________________
१८८
व्यवहार - छेदसूत्रम्-१-१/१४ ददतिप्रयच्छन्ति । आलोचकमुरवात्श्रवणानुसारतः प्रायेणतस्य प्रायश्चित्तदानविधिप्रवृत्तेः; यः पुनः प्रत्यक्षी प्रत्यक्षज्ञानी केवल्यादिः स पञ्चकातिरिक्ते मासे आलोचिते भावमेव तुरेवकारार्थः । रागद्वेषपरिणामं लक्षणं ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो हीनमधिकं वा, यदि वा प्रतिसेवनातुल्यं प्रायश्चित्तं प्रयच्छति; साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमसूत्रे संयोगविधिप्रदर्शनार्थमाह[भा.५२९] एत्थ पडिसेवणातोएक्कगद्गतिग चउक्कपनगेहिं ।
छक्कग सत्तगअट्ठग नवदसगेहिं अनेगाउ ।। वृ- इहार्थतो नवमे सूत्रतः पञ्चमे सूत्रेसाक्षाद्दशकसंयोगस्यान्तिमानि चत्वारि पदान्युपात्तानि; तत एतैर्दशकसंयोगो दर्शितः ।सचायम्-मासिकं १ सातिरेकमासिकं २ द्वैमासिकं ३सातिरेकद्वैमासिकं४ त्रैमासिकं ५ सातिरेकत्रैमासिकं ६ चातुर्मासिकं ७ सातिरेकचातुर्मासिकं ८ पाञ्चमासिकं ९ सातिरेकपाश्चमासिकं १० । तेन च दशकसंयोगेन शेषा अप्येककादयः संयोगाः सूचितास्तानन्तरेण दशकसंयोगविकल्पस्यासंभवात्तथाचात्रपूर्वसूरयोवल्लीदृष्टान्तमुपन्यस्यन्ति ।सचप्राग्वद्भावनीयस्तत आह-अत्राधिकृतेऽर्थतो नवमे सूत्रतः पञ्चमे सूत्रे प्रतिसेवना एककद्विकत्रिकचतुष्कपञ्चकैः षट्सप्तकाष्टनवकदशकैरनेकः प्रतिसेवना उपात्ताः प्रतिपत्तव्याः । किमुक्तं भवति ? दशानां पदानामेककद्विकादिसंयोगेषुयावन्तोभंगकाभवन्ति,तावत्यः प्रतिसेवनाअनेकसूत्रेणसूत्रिताद्रष्टव्याः तत्रैककादिसंयोगेषुभंगसंख्यानयनाय करणमाह[भा.५३०] . करणंएत्थ उइणमो एक्कादेगुत्तरा दसठवेउं ।
हिठापुन विवरीयंकाउंरूवंगुणेयव्वं ।। वृ- अत्र एषु एककादिसंयोगेषु भङ्गकसंख्यानयनाय करणमिदं-एककादीन् एकोत्तरान् दश स्थापयित्वाएककादीन्एकोत्तरानेकोत्तरवृद्धयाप्रवर्धमानान् दशकपर्यन्तान् अङ्कान्स्थापयित्वेत्यर्थः । अधस्तात् पुन-विपरीतं राशि कृत्वा, किमुक्तं भवति ये एककादय एकोत्तरदशक पर्यन्ता अङ्काः पूर्व्यानुपूर्व्या उपरि स्थापितास्तेषामधस्तात् पश्रानुपूर्व्या भूय एककादय एकोत्रदशकपर्यन्ता अङ्काः स्थापनीयाः । अत्र उपरितना अङ्का गुणकारा अधस्तना भागहाराः । अत्रैककसंयोगसख्यामिच्छन् अन्यदेकंसकलरूपंस्थापयेत् ।स्थापयित्वा अन्तिमेनदशमेनगुणकारेणगुणयितव्यं, । तेन तस्य गुणने जाता दशैव, एकस्य गुणने तदेव भवतीति वचनात्; भा.५३१] दसहिंगुणेउरूवं एक्केन हियंमि भागे जलद्धं ।
तंपडिरासेऊणंपुनविनवेहिंगुणेयव्वं ।। वृ- दशभिर्गुणयित्वा रूपं एकेनाधस्तनेन भागहारेण भागो हरणीयः । भागे च हृते यल्लब्धं तत्प्रतिराशीक्रियते । तस्माल्लब्धाश्चात्रदशएकेनभागहारेणयदेवोपरितदेवलभ्यते इतिवचनात् लब्धा एककसंयोगे भङ्गा दश । ते एकान्ते स्थापनीयाः । तान् प्रतिराश्य स्थापयित्वा द्विकसंयोगे भङ्गसङ्ख्यामिच्छता तत्प्रतिराशीकृतंदशकलक्षणमङ्कस्थानं पुनरपिनवभिर्गुणयितव्यं जातानवतिः । [भा.५३२] दोहिं हरिऊणभागंपडिरासेऊणंतंपिजंलद्धं ।
___ एएण कमेणंतुकायव्वं आनुपुव्वीए ।। वृ-तस्यानवतेरधस्तनेन द्विकेनभागंह्रियात् ।भागेहृतेलब्धापञ्चचत्वारिंशत् ।आगतंद्विकसंयोगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org