________________
उद्देशक :
5:9, मूलं : १४, [ भा. ५२६]
१८५
तत्रपञ्चकातिरिक्तो मासो यथा केनापि शय्यातरपिण्डः सस्निग्धेन हस्तकेन मात्रकेण वा गृहीतः । तत्र मासः शय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं सस्निग्धेन मात्रकेण वा भिक्षाग्रहणात् सत्रिंदिवदशकेनाधिको मासो, यथा केनापि शय्यातरपिण्डः परित्तकायानन्तरनिक्षिप्तः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः । तत्र मासः शय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं परित्तकायान्तरनिक्षिप्तप्रहणात् द्वितीयं रात्रिंदिवपञ्चकं सस्निग्धेन हस्तकेन मात्रकेण वा भिक्षाग्रहणात् एवं पक्षाद्यतिरेकेऽपि भावना कार्या; । एवं द्वितीयतृतीयसूत्रादिष्वपि द्वैमासिकादीनां सातिरेकता पञ्चकादिभिर्भावनीया । सूत्रपाठस्त्वेवम्'जेभिक्खू सातिरेगं दो मासियं परिहारद्वाणं पडिसेवित्ता आलोएना अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पतिउंचिउं आलोएमाणस्स साइरेगं ते मासियं ।
जे भिक्खू सातिरेगं तिमासियं परिहारट्ठाणमित्यादि । षष्ठमपि बहुशः शब्दविशिष्टं सातिरेकसूत्रं पञ्चसूत्रात्मकं तच्चैवमुच्चारणीयम्- 'जे भिक्खू बहुसो सातिरेगमासियं परिहारद्वाणंपडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगमासियं पलिउंचियं आलोएमाणस्स सातिरेगदोमासियंजे भिक्खु बहुसो सातिरेगदोमासियं पडिहारडाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पलिउंचिय आलोएमाणस्स सातिरेगतेमासियमित्यादि । सप्तमं सातिरेकसंयोगसूत्रम् । अष्टमं बहुशः सातिरेकसंयोगसूत्रं । तत्र सातिरेकाणां मासिकादीनां संयोगाः सातिरेकसंयोगाः । तदात्मकं सूत्रं सातिरेकसंयोगसूत्रं । तदेव बहुशः शब्दविशिष्टं बहुशः सातिरेकसंयोगसूत्रं । तत्र सातिरेकाणिपञ्च पदानि, तद्यथा - सातिरेकं मासिकं १, सातिरेकं द्वैमासिकं २, सातिरेकं त्रैमासिकं ३ सातिरेकं चातुर्मासिकं ४, सातिरेकं पाञ्चमासिकं ५ । पञ्चानांच पदानां द्विकसंयोगे भंगादश, त्रिकसंयोगेऽपिदश, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे एकः । एते च तृतीय चतुर्थसूत्रचिन्तायामिव भावनीयाः । सर्वसंख्यया भङ्गाः षड्विंशति, । एवमेव षड्विंशतिर्भङ्गा बहुशः सातिरेकं संयोगसूत्रेऽपिभावनीयाः । उभयमीलने भङ्गा द्वापञ्चाशत् । पञ्चसूत्राणि पञ्चमे सातिरेकसूत्रे पञ्चसूत्राणि षष्ठे बहुशः सातिरेकसूत्रेतान्यप्यत्र मीलितानि जातानि सर्वसंख्यया द्वाषष्टिसूत्राणि । एतानि च उद्घातानुद्घातविशेषरहितानि तत एताव्रत्येवोद्घातविशेषपरिकल्पितान्यन्यानि सूत्राणि द्रष्टव्यानि । एतावन्त्येव चानुद्घातविशेषपरिकल्पितान्यपि । एवमेतास्तिस्रो द्वाषष्टयः सूत्राणां सर्वसंख्यया षडशीतीसूत्रशतं ।
अत ऊर्ध्वं तु उद्घातानुद्घातमिश्रकाभिधानतः संयोगसूत्राणिभवन्ति तत्सूचनार्थमिदमुत्तरार्द्धमाहसंयोगा कायव्वा इत्यादि । गुरवश्च लघवश्च गुरुलघवस्ते च ते मिश्राश्च गुरुलघुमिश्रास्तैरनेक संयोगा भवन्तिकर्तव्याः । ते चैवमुच्चारणीयाः- जे भिक्खू सातिरेगउग्घायमासियं वा सातिरेग अनुग्घायमासिय वा परिहाराणं पडिसेवित्ता आलोएना अपलिउंचिय आलाएमाणस्स सातिरेगमुग्धायमासियं वा सातिरेग अनुग्घायमासियं वा परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलाएमाणस्स सातिरेगमुग्धायमासियं वा । जे भिक्खू सातिरेकमुग्धायमासियं वा सातिरेगमनुग्धाय दोमासियं वा परिहाराणं पडिसेवित्ता । इत्येवमुद्धातितपदममुञ्चता अनुद्घातद्वैमासिकादीन्यपि वक्तव्यानि । एवमेते भङ्गाः पञ्च ऐत उद्घातमासिके अनुद्घातमासिकद्वैमासिकाद्येकसंयोगेन लब्धाः । एवमुद्धातिते द्वैमासिकेऽपि पंच एवं त्रैमासिकेऽपि पञ्च चातुर्मासिकेऽपि पञ्च पाञ्चमासिकेऽपि पञ्चेत्युभयोरप्येककसंयोगेन सर्वसंख्यया भङ्गाः पञ्चविंशतिः, तथा उद्घातसातिरेकमासिक एवमनुद्घातसातिरेकमासिकद्वैमासिकादिद्विकसंयोगे भङ्गादश, एवमुद्घातितेऽपि सातिरेके द्वैमासिके
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International