________________
१७०
व्यवहार - छेदसूत्रम्-१-१/१४ वारा निदमुक्तंभवति-उद्घातं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं भूयो भूय आपत्तौ सप्तवारान् लघुकाश्चत्वारो मासा दीयन्ते । तदनन्तरं पञ्चवारान् लघुकाः पञ्चमासाः अनुद्घातितं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं पुनगपत्तौ पञ्च वारान् गुरुका श्चत्वारोमासाः तदनन्तरं त्रीन् पञ्च गुरुमासान् ।। साम्प्रतमत्रैवासञ्चये उद्घातानुद्घातापत्तिस्थानानानांसुखावगमोपायमाह[भा.४९०] उक्कोसा उपयातोवा ठाणे ठाणेदुवे परिहरेज्जा ।
एवं दुगपरिहानी, नेयव्वा जाव तिन्नेव ।। वृ- उत्कृष्टं नाम उद्घातभिन्नमासगतं विंशतिलक्षणं तस्मादारभ्योद्घातगतेस्थाने स्थाने यदुत्कृष्टं तदपेक्षया अनुद्घात गतेषु स्थानेषु द्वौ द्वौ परिहापयेत् । एवं द्विकपरिहानिस्तावत् ज्ञातव्या यावदुघातगतपञ्चकोत्कृष्टापेक्षया अनुदातेत्रयइति । इयमत्रभावना-उद्घातेभिन्नामासे विंशतिः, अनुदाते द्विकपरिहान्या अष्टादृश । तथा उद्घाते मासे सप्तदश, अनुराते पञ्चद्दश । एवं द्विमासे त्रिमासंऽपि । तथा उद्घातेचतुर्मासे सप्त अनुद्घातेपञ्च । तथा उद्धाते पञ्चमासे पञ्च अनुदाते त्रयइति । तदेवमापत्तिस्थानान्युक्तानि ।। उद्घातानुद्धातदानविधिः साम्प्रतमेतेषां दानविधिमाह[भा.४९१] अट्ठउ अवनेत्ता सेसा दिजंति जावउ तिमासो ।
जत्थठगावहारो नहोजंतंझोसएसव्वं ।।। वृ-येभिन्नमासादयो विंशत्यादिवाराआपन्नास्तेभ्यः प्रत्येकमष्टावष्टावपनयेत् । अपनीयशेषादीयंते, एवं तावत्वाच्यम्यावत्रिमासाः त्रैमासिकं । अयमत्रभावार्थः । विंशतिवाराः किलोद्घाता भिन्नमासा आपन्नास्तत्राष्टौ भिन्नमासा झोषिताः, शेषा द्वादश दीयन्ते । तेऽपि स्थापनारोपणाप्रकारेणाधिकं परिशाट्या षण्मासाः कृत्वा दीयन्ते । तथा अष्टादश अनुद्धाता भिन्नमासा आपन्नास्तेभ्योऽष्टौ त्यक्त्वा शेषादश भिन्नमासाः प्रदातव्याः । तेऽपिस्थापनारोपणाप्रकारेणअधिकंसमस्तमपित्यक्त्वा पण्मासाः कृत्वादानीय इति । तथासप्तदशवारालघुमासाःप्राप्तास्तेभ्योऽष्टी परित्यज्यशेपानवलघुमासादीयन्ते। पञ्चदशवारागुरुमासा आपन्नास्तेभ्योऽष्टौ परित्यज्यशेषाः सप्तगुरुमासादेयाः । एवं द्वैमासिक त्रैमासिकेऽपिवाच्यम् । सर्वत्रस्थापनारोपणाप्रकारेणाधिक्यं त्यक्त्वाषण्मासाः कृत्वा देयाः । अथ अष्टकझोषणाभिधानं किमर्थम्? एतदेव कस्मानोक्तंविंशत्यादयो भिन्नमासादयःस्थापनारोपणाप्रकारेण षण्मासीकृत्यदातव्या इति? उच्यते । मध्यमतीर्थकृतामष्टमासिकी यातपोभूमि स्तदनुग्रहाऽर्थमित्यदोषः । उक्तंचनिशीथचूर्णो-'अष्टमसिया मज्ह्यिमातवोभूमीतीएअनुग्गहकरणथमट्ठमभागहारझोसणाकया इति । यत्र पुनश्चतुर्मासिके वा पञ्चमासिके वा अष्टकापहारो न भवेत् । अष्टानामेवासम्भवात् ।तं सर्वं झोषयेत्सर्वमपि तत्परित्यजेत् न किमपि तत्र दानं भवतीति भावः । येभ्योऽष्टकापहारे यदवतिष्टतके तदेतदुभयं दर्शयति[भा.४९२] बारस दस नव चेव यसत्तेव जहन्नगाइंठाणाई ।
वीसठारस सत्तरस, पन्नरठाणाणबोधव्वा ।। वृ-द्वादश दश नवसप्तेत्यमूनि जघन्यानिस्थानानिबोधव्यानि ।जघन्यतायेपां विंशत्याद्यपेक्षयामीषां स्तोकत्वात् केपां स्थाने इत्याह-विंशत्यष्टादशसप्तदशपञ्चदशस्थानानां स्थाने इदमुक्तं भवतिविंशतिस्थानानामष्टकापहार द्वादशस्थानानि । अष्टादशानामष्टकापहारे दश । सप्तदशानामष्टकापहारे नव । पञ्चदशानामष्टकापहारे सप्तेति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org