________________
१७१
उद्देशकः १, मूलं: १४, [भा. ४९३] [भा.४९३] पुनरवि जे अवसेसा मासा जहिं पिछन्हमासाणं ।
उवरिझोसेउणं, छम्मासा सेसदायव्वा ।। वृ- अष्टकापहारे कृते सति पुनरपिषन्नां मासानामुपरि येऽवशेषा मासा वर्तन्ते जेहिं जेहिं पीत्यादि अनुग्रहकृत्स्नविषयमेतत् यैरपि च दिवसैसिर्वा पूर्व प्रस्थापितानां षन्नां मासानामुपरि गच्छति तत्सर्वं स्थापनारोपणाप्रकारेण झोषयित्वा षण्मासाः शेषा दातव्याः । अनुग्रहचित्तायां पूर्वं स्थापितषण्मासोद्व्युढदिवसैः सह परिपूर्णीकृत्य षण्मासाःशेषादातव्या । निरनुग्रहकृत्स्नचिन्तायां परिपूर्णाः षण्मासाः शेषादेयाः । झोषस्तुपूर्वप्रस्थापितषण्मासविषय इति ।। [भा.४९४] छहिं दिवसेहिंगएहिं, छहंमासाण होति पक्खेवो ।
छहिंचेवयसेसेहिं छण्हंमासाणपक्खेवो ।। वृ-सूत्रेतृतीयासप्तम्यर्थे । ततोऽयमर्थः ।षट्सुदिवसेषुगतेषुषण्मासानांभवति प्रक्षेपः । इयमत्र भावना-येतेप्रस्थापिताः षण्मासास्तेषां षड् दिवसा व्यूढास्तदनन्तरमन्यान् षण्मासानापन्नास्ततः पूर्वं प्रस्थापितषण्मासानां पञ्चमासाश्चतुर्विंशतिदिनाश्च झोष्यंते । झोषयित्वा च तत्र पाश्चात्याः षण्मासाः प्रक्षिप्यन्ते । तेच यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्थापितषण्मासाव्यूढदिवसैः सह षण्मासा भवन्ति । एवं पाश्चात्यानामपिषण्मासानांषड्दिवसाझोषिता इति । एतद्धृतिसंहननाभ्यांदुर्बलमपेक्ष्यानुग्रहकृत्स्नमेष मित्रवाचकक्षमाश्रमणानामादेशः । साधुरक्षितगणिक्षमाश्रमणाः पुनरेवं ब्रुवते, छहिं चेवयेत्यादि, षट्सु चैव दिवसेषु षण्मासानां प्रक्षेपः । इदमुक्तं भवति ?-ये पूर्वप्रस्थापिताः षण्मासास्ते षभिर्दिवसैरूनाः परिपूर्णाव्यूढाः शेषाः षट् दिवसास्तिष्ठन्ति । अत्रान्तरे अन्यान् षण्मासानापन्नास्ते षण्मासास्तेष्वेवपट्सुदिवसेषुप्रक्षिप्यन्ते । किमुक्तंभवति? तेषांषन्नांमासानांप दिवसाः प्रायश्चित्तं, शेषंसमस्तमपिझोषितं । पूर्वप्रस्थापितषण्मासानामपिषदिवसा झोषिताः । एतत्धृतिसंहननदुर्बलमपेक्ष्यानुग्रहकृत्स्नमिति; सम्प्रतिनिरनुग्रहकृत्स्नमाह[भा.४९५] एवं बारस मासा छद्दिवसूना यजेट्ठपठवणा ।
छदिवसएऽनुगह निरनुगह छागपखेवो ।। वृ-इह निरनुग्रहकृत्स्ने आदेशद्वयं एकस्तावदयमादेशः । पूर्वप्रस्थापितानां षण्मासानां षट् दिवसा व्यूढास्तेषु षट्सु दिवसेषु व्यूढेषु अन्यत् पाण्मासिकमापन्नः । ततः पूर्वप्रस्थापिताः षण्मासास्तेष्वेव पट्सु दिवसेषु व्यूढेषुपरिसमाप्यन्ते । किमुक्तं भवति? ।ये व्यूढाः षट् दिवसास्ते व्यूढा एव शेषा पञ्च मासाश्चतुर्विंशतिदिवसा झोषिताः यत्पुनरन्यत् पाण्मासिकं तत्परिपूर्ण दीयते । एवं षट् मासाः षडिभर्दिवसैरधिका भवन्ति । एतत् धृतिसंहननबलिष्ठस्य निरनुग्रहकृत्स्नं द्वितीय आदेशः, पूर्वप्रस्थापितानांपएमासानांषद दिवसाःशेषास्तिष्ठन्ति ।अन्यत्समस्तमपिव्यूढंततोऽन्यानषण्मासान प्राप्तः । ततो ये शेषाः षट् दिवसास्ते झोष्यन्ते पाश्चात्यं पाण्मासिकं परिपूर्ण दीयते । धृतिसंहननबलिष्ठत्वात् । एवं च षण्मासाः षडिभर्दिवसैन्यूँनाः पूर्वस्थापिताः पाश्चात्याः परिपूर्णाः षण्मासाः ततः सर्वसंकलनयाद्वादशमासाः षडिभर्दिवसैन्यूँनाभवन्ति । एषाज्येष्ठा प्रस्थापनादानं नातः परा तपोर्ट प्रायश्चित्तेउत्कृष्टतराप्रस्थापनास्तीतिभावः, अत्रापिसानुग्रहनिरनुग्रहचिन्तांकुर्वन्नाह-छदिवसगएत्यादि पूर्वप्रस्थापितानां षण्मासानां षट्सु दिवसेषु गतेषु यदन्यदापन्नं षण्मासादिकं तपस्तदारोप्यते । पूर्वप्रस्थापिताश्च अव्यूढेषु षदिवसा शेषा अव्यूढाः सन्ति । अन्यच्च समस्तमपि व्यूढमिति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org