________________
उद्देशक : 5: १, मूलं : १४, [ भा. ४९८]
[ भा. ४९८ ]
सत्तारस पन्नारस निक्खेवा होति मासियाणं तु । वीसारस भिन्ने तेन परं निक्खिणवयाउ ।।
१७३
वृ- सोऽन्यतरः पूर्वप्रस्थापितं प्रायश्चित्तं वहन् यदि स्तोकं बहु उद्घातमनुद्घातं वा प्रायश्चित्तस्थानमापन्नस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातस्तत उद्घातो भिन्नमासो दीयते । यदि पुनरापद्यते तदा भूयोऽपि भिन्नमासदानमेवं भूयो भूय आपत्तौ विंशतिवारान् भिन्नमासा दातव्याः ।। तदनन्तरं सप्तदशवारा लघुमासाः । एवं द्विमासत्रिमासा अपि वक्तव्यास्तदनन्तरमपि भूयोभूय आपत्तौ सप्तवाराश्चतुर्मासाः ७ । ततः परं पञ्चवाराः । पञ्च लघुमासाः ५ । तदनन्तरं त्रीन्वारान् च्छेदः । ततः परं वारत्रयं मूलं, तदनन्तरं वारत्रयमनवस्थाप्यं, तदनन्तरमेकं वारं पाराञ्चितमिति ।
अथ तस्य पूर्वस्थापितमनुद्घातितं । ततोऽष्टादश वारा गुरुभिन्नमासा दातव्याः । तदनन्तरं पञ्चदशवारा गुरुमासाः । एवं द्विमासास्त्रिमासा अपि वक्तव्याः । तदनन्तरं पञ्चवाराश्चत्वारो गुरुमासाः । ततोऽपि परं त्रिवाराः पञ्च गुरुमासाः ३ । ततो वास्त्रयं छेदः ४ । तदनन्तरं वास्त्रयं मूलं । ततः परं वारत्रयमनवस्थाप्यं । एवं संचयितेऽप्युद्घातेऽनुद्घाते वक्तव्यम् । नवरमादिमास्तपोभेदा न वक्तव्याः । किन्तु प्रथमत एव षाण्मासिकं, तदनन्तरं च्छेदत्रिकादि अष्टकापहारादिकं पूर्ववद्वक्तव्यम् । अधुनाक्षरगमनिका-इह विचित्रा व्याख्या प्रवृत्तिरिति पश्चानुपूर्व्या व्याख्या विधेया । पूर्वप्रस्थापितमुद्घातमनुद्घातं च वहतो यथाक्रमं भिन्ने भिन्नमासविषये दानं विंशत्यष्टादशवारान् । किमुक्तं भवति ? पूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहतो विंशतिवारा भिन्नमासा दातव्याः । अनुद्घातं वहतोऽष्टादशवारा भिन्नमासाः तेनपरमित्यादि, ततो भिन्नमासदानात् पश्चानुपूर्व्या परं प्रागिति भावार्थः । निक्षेपणता निक्षिप्तता आसीत् विंशत्यष्टादशवारानन्तरं च उद्घातं पूर्वप्रस्थापितं वहतो मासिकानां लघूनां मासिक द्वैत्रैमासिकानां सप्तदशक्षिपा भवन्ति । सप्तदशवारं दानं भवतीत्यर्थः । अनुद्घातं पूर्वप्रस्थापितं वहती मासिकानां निक्षेपाः पञ्चदश भवन्ति । पञ्चदशवारं मासिकानां दानमित्यर्थः । तथा उद्घातितानां चतुष्कमासचतुष्टयानि सप्त भवन्ति । अनुद्घाताः चतुष्काः पञ्च भवन्ति । तथा पञ्च मासा लघुकाः पञ्चभवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रय इदमुक्तं भवति ? पूर्वप्रस्थापितमुद्घातं वहतस्त्रिमासदानानन्तरं सप्तवाराश्चत्वारो लघुमासा दातव्यास्तदनन्तरं पञ्चवाराः पञ्चमासा लघवः अनुद्घातं पूर्वप्रस्थापितं वहतो गुरुमासत्रिमासदानानन्तरं पञ्चवारा लघवः गुरुवश्चतुर्मासा दातव्याः । ततः परं गुखः पञ्च मासास्त्रिवारा इति तदेवमेकेषामाचार्याणां व्याख्यानमुपदर्शितमन्ये पुनरेवं व्याख्यानयन्ति
अन्यतरो नाम द्विधा आत्मतरः परतरश्च । तत्रात्मतरस्य प्रायश्चित्तदानविधानमिदम्सत्तचउक्काउग्घाइयाणमित्यादि, यदि पूर्वस्थापितमुद्धातं वहन् भूयो भूयोऽन्यदापद्यते प्रायश्चित्तं तदा प्रथमत एव सप्तवास उद्घातितानां लघूनां मासानां चतुष्का दातव्याः । सप्तवारा लघवः चतुर्मासा देयाः, तदनन्तरं पञ्चवारा लघवः पञ्चमासास्तदनन्तरं वारत्रयं च्छेदः । ततः परं वारत्रिकं मूलं । ततो वारत्रिकमनवस्थाप्यं । तत एकवारं पाराञ्चितम् । अथानुद्घातं पूर्वप्रस्थापितं वहन् पुनः पुनरापद्यते प्रायश्चित्तं । तत आदौ पञ्च वारा अनुद्घाता गुरुवश्चत्वारो मासा दाने भवन्ति । तदनन्तरं त्रीन्वारान् पञ्च मासा गुरुवस्ततो वास्त्रयं च्छेदं । तदनन्तरं वारत्रयं मूलं, ततो वास्त्रयमनवस्थाप्यं । तत एकवारं पाराञ्चिती यस्त्वन्यतर परतरस्तस्येदं प्रायश्चित्तविधानम्-सत्तरसपन्नरसेत्यादिपूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहन् यदि भूयो भूयो भूयः स्तोकं बहु वा अन्यत् प्रायश्चित्तमापद्यते । ततस्तस्य सप्तदश त्रैमासिकानां निक्षेपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org