________________
१७४
व्यवहार - छेदसूत्रम्-१-१/१४ भवन्ति । सप्तदशवारं त्रैमासिकं दीयते इति भावः । तदनन्तरं भूयो भूय आपत्तौ सप्तदश निक्षेपा द्वैमासिकानां । तदनन्तरंसप्तदश निक्षेपामासिकानांततपरंनिक्षेपणता निक्षेपणंदानं भिन्नभिन्नमासस्य विंशतिवारान् । ततः परंवारत्रयं छेदस्तदनन्तरंवारत्रयंमूलं, ततः परंवारत्रयमनवस्थाप्यं,तत एकवारं पाराञ्चितं-अनुद्घातं पूर्वप्रस्थापितं वहन् यदि भूयो भूयः स्तोकंबहु वा प्रायश्चित्तमन्यदापद्यते । तस्य पञ्चदश गुरूणां द्वैमासिकानां निक्षेपा भवन्ति । पञ्चदशवारं द्वैमासिकं गुरु दीयते इत्यर्थः । तत परं निक्षेपणता भिन्नमासानां गुरूणामष्टादशवारान्, ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततोऽनवस्थाप्यत्रिकं, ततः एकवारं पाराञ्चितमिति उक्तोऽन्यतरः ।।
साम्प्रतमात्मतरस्य प्रायश्चित्तदानमुच्यते-संचयितमसंचयितंवा प्रत्येकमुद्घातमनुद्घातंवा वहन् यदि भूयो भूयः स्तोकं बहु वान्यदिन्द्रियादिभिः प्रायश्चित्तमापद्यते । तदा सप्तवारं लघुमासिकंदीयते । तत परंभूयो भूय आपत्तौ चतुर्वारलघुकं चातुर्मासं । ततः परंच्छेदत्रिकं, तदनन्तरं मूलत्रिकं । तदनन्तरं
अनवस्थाप्यत्रिकं । तत एकवारं पाराञ्चितं । यदि पुनः पूर्वप्रस्थापितमनुद्घातं वहन् स्तोकं बहु वान्यदापद्यते, भूयोभूयस्ततः पञ्चवारान्गुरुमासिकंदीयते ।ततः परंत्रीन्वारान्चतुर्गुरुकं, ततो वारत्रयं च्छेदस्तदनन्तरंवारत्रयंमूलं ततो वारत्रयमनवस्थाप्यं, ततएकवारंपाराञ्चितमेतदेवाह[भा.४९९] आइत्तरमाइयाणंमासालहगुरुगसत्तपंचेव ।
चउतिगचाउम्मासा तत्तोयचउव्विहोभेओ ।। वृ-आत्मतरोनाम यस्यवैयावृत्यकरणेलब्धिर्नास्ति । आदिशब्दातपरतरपरिग्रहः आत्मतरआदिर्येषां ते आत्मतरादयः आत्मतराः परतराश्चेत्यर्थः । तेषामात्मतरादीनां प्रायश्चित्तदाविधिरुच्यतेतत्रात्मतराणामयमुद्घातं पूर्वप्रस्थापितं वहतां सप्तवारान् लघुमासा दीयन्ते । तदनन्तरं चतुरो वारान् चतुर्मासा लघवः । ततश्चतुर्विधो भेदस्छेदमूलानवस्थाप्य पाराञ्चितलक्षणो दातव्यः । अनुदघातं पूर्वप्रस्थापितं वहतां पञ्च वारान् गुरुमासा दीयन्ते । तदनन्तरं त्रीन् वारान् गुरवश्चतुर्मासाः । ततो यथोक्तरूपश्चतुर्विधो भेदः । सम्प्रति परतरस्य प्रायश्चित्तदानविधिरभिधीयते । परतरो नाम यस्य वैयावृत्यकरणेलब्धिरस्तिनतपसि, ततः सयदातपः करोतिनतदावैयावृत्यं कर्तुंसमर्थइति । अत्रापि एकस्कन्धेन कापोतीद्वयं वोढुं न शक्यमिति दृष्टान्तो वक्तव्यः । यश्च प्रायश्चित्तं संचयितमसंचयितं वापन्नस्तत् तु यावद्वैयावृत्यं करोति, तावत् निक्षिप्तं क्रियते, वैयावृत्यं च कुर्वन् यद्यन्यदापद्यतेतत्सर्वं झोष्यते । वैयावृत्त्ये च समाप्ते तत् पूर्वनिक्षिप्तं प्रस्थाप्यते, तच्च वहन् यदि भूयो भूयः इन्द्रियादिभिरन्यदापद्यते । तत उद्घातं पूर्वप्रस्थापितं वहतः सप्तवारान् लधुमासिकं दीयते । तदनन्तरं पञ्चवारान्चतुर्लघुकं । ततः परंवारत्रयंच्छेदस्तदनन्तरंवारत्रयंमूलं, ततः परंवारत्रयमनवस्थाप्यं, ततः एकवारंपाराञ्चितमिति । अनुद्घातंपूर्वप्रस्थापितंवहतः षट्वारान्गुरुमासिकंदीयते ।तदनन्तरंचतुरो वारान् चतुर्गुरुकं । ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं । तत एकवारं पाराञ्चितं । एतदेव सुव्यक्तार्थमाह- . [भा.५००] आवन्नो इंदिएहिं परतरए झोसणा ततोपरणं । ।
मासलहगाय सत्त उछच्चेव होतिमास गुरु ।। [भा.५०१] . चउलहुगाणं पनगंचउगुरुगाणंतहा चउकंच ।
तत्तीच्छेदादीयं, होइचउक्कं मुनेयव्यं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org