दिष्टाः अथ ये पियधर्मादिगुणोपेता अपिप्रमादिनस्ते कथं व्यवह्रियंते, र्पमादितया तेषां व्यवहार योग्यताया अभावात्तत आह ।। [भा.३१] पियधम्मे दृढधम्मे, संविगेचे जे उपडिवक्खा ।
तेवि हुववहरियव्वा किंपुन जे तसिंपडिवक्खा ।। वृ- प्रियधर्मणि दृढधर्मे संविग्ने च ये प्रतिपक्षा अप्रियधा अढधा असंविग्नाश्च तेप्यनवस्थावारणाय तदन्यनिषेधाय वहु निश्चितं व्यवहर्त्तव्य भगभिरुक्ताः किं पुनर्ये तेषामप्रियधर्मादीनां प्रतिपक्षाः प्रियधर्मदृढधर्मसंविग्नास्तेसुतरां व्यवहर्तव्या प्रियधर्मादितथा तेषां भावतो व्यवहारप्रवृत्तेः, तदेवं पियधम्मेय बहुसुए इत्येतद्व्याख्यातं; संप्रति द्वितीयमित्यवयवं व्याचिख्यासुराह [भा.३२] बिइयमुवएस अवंकाइयाणजे होति उपडिवक्खा ।
तेवि हुववहरियव्वा, पायच्छित्ताभवंतेय ।। वृ-द्वितीय उपदेश आदेशो मकारोऽलाक्षणिकः, द्वितीयं मतांतरमित्यर्थः, अवक्रादीनां ये भवंति प्रतिपक्षाः वक्र: कुटिलोनिष्कारणप्रतिसेवी, तथासततप्रतिसंवनाशीलोऽप्रियधर्मायावदबहुश्रुतस्तेऽपि केचिद्व्यवहारयोग्यतयाअपरेऽनवस्थावारणायतदन्यनिषेधायवा आभवति प्रायश्चित्ते व्यवहर्त्तव्याः, संप्रतिउवदेसपच्छित्तमित्येतत् व्याचिख्यासुराह[भा.३३ उपदेसो उअगीए दिज्जइ बिइओ उसोधिववहारो ।
गहिएविअनाभव्ये, दिज्जइ बिइयं तुपच्छितं ।। वृ-साधुद्धिविधोगीतार्थोऽगीतार्थश्च, तत्रयोगीतार्थ;स स्वयमेवजानीते, जानानस्य चनोपदेशः, यस्त्वऽगीतार्थः स युक्तायुक्तपरिज्ञानविकलतयाऽनाभाव्यमपि गृह्णाति ततस्तस्मै अगीताय अगीतार्थाय उपदेशो दीयते, यथा न युक्तं तवानाभाव्यं ग्रहीतुंयो ह्यनाभाव्यं गृह्णाति तस्य तन्नमित्तं प्रायश्चित्तमाभवति, एवमुपदिश्य तस्यानाभाव्यं ग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह बिइओ उ सोहिववहारो शोधिः प्रायश्चित्तं अनाभाव्यं गृह्णाति, प्रथमत उपदेशो दीयते, द्वितीयशोधिदानव्यवहारः तदेतदनाभाव्यं गृह्णतं प्रत्युक्तं; संप्रति गृहीतानाभाव्यं प्रत्याह गहिए वीत्यादि अपिशब्दः समुच्चये न केवलमनाभाव्ये गृह्यमाणे, किंतुगृहीतेऽप्यनाभाव्ये दीयते, प्रथमत उपदेशइति गम्यं,तदनंतरंसूत्रमुच्चार्य प्रायश्चित्तं यथावस्थितं कथयित्वाएतत्तवाभवतिप्रायश्चित्तमितिप्रथमं,ततो तदानप्रायश्चित्तं दीयत इति द्वितीयं. अथ प्रायश्चित्तमिति कः शब्दार्थः कतिविधं प्रायश्चित्तमिति प्रश्नमुपजीव्य प्रायश्चित्तनिरुक्तादिद्वारकलापप्रतिपादनाय द्वारगाथामाह ।[भा.३४] पायच्छित्तनिरुत्तं, भेया जत्तो परुवणबहुलं ।
___अजयणाण विसेसो, तदरिहपरिसा य सुत्तत्थो ।। वृ- प्रथमतः प्रायश्चित्तशब्दार्थो वक्तव्यः, ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनादयो वक्तव्याः, मा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org