________________
उद्देशक : १, मूलं : १४, [भा. ५२१]
१८३
प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः । तथा इहलोकापायान् परलोकापायांश्च दर्शयतीत्येवं शीलोऽपायदर्शी । किमुक्तं भवति ? यः सम्यग्नालोचयति प्रतिकुञ्चितं वा आलोचयति दत्तं वा प्रायश्चित्तं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुञ्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिह लोकापायान् तथा संसारे जन्ममरणादिकं त्वया प्रभूतमनुभवितव्यम् | दुर्लभ्रबोधिता च तवैवं भविष्यतीत्येवं परलोकापायांश्च दर्शयति सोऽपायदर्शीति भावः । तथा न परिश्रवतीत्येवं शीलोऽपरिश्रावी । आलोचितं गोप्यमगोप्यं वा योऽन्यस्मै न कथयति सोऽपरिश्रावीति भावः । साम्प्रतमालोचकमभिधित्सुराह
[ भा. ५२२]
आलोयंतो एत्तो दसहिं गुणेहिं तु होइ उववेओ । जाइकुलविनयनाणे दंसणचरणेहिं संपन्नो ।। खते दंते अमाईअ अपच्छतावी य होति बोधव्वे । आलोयणाए दोसे एती वोच्छं समासेणं ।।
[ भा. ५२३ ]
वृ- इत ऊर्ध्वमालोचयन्नालोचको वक्तव्यः । स च दशभिर्गुणैरुपेत एव युक्त एव भवति । तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति जाति इत्यादि जातिसम्पन्नः, कुलसम्पन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम् । विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, क्षान्तः दान्तः अमायी अपश्चात्तापी च बोधव्यः । अथ कस्मादोलचकस्यैतावत् गुणसमूहोऽन्विष्यते उच्यते । जातिसम्पन्नः प्रायोऽकृत्यं न करोति । अथ कथमपि कृतं तर्हि सम्यगालोचयति । कुसलम्पन्नः प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते । विनयसम्पन्नो निषद्यादानादिकं विनयं सर्वं करोति, सम्यगालोचयति । ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति । अमुकश्रुतेन मे तद्दत्तं प्रायश्चितमतः शुद्धोऽहमितिच जानीते, दर्शन संपन्नः प्रायश्चित्तात् शुद्धिं श्रद्धत्ते, चरणसंपन्नः पुनरतिचारं प्रायो न करोति, अनालोचितेचारित्रं मेन शुद्धयतीतिसम्यगालोचयति; क्षान्तो नाम क्षमायुक्तः । सकस्मिंश्चित् प्रयोजने गुर्वादिभिः स्वरपरुषमपि भणितः सम्यक् प्रतिपद्यते । यदपि च प्रायश्चित्तमारोपितं तत्सम्यग् वहति । दान्तो नाम इन्द्रियनोइन्द्रियजयसम्पन्नः प्रायश्चित्ततपः सम्यक्करोति । माया अस्यास्तीति मायी, न मायी अमायी सोऽप्रतिकुञ्चितमालोचयति । अपश्चात्तापी नाम यः पश्चात्परितापं न करोति हा दुष्टु कृतं मया यत् आलोचितमिदानीं प्रायश्चित्ततपः कथं करिष्यामीति किन्त्वेवं मन्यते । कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति अत ऊर्ध्वमालोचनाया दोषान् समासेन संक्षेपेण वक्ष्ये प्रतिज्ञामेव निर्वाहयति[भा. ५२४] आकंपयित्ता अनुमानयित्ता जं दिठं बायरं च सुहुमं वा । छण्हं सदा उलयं बहुजन अव्वत्त तस्सेवी ।।
वृ- आवर्जितः सन् आचार्यः स्तोकं मे प्रायश्चित्तं दास्यतीति बुद्धया वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकंप्य आराध्य यत् आलोचयत्येष आलोचनादोषः । तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मृदु दण्डप्रदायकत्वादिस्वरूपमाचार्यश्याकलय्य आलोचयत्येषोऽप्यालोचनादोषः । तथा यद्दृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः । बायरत्ति बादरं दोषजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वादेष चतुर्थ आलोचनादोषः । सुमंत सूक्ष्मं वा दोषजातमालोचयति न बादरं यः किल सूक्ष्ममालोचयति स कथं बादरं
'For Private & Personal Use Only
www.jainelibrary.org
Jain Education International