________________
१७८
व्यवहार - छेदसूत्रम् - १-१ / १४ वृ- तस्मादनन्तरोदितात् पटात् परं बहुतरमलं पटं सरिदादि, सरिनदी, सरिनदी, आदिशब्दात्त हृदकूपतडागादिपरिग्रहः, तत्रगत्वा शोधयन्ति । एवं साधूनामप्यपराधपदानि च्छेदादिभिः पर्यायमण्डल्यादिरूपात् गृहान्निष्काशनेन जिनादयः शोधयन्ति । मलनाणत्तेनेत्यादि द्वितीयादिपदेषु यथा यथा मलनानात्वं तथा तथा आदंचनं । यत्ननानात्वमपि । आदञ्चनं नाम गोमूत्राजालिण्डिकोखादि यत्न आच्छोट नपिट्टनादिषु प्रयत्नः तन्नानात्वमपि । तथा हि-यथा यथा मलस्योपचयस्तथा तथा बहुतरगोमूत्रादिप्रक्षेपो बहुबहुतर आच्छोटनपिट्टनादिषु प्रयत्नस्ततो भवति । मलनानात्वे आदञ्चन यत्ननानात्वमिव साधूनामप्यपराधपदेषु रागद्वेषोपचयवृद्धौ मासादिवृद्धिस्तपः क्रियाधिशेषवृद्धिश्चेति चरमतृतीयभङ्गव्याख्यानार्थमाह
[ भा. ५०९ ] बहुएहिं जलकुंडेहिं बहूनि वत्थाणि कानि वि विसुज्झे । अप्पमलाणि बहूणिवि कानि वसिज्झंति एक्केण ।।
वृ- कानिचित् वस्त्राणि तथाविधगाढमलानि बहूनि बहुभिर्जलकुटैर्विशुद्धयन्ति । एवमपराधपदान्यपि तथाविधानि बहूनि साधूनां बहुभिर्मासैः शुद्धिमासादयन्ति । एतेन चतुर्थभङ्गो व्याख्यातः । तथा कानिचित् अल्पमलानि बहूनि वस्त्राणि एकेन जलकुटेन शुद्धयन्ति । एवं मन्दानुभावकृतानि बहून्यपि साधूनामपराधपदानि एकेन मासेन शुद्धयन्ति । एष तृतीय भंग उपदर्शितः अत्र शिष्यः प्राहरागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धा तथा किं रागद्वेषहानिवशतः प्रायश्चित्तहानिरप्युपलब्धा । आचार्य प्राह- उपलब्धा तथा चैतदेव पृच्छति
[ भा. ५१०]
जहमन्ने दसमं सेविऊण निग्गच्छए उदसमेणं । तहमन्ने दसमं सेविऊण नवमेण निग्गच्छे ||
वृ- अहं एवं मन्ये, यथा दशमं प्रायश्चित्तं पाराञ्चित्तं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति । तथा एतदपि मन्ये दशमं पाराञ्चितं सेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निर्गच्छति शुद्धयति | आचार्य आह-सत्यमेतत् । दशमं सेवित्वा दशमेन शुद्धयति कदाचिन्नवमेनापि अनया गाथया सर्वेऽधोमुखागमाः सूचिताः । ते चामी - दशमं सेवित्वा मूलेन निर्गच्छति, एवं षाण्मासिकेन पाञ्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेन मासिकेन च वक्तव्यम् । दशमं सेवित्वा भिन्नमासेन निर्गच्छति। दशमं सेवित्वा विंशत्या रात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचदशभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा दशभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा दशमभक्तेन निर्गच्छति, दशमं सेवित्वा अष्टमेन निर्गच्छति, दशमंसेवित्वा षष्ठेन निर्गच्छति, दशमं सेवित्वा पूर्वार्द्धन निर्गच्छति । दशमं सेवित्वानिर्विकृतिकेन निर्गच्छति । तथा अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति अनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति । एवं यावन्निर्विकृतिकेन निर्गच्छति । एवं मूलेऽपि नेतव्यम् । यावन्मूलं सेवित्वा निर्विकृतिकेन निर्गच्छति । एवं च्छेदे एवं षाण्मासिके, एवं पाञ्चमासिके, एवं चातुर्मासिके, एवं त्रैमासिके, एवं द्वैमासिके, एवं मासिके, एवं भिन्नमासे विंशति रात्रिंदिवे पञ्चदशरात्रिंदिवे दशरात्रिंदिवे पञ्चरात्रिंदिवे, दशमभक्ते अष्टमे षष्टे चतुर्थे- आचामाम्ले एकाशनके पूर्वार्द्ध निर्विकृतिकेचगमा वक्तव्याः, । तथा एतेऽपि गमाद्रष्टव्याः । सूत्रस्य सूचकत्वात् निर्विकृतिकं सेवित्वा तेनैव निर्विकृतिकेन शुद्धयति । निर्विकृतिकं सेवित्वा पूर्वार्द्धन निर्गच्छति । एवं यावच्चरमेण पाराञ्चितेन निर्गच्छति । तथा पूर्वार्ध सेवित्वा पूर्वार्धेन निर्गच्छति । पूर्वार्धं सेवित्वा एकाशनेन निर्गच्छति यावच्चरमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org