________________
१७९
उद्देशक ः १, मूलं : १४, [भा. ५१०] . . एकाशनं सेवित्वा एकाशनेन निर्गच्छति । एकाशनं सेवित्वा आयामाम्लेन निर्गच्छति । यावश्चरमेण एवमायाम्लादिष्वप्यूर्ध्वगमावक्तव्याः । अत्र शिष्यः प्राह[भा.५११] जहमने बहुसोमासियाइंसेविय एगेन सोउनिग्गच्छे ।
तहमन्ने बहूसोमासियाइंसेविय बहूहिं निगच्छे ।। वृ- अहमेवं मन्ये, यथा बहुशो बहून् वारान्मासिकानि परिहारस्थानानि सेवित्या एकेन मासेन सोऽपराधकारी निर्गच्छति ।अपराधपदान्निति, मन्दानुभावेन प्रतिसेवनायाः कृतत्वात् । तथा एतदपि मन्ये बहुशो बहून वारान् मासिकानि सेवित्वा कदाचित् बहुभिसैर्निर्गच्छति । यदि तीव्रानुभावेन प्रतिसेवना कृता स्यादिति भावः, अत्रार्थे आचार्येणाममिति वक्तव्यम् । रागद्वेषवृद्धिहानिवशत एकैकस्मिन्नापत्तिस्थानेसर्वप्रायश्चित्तानामारोपणाभावात् । तत्रयदुक्तं दशमंप्रायश्चित्तस्थानंसेवित्वा दशमेन शुद्धयति । दशमं सेवित्वा नवमेनशुद्धयति । तत्रकुट दृष्टान्तंप्रागुक्तमेव दर्शयति[भा.५१२] एगुत्तरियाघडच्छकएणच्छेयाइंहोतिनिग्गमनं ।
तेहिंतुदोसवुड्डी, उप्पत्तीरागदोसेहिं ।। वृ- एकोत्तरिका जलकुटस्य वृद्धिर्घटषट्केन जलभृतघटकषट्केन नियमयितव्याः । किमुक्तं भवति? कोऽपि तथाविधाल्पमलः पट एकेन जलकुटेन गृहे प्रक्षाल्यते, कोऽपि बहुतरमलो द्वाभ्यां कुटाभ्यांततोऽपिबहुतरमलस्त्रिभिः कुटैरेवं यावत्बहुतममलः षड्भिः कुटैः । एवं किमपिसाधूनामपराधपदमतिप्रभूतरागद्वेषाध्यवसायोपचितंस्वपयार्यमण्डल्यादिरूपेगृह एवावस्थितानांषड्भिर्मासैः शुद्धयतिकिमपिस्तोकरागद्वेषाध्यवसायोपचितंपञ्चभिर्मासैस्ततोऽपिस्तोकरागद्वेषाध्यवसायोपचितं चतुर्भिर्मासैरेवमेकैकहानिस्तावद्वक्तव्यायावत्किमप्यल्पतररागद्वेषाध्यवसायोपचितमेकेनशुद्धयतीति। च्छेयादी होतिनिगमनं । यथाकेऽपिपटा अतिप्रभूतकठिनमला गृहान्निर्गत्य बहिःसरित्तडागादिगत्वा बहुभिर्गोमूत्रादिभिर्बहुभिश्चाच्छोटनपिट्टनप्रकारैः शुद्धयन्ति । तथानिर्गमतुल्याछेदादयोभवन्ति ।तथा हि-किञ्चिदतिप्रबलरागद्वेषाध्यवसायोपचितमपराधपदंसाधूनां दशमेवपाराञ्चितामिधानेन शुद्धयति। किञ्चित्ततोहीनरागद्वेषाध्यवसायोपचितमनवस्थाप्येन, ततोऽपिहीनतररागद्वेषाध्यवसायोपचितंमूलेन, ततोऽपि हीनतमरागद्वेषाध्यवसायोपचितं च्छेदेन च्छेदादयश्च पयार्यादि गृहान्निःकाशनेन भवन्तिः । ततो निर्गमनतुल्याः-छेदादयः कस्मादेवं प्रायश्चित्तहानिरत आह-तेहि तु इत्यादि, तै रागद्वेषैस्तीव्रतीव्रतरैर्दोषवृद्धे कर्मोपचयवृद्धे रुत्पत्तिरतो यथा यथा रागद्वेषाध्यवसायवृद्धिस्तथा तथा प्रायश्चित्तस्यापि वृद्धिः । यथा यथा चरागद्वेषहानिस्तथा तथा प्रायश्चित्तस्यापिहानिरिति एतदेवाह[भा.५१३] जिननिल्लेवणकुडए, मासे अपलिउंच माणेसट्ठाणं ।
मासेन विसुज्झिहिई तोदेंतिगुरूवएसेणं ।। वृ-जिनाः केवल्यवधिमनःपर्यायज्ञानिप्रभृतयः ते केवलादिबलतो यथावस्थिता रागद्वेषाध्यवसायहानिवृद्धिरूपलभ्यमाना निर्लेपनकुटान्प्रागुक्तप्रकारेणदृष्टान्तीकृत्ययोयथाशुद्धयतितस्मैतथा प्रायश्चित्तं प्रयच्छन्ति । तथा हि-मासार्हे रागद्वेषाध्यवसायैर्मासे मासे प्रतिसेविते तदनन्तरमालोचनायामप्रतिकुञ्चतिजिनाः केवलादिबलतः श्रुतव्यवहारिणोगुरूपदेशतः पाठान्तरेजिनोपदेशेन मासेनैव विशोत्स्यतीतिविज्ञाय स्वस्थानमासिकमेव प्रायश्चित्तंददतिप्रयच्छन्ति । यदिपुनद्वैमासिकं त्रैमासिकं यावत्पारञ्चितं वा मासाहैरेवं रागद्वेषाध्यवसायैस्ततो हीनतरैर्वा प्रतिसेवितं यदि पश्चात् हा दुष्ठु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org