________________
उद्देशक :
: १, मूलं : १४, [भा. ५३२]
१८९
पञ्चचत्वारिंशद्भंगा, । ते चैवं सूत्रत उच्चारणीयाः जे भिक्खू मासियंच सातिरेगमासियं च १, जे भिक्खु मासियं च दोमासियं च २, जे भिक्खू मासियंच सातिरेगदोमासियं च ३, जे भिक्खू मासियं च तेमासियं च ४, जे भिक्खू मासि च सातिरेगतेमासियं च ५ इत्यादि । ततो यल्लब्धं पञ्चचत्वारिंशल्लक्षणं तत्त्रिकसंयोगभंगसंख्यामिच्छता प्रतिराशीकर्त्तव्यम् । प्रतिराश्योपरितनेनाष्टकेन गुणयेत् । एतेनान्तरोदितेन क्रमेण सर्वेष्वप्यङ्कस्थानेष्वानुपूर्व्या सर्वं कर्त्तव्यं । कैरित्याहउवरिमगुणकारेहिं हेट्ठिल्लेहिं भागहारेहिं । जा आइमं तु द्वाणं गुणिते इमे हुंति संजोगो ।।
[भा. ५३३]
वृ- उपरितनैर्गुणकारैस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुणनं कर्त्तव्यम् । गुणने च कृतेऽधस्तनैर्भागहरैर्भागो हर्तव्यः, । भागे च हते यल्लभ्यते तैर्विवक्षितस्य त्रिकसंयोगादेर्भगा । एतच्च तावत्कर्तव्यं यावदादिमं स्थानमङ्कस्थानं तत्रैवमुपरितनैर्गुणकारैर्गुणिते उपलक्षणमेतत् । अधस्तनैर्भागहारैर्भागे हृते इमे वक्ष्यमाणसङ्ख्याकाः क्रमेण संयोगा एककद्विकादिसंयोगभङ्गा भवन्ति ताने वाह
[भा. ५३४]
दस चेव य पणयाला वीसालसयं च दो दसहिया य । दोन्निसया बावन्ना दसुत्तरा दोन्नि उसयाउ ।। वीसालसयं पणयालीसं दस चेव होति एक्को य । तेवीसं च सहस्सं अदुव अनेगा उनेयाउ ।।
[ भा. ५३५ ]
वृ- एककसंयोगे दश भङ्गा, द्विकसंयोगे पञ्चचत्वारिंशत्, एते च प्रागेव भाविताः 1 त्रिकसंयोगे वीसालसयं चेति विंशत्युत्तरं शतं । । तच्चैवम् पञ्चचत्वारिंशत् अष्टकेन गुणिता जातानि त्रीणि शतानि षष्टयधिकानि, एतेषां त्रिकेनाधस्तनेन भागो हियते । लब्धं विंशंशतं । चतुष्कसंयोगे भङ्गकानां द्वेशते दशादिके । तथाहि त्रिकसंयोगे लब्धं विशं शतं प्रति राशीक्रियते । प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जातानि अष्टौ शतानि चत्वारिंशदधिकानि । तेषामधस्तनेन चतुष्केण भागो हियते । लब्धे द्वे शते दशोत्तरे । एवं सर्वत्र भावना कार्या । पञ्चकसंयोगे भङ्गकानां द्वे शते द्विपञ्चाशदधिके, षट्कसंयोगे दशोत्तरे द्वेश, सप्तकसंयोगे विंशत्युत्तरं शतं, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश, दशकसंयोगे एकः । सर्वसङ्ख्यया भङ्गानां त्रयोविंशं त्रयोविंशत्यधिकं सहस्रं । अदुव- अथवा अनेके इतोऽप्यतिप्रबूतसंख्याकाः प्रतिसेवना ज्ञातव्याः । कथमिति चेदुच्यते एता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषणविशिष्टा ज्ञातव्याः । कथमिति चेदुच्यतेएता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषणविशिष्टा ज्ञातव्याः । एता एव चानुद्घातविशेषणविशिष्टास्तदनन्तरमनेका उद्घातानुद्घातसंयोगविकल्पत । ततः सर्वा अपि पिण्डीकृत्य मूलगुणोत्तरगुणापराधाभ्यां गुणयितव्यास्ततो दर्पकल्पाभ्यामेवमनेका भवन्ति । अथवा अनेकप्रतिसेवानयनार्थमियं त्रिंशत्पदात्मका रचना कर्त्तव्याः । मासिकं १ पञ्चदिनातिरेकमासिकं २ दशदिवातिरेकमासिक ३ पञ्चदशदिनातिरेकमासिकं ४ विंशतिदिनातिरेकमासिकं ५ भिन्नमासातिरेकमासिकं ६ । एवं द्वैमासिकत्रैमासिकचातुर्मासिकञ्चमासिकेषु प्रत्येकं षट् षट्स्थानानि वेदितव्यानि । एवं षट् कानि त्रिशदेतेषु च त्रिंशतिपदेषु करणमनन्तरोदितं प्रवर्तयितव्यम् । तत्र सर्वेषामागतफलानामेकत्र संपिण्डनेनेयं सूत्रसंख्या
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org