________________
व्यवहार - छेदसूत्रम् - १-१ /१४ नालोचयिष्यतीत्येवं रूपभाव सम्पादनार्थमाचार्यस्येत्येषपञ्चम आलोचनादोषः । तथा छन्नमिति प्रच्छन्नं आलोचयति किलमुक्तं भवति । लज्जालुतामुपदर्थ्यापराधानल्पशब्देन तथालोचयति यथा केवलमात्मैव शृणोति न गुरुरित्येष षष्ट आलोचनादोषः । सद्दाउलत्ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदम् उक्तं भवति । महता शब्देन तथा लोचयति यथान्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः । तथा बहुजनत्ति बहुजनमध्ये यद्वालोचनं तद्बहुजनं अथवा बहवो जना आलोचना गुरवे यत्र तत् बहुजनमालोचनं । किमुक्तं भवत्येकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यान्यस्य पुरत आलोचयति एषोऽष्टम आलोचनादोषः । अव्वत्तत्ति अव्यक्तोऽगीतार्थः । तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तमेव नवम आलोचनादोषः ।। तस्सेवीति शिष्योऽयमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तस्सेवी । तस्समीपे यदपराधालोचनमेष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यल्पं वा दास्यति । न च मां खरण्टयिष्यति । यथा विरूपं कृतं त्वयेति बुद्धया तदालोचनं तत्सेवी एष दशम आलोचनादोषः । ।
तदेवमालोचनाविधिर्दोषा उक्ताः । सम्प्रति यथाभूतेषु द्रव्यादिष्वालोचनं तथाभूतद्रव्यादिप्रतिपादयन्नाह -
[ भा. ५२५ ]
१८४
आलोयणाविहाणं तं चेव दव्वखेत्तकाले य ।
भावे सुद्धमसुद्धे स सणिद्धे सातिरेगाई ।।
वृ- आलोचनाविधानं तदेवात्रापि सविस्तरमभिधातव्यम् । यदुक्तं प्रथमसूत्रे दव्वादि चउरभिग्रहेत्यादिना ग्रन्थेन ततः प्रागुक्तदोषवर्जिताः आलोचना प्रशस्ते द्वव्ये क्षेत्रे काले भावे य प्रागुक्तस्वरूपे दातव्या, नाप्रशस्ते । इह प्रतिसेवितं द्विधा भवति शुद्धमशुद्धं च । तत्र यत् शुद्धेन भावेन प्रतिसेवितं यतनया च तत् शुद्धं । तच्च शुद्धत्वादेव न प्रायाश्चित्तविषयः । यत्त्वशुद्धेन भावेन प्रतिसेवितमयतनया च तदशुद्धं । तच्च प्रायश्चित्तविषयोऽशुद्धत्वात् । तस्मिंश्चाशुद्धे प्रायश्चित्तानि केवलानि मासिकादीनि सातिरेकाणि च तत्र सातिरेकाणि ससणिद्धे इति सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणत उपलक्षणमेतत् । तेन बीजकायसंघट्टनादिनापि सातिरेकाणि द्रष्टव्यानि । तत्र सातिरेकातामेव भावयति( भा. ५२६
पनगेणाहियो मासो, दसपक्खेणं च वीसभिन्नेणं ।
संजोगा कायव्वा, गुरुलहुमीसेहिंय अनेगा ।।
वृ- इह मूलत आरभ्यामूनि सर्वाण्यप्यालोचनासूत्राणि किल सर्वसंख्यया दश भवन्ति । तत्राद्यानि चत्वारिसूत्राणि साक्षात् सूत्रत एव परिपूर्णान्युक्तानि । शेषाणि तुषट् सूत्राण्याभ्यां द्वाभ्यां सूत्राभ्यामर्थतः सूचितानि तानि चामूनि सातिरेकसूत्रं १ बहुसातिरेकसूत्रं २ सातिरेकसंयोगसूत्रं ३ बहुसातिरेकसंयोगसूत्रं ४ नवमं सकलस्यसातिरेकस्य च संयोगसूत्रं ५ दशमं बहुशः शब्दविशिष्टस्य सकलस्य बहुशः शब्दविशिष्टस्य सातिरेकस्य च संयोगसूत्रं ६ । तत्रपञ्चमं सातिरेकसूत्रंपञ्चसूत्रात्मकं । तच्चैवमुच्चारणीयम्'जे भिक्खू सातिरेगमासियं परिहारद्वाणं पडिसेबित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स सातिरेगमासियं पलिउंचियआलोएमाणस्स सातिरेगदोमासियं' इदं पञ्चमसूत्रे प्रथमसूत्रम्, अत्र मासिकस्य सातिरेकतां पूर्वार्द्धन व्याख्यानयति-पञ्चकेन रात्रिंदिवपञ्चकेन मासोऽधिकः । दशत्ति दशभिरहोरात्रैः पक्षेण, वीसत्ति विंशत्या रात्रिंदिवैर्भिन्नेन भिन्नमासेन पञ्चविंशत्यादिनैरित्यर्थः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org