________________
१७२
व्यवहार - छेदसूत्रम्-१- १/१४ अत्रान्तरे अन्यत्षाण्मासिकमापन्नस्तत्परिपूर्णमारोप्यते । प्राकृताश्चशेषीभूताः पट दिवसाः त्यज्यन्ते एतन्निरनुग्रहकृत्स्नं । इति । [भा.४९६] चोएइरागदोसे दुब्बलबलिएव जाणएचक्खू ।
भिन्ने खंधग्गिम्मिय, मास चटमासिएचेडे ।। वृ- परश्चोदयति, यूयं रागद्वेषवन्तस्तथाहि यस्य षणां मासानां षट्सु दिवसेषु शेषीभूतेष्वन्यत् पाण्मासिकमापन्नं पट्सुदिवसेषुपरिसमाप्यते । तस्य दुर्बलस्योपरि रागोयतो यूयं जानीथ एष बलिकः सन्सुखंविनयवैयावृत्यं करोति । यस्यपुनः पूर्वप्रस्थापितषण्मासानांपञ्चसुमासेषुचतुर्विंशतौ दिवसेषु व्यूढेषुषट् दिवसाः शेषीभूता झोषिताः ।। अन्यत्पाण्मासिकमारोपितं, तस्य बलिष्ठस्योपरिविद्वेषः । अत्रापि जानीथ यथैष तपःकृशशरीरो नास्माकं शक्नोति वैयावृत्यं कर्तुं तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति । एवंभवन्तःकुर्वन्तोनूनंचक्षुर्मेलंकुरुथ ।चक्षुर्मेलो नामयदेकंचक्षुरुन्मीलयति। अपरं निमीलयति । एवमेकं सानुग्रहप्रायश्चित्तदानेन जीवापयथ । अपरं निरनुग्रहप्रायश्चित्तदानेन मारयथेति । अत्राचार्य आह भिन्नेत्यादि पश्चार्द्ध भिन्नो नाम तत्कालमरणिनिर्मन्थनेन नवोदितोऽग्निःस यथा महति काष्टादिके प्रक्षिप्ते तद्दग्धुमसमर्थो भवति, शीघ्रंच विध्यायति, स एव श्लक्ष्णकाष्टछगणादिचूर्णादिषु स्तोकं प्रक्षिप्यमाणेषु क्रमेण प्रबल उपजायते ।स्कन्धाग्निमिमहत्काष्टंप्रज्वल्याग्निरूपतया परिणमितः स महत्यपि काष्टादिके प्रक्षिप्ते तद्दग्धुं समर्थो भवति । प्रबलः प्रबलतरचोपजायते । एवं दुर्बलस्य षट्सु मासेषु पूर्वप्रस्थापितेषु बहुषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु यदि वा षट्सु मासेषु पूर्वस्थापितेषु षट्सु दिवसेषु व्यूढेषु यदन्यत् पाण्मासिकं तपः पृथिग् दीयते । ततः सभिन्नाऽग्निरिव विषीदति धृतिसंहननाभ्यां बलीयानितिन विद्राति न च विषादमुपगच्छति, स्कन्धाग्निरिव । तथा द्वौ चेटौ, तद्यथा-मासजातश्चतुर्मासजातश्च तत्र यदि मासजातस्य चेटस्य चतुर्मासचेटाहारो दीयते, तदा सोऽजीर्णेन विद्राति, चतुर्मासजातस्यापि यदि मासजातवदाहारो दीयते, तदा स तेनाहारेण नात्मानं सन्धारयितुमलं । एवं यो दुर्बलस्तस्य यदि बलिष्ठं प्रायश्चित्तं दीयते, तदा स विद्राति दुर्बलत्वात् मासिकचेटकवत्, बलिष्ठस्यापियदिदुर्बलप्रयाश्चित्तंदीयते, तदासतावतानशुद्धिमासादयतीत्यशुद्धया विषीदति । ततो यथा भिन्नाग्नौ स्तोकमिन्धनं स्कंधाग्नौ प्रभूतमिन्धनंतथा मासजातेचेटेस्तोकमाहारं, चतुर्मासजातेप्रभूतमाहारंप्रयच्छतोनरागद्वेषवत्तायोग्यतानुरूपप्रवृत्तेः । तथाटुर्बले बलिठेच यथोक्तरूपं प्रायश्चित्तं ददानान वयं रागद्वेषवंत इति उक्त उभयतरकः । __ इदानीं आत्मतरकादयोवक्तव्याः । परमुभवतरसशोऽन्यतर इतिसएवोत्क्रमेण प्रथमतोभण्यते। तस्य स्वरूपमिदम्यथा एकेन स्कन्धेन द्वेकापोत्यौ युगपत् वोढुं न शक्नोति तथा सोऽप्यन्यतरकः प्रायश्चित्तवैयावृत्ये युगपत्कर्तुं न शक्नोति । स च संचयितमसंचयितं वा प्रायश्चित्तमापन्नोऽथ च तदा गुरूणामन्यो वैयावृत्यकरो न विद्यते । ततस्तदापन्नं प्रायश्चित्तं निक्षिप्तं क्रियते । एतेन यदुक्तमधस्तात निक्षिप्तमितितद्भावितमवसेयं ।गुरूणांवैयावृत्यं कार्यततच्च वैयावृत्यं कुर्वन् यदीन्द्रियादिभिरन्यदापद्यते तत्सर्वं झोष्यते यदा तु वैयावृत्यं समाप्तं भवति, तदा तत्प्रग् निक्षिप्तं प्रायश्चित्तमुत्क्षिप्यते । तच्च वहन यदीन्द्रियादिभिरन्यदापद्यते तदनेन विधिना दातव्यं ।। [भा.४९७] सत्तचउक्का उग्धाइयाण पंचेव होति अनुग्घाया ।
पंच लहुपंच गुरुगा, गुरुगा पुनपंचगा तिन्नि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org