________________
१७७
उद्देशकः १, मूलं: १४, [भा. ५०५] निर्लेपनकुटदृष्टान्तः । निर्लेपनोरजकः |कुटोजलभृतोघटः । यथाजलकुटैर्वस्त्राणिरजकः प्रक्षालयति तथापराधपदानि जिनादयो मासादिभिः शोधयन्ति । अथवा निर्लेपनं लेपस्य मलस्याभावः । कुटो जलकुटः स दृष्टान्तः । अत्र चत्वारो भङ्गाः-एकं वस्त्रमेकेन जलकुटेन निर्लेपनं क्रियते १, एकवस्त्रमनेकैलकुटैः २, अनेकानिवस्त्राणि एकेनजलकुटेन ३, अनेकानि वस्त्राणिअनेकजलकुटैः ४। तत्र प्रथमद्वितीयभङ्गच्याख्यानार्थमाह[भा.५०६] एगुत्तरियाघडच्छ क्कएणच्छेयादिहोति नियमाणं ।
एएहिंदोसवुड्डी कप्पिजइदोहिं ठाणेहिं ।। वृ- एकोत्तरिका घटस्य वृद्धिः, घटषट्केन परिसमापयितव्या । इयमत्र भावना-कोऽप्यल्पमलः पट एकेन जलकुटेन शुद्धयति । स गृह एव प्रक्षाल्यते, एष प्रथमो भंगः । ततो मलिनतरः कठिनमलो वा पटो द्वाभ्यांकुटाभ्यांशुद्धिमासादयति, सोऽपिगृह एव प्रक्षाल्यते । ततोऽपिमलिनतरस्त्रिभिः कुटैः सोऽपि गृहे प्रक्षाल्यते । एवमेकोतरिका वृद्धिस्तावन्नेया यावत् कोऽपि मलिनतरः षड्भिर्जलकुटैः शुद्धयति । सोऽपि गृहे एव प्रक्षाल्यते । अत्र वस्त्रस्थानीयान्यपराधपदानि मलस्थानीयानि रागद्वेषाध्यवसायस्थानानितज्जनितोवाकर्मसंचयः,जलकुट स्थानीयानिमासिकादीनि प्रायश्चित्तानि, तथा ह्यल्पमपराधपदमेकेन मासेन शुद्धयति । ततो गुर्वपराधपदं द्वाभ्यां मासाभ्यां, गुरुतरमपराधपदं त्रिभिर्मासैस्ततोऽपिगुरुतरंचतुर्भिर्मासैर्यावत्गुरुतरमपराधपदंषड्भिर्मासैः ।छेयाईहोति निगमनमिति ये गाढगाढतरादिमलाः पटास्ते गृहानिर्गत्य बहिः सरित्तडागादि गत्वा प्रभूतप्रभूततरैः क्षारगोमूत्रादिभिर्बहुबहुतरैराच्छोटनपिट्टनादिभिर्भहन्महत्तरप्रयत्नैः शुद्धिमासादयन्ति । तथापराधपदान्यपि गाढगाढतराध्यवसायनिवर्तितानिच्छेदमूलानवस्थाप्यपाराञ्चितैः पर्यायादिभ्योनिःकाशेन शुद्धयन्ति। ततो निर्गमनं निर्गमनतुल्याश्लेदादयो भवन्ति । अथ कथं जलकुटबहिर्निगमनतुल्यामासादिच्छेदादय इतिअत्राह-एएहिंइत्यादि । एताभ्यामनन्तरोदिताभ्यांद्वाभ्यांस्थापनाभ्यांमासादिच्छेदादिलक्षणाभ्यां दोषवृद्धिस्तीर्वतीव्रतररागद्वेषाध्यवसायवृद्धिस्तजनिताकर्मोपचयवृद्धिर्वा कल्प्यते, च्छिद्यते, ततो मासादिच्छेदादयोजलकुटनिर्गमनसमानाः ।साम्प्रतमेगोत्तरियाघडच्छक्कएणंति व्याख्यानयति[भा.५०७] अप्पमलो होइसुई, कोइपडोजलकुडेणएक्केण ।
मलपरिवुड्डीएभवेकुडपरिवुढी उजाछन्नू ।। वृ-कोऽपि पटोऽल्पमलः सन् एकेन जलकुटेन शुचिर्भवति शुद्धयति । एष प्रथम भङ्ग उक्तः, मलपरिवृद्धौकुटपरिवृद्धिर्भवति ।साचतावत्यावत्षट् ।तुशब्दोऽतिविशेषणार्थः । सचैतद्विशिनष्टि, षट्केनयावत्पटस्यशुद्धिगृहएव क्रियते ।इयमत्रभावना-बहुमलः पटोद्वाभ्यांजलकुटाभ्यांशुद्धयति। बहुमलतरस्त्रिभिर्जलकुटैरेवं मलपरिवृद्धया जलकुटपरिवृद्धिस्तावदवसेया यावत् बहुमलतमः षड्भिर्जलकुटैरेतेचगृहएवप्रक्षाल्यन्ते,एवमपराधपदान्यपिमासिकादीनिसाधूनां स्वपर्यायमंडल्यादिरूपगृहे एव स्थितानि मासिकादिभिः प्रायश्चित्तैः शोध्यन्ते, एतेन द्वितीयो भंग उपदर्शितः । छेयाई होतिनिगमणमित्यस्य व्याख्यानमाह[भा.५०८) तेन परंसरियादी गंतुंसोहिंति बहुतरमलंतु ।
मलनाणत्तेन भवे, आयंचणजत्तनाणत्तं ।। [21[12]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org