SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं : १४, [भा. ५२६] १८७ ततो मासिकादीनां लघुविशेषविवक्षायामप्येतावन्ति सूत्राणि लभ्यन्ते, । एतावन्त्येव च गुरुविशेषविवक्षायामपि, सर्वमीलने द्वाविंशति शतानि पञ्चाशदधिकानि । तदनन्तरं 'जे भिक्खू पनगातिरेगमासियं वा पनगातिरेगदोमासियंवा पणगातिरंगतेमासियंवा एएसिंपरिहारहाणाणं अनयरं परिहारहाणं परिसेवित्ता इत्यादीनि सूत्राणि त्रिसंयोगविषयाणि । जे भिक्खू पणगातिरेगमासियं वा पणगातिरेग दो मासियं वा पणगातिरेग तिमासियं वा पणगातिरेग चाउम्मासियं वा एएसिं परिहारहाणाणमित्यादीनिचतुःसंयोगविषयाणि । जेभिक्खूपणगातिरंगमासियंवा पणगातिरंगदोमासियं वा पणगातिरेगतेमासियंवा पणगातिरेगचाउम्मासियं वा पणगातिरेगपञ्चमासियं वा । एएसिं परिहारट्ठाणाणमन्नयरंपरिहारट्ठाणमित्यादीनि पञ्चसंयोगविषयाणि बहूनि सूत्राणि वक्तव्यानि । एतानि चगुरुलघुगतपरस्परसंयोगरहितान्युपदर्शितानि । सम्प्रतिलघुगुरुगतपरस्परसंयोगविषयाण्युपदर्श्यन्ते-जेभिक्खूलहुगपनगगुरुगपनगातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएना इत्यादि । जे भिक्खू लहुपनगलहुदशगातिरेगमासियं परिहारट्ठाणमित्यादि । जे भिक्खू लहुगपणगगुरुदशगातिरेगमासियं परिहारठाणमित्यादि एवंमासिकं लघुपञ्चकंवामुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासाः । ततो मासिकंगुरुपञ्चकंवामुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासः । एवंमासिकममुञ्चतापञ्चकादीनांसर्वेद्विकसंयोगास्तदनन्तरंसर्वेत्रिकसंयोगास्ततः परं सर्वे चतुष्कसंयोगा यावत्सर्वे नवकसंयोगा वक्तव्यास्ततः परमेको दशकसंयोगो वाच्यः । ततो मासलधुममुञ्चता पञ्चकदशकपञ्चदशकविंशतिपञ्चविंशतीनां गुरुलघुभेदभिन्नानां द्विकादिसंयोगादशकैकसंयोगपर्यन्ताः सर्वे वक्तव्यास्ततः परमेवं मास गुरु पंचकंचा मुञ्चता वक्तव्याः । एवं द्वैमासिकादिस्थानेष्वपिप्रत्येकंसंयोगतश्चपञ्चकादीनां सर्वेसंयोगाः कर्तव्याः । एवमनेकसंयोगात्मकं सूत्रमेवंदशमसूत्रमपिबहुशः सकलबहुशः सातिरेकसंयोगरूपंवक्तव्यं । तत्रयेषुस्थानेषुपञ्चकंभवति तानिस्थानान्युपदर्शयति । [भा.५२७] ससणिद्ध वीयघट्टेकाएसुमीसाएसुपरिट्ठविए । इत्तरसुहुमसरक्खे पनगा एमाइया होति ।। वृ-सस्निग्धेहस्तेमात्रकेवासतितेन भिक्षाग्रहणेन तथाबीजघट्टेबीजकायसंघट्टेकुर्वत्याः सकाशात् भिक्षादाने, तथा कायेषु परित्तकायेषु सचित्तेषु मिश्रेषु सचित्ताचित्तरूपेषु परीत्तकायेषु परिस्थापिते परंपरस्थापिते इतरस्मिन् वा अनन्तरस्थापिते गृह्यमाणे तथा सुहमत्ति सूक्ष्मप्राभृतिकाग्रहणे सरक्खत्ति सरजस्केन हस्तेन मात्रकेन वा भिक्षाग्रहणे सर्वत्र पञ्चकं भवतीति वाक्यशेषः । किमेतेष्वेव स्थानेषु पञ्चकं भवति किं चान्येष्वपि इति चेत् उच्यते, अन्येष्वपि तथा चाह-पनगाएमाइया होति पञ्चकान्येवमादीनि एवमाद्यपराधहेतुकानि भवन्ति । एवमादिष्वन्येष्वप्यपराधेषु पञ्चक-द्रष्टव्यमिति भावार्थः । साम्प्रतमालोचनाहस्य यथा पञ्चकादि परिज्ञानं यथा च प्रायश्चित्तदानविधिः तथा प्रतिपादयति। [भा.५२८] ससणिद्धमादि अहियं, पारोक्खी सोच्चदेति अहियं तु । हीनाहिय तुल्लंवा नाउंभावंतुपच्चक्खी ।। वृ- परोक्षेषु विषयेषु भवं पारोक्षं परोक्षविषयं ज्ञानं तदस्यास्तीति परोक्षी श्रुतव्यवहारी, शय्यातरपिण्डादेरधिकं सस्निग्धादि आलोचकमुखात् श्रुत्वा मासंपञ्चकादिभिरधिकमेव तुरेवकारार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy