SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [भा. ४८७] १६९ वृ- सउभयतरकः प्रस्थापितं प्रायश्चित्तं वहन् वैयावृत्त्यं च कुर्वन् यदिस्तोकं बहुंवा उद्घातमनुद्धातं वा प्रायश्चित्तस्थानमन्यदापन्नस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातं तमुद्घातो भिन्नमासो दीयते । यदि पुनरप्याद्यते ततो भूयोऽपि भिन्नमासो दीयते, एवं विंशतिवारान् भिन्नमासो दातव्यः । यदि विंशतेर्वारभ्यः परतोऽपि भूय आपद्यते, ततः स्तोके बहुके वा प्रायश्चित्ते प्राप्ते लघुमासो दीयते । एवं भूयो भूयस्तावद्यावत् सप्तदश वाग़ नवरमत्र स्तोकं पञ्चकादिभिन्न मासान्तं बहु द्विमासादि पाराञ्चितान्तं ततः परतो यदि पुनरपि भूयो भूय आपद्यते, ततोऽन्यत् सप्तदशवारान् द्वैमासिकं दातव्यं । अत्र स्तोकं पञ्चकादिलघुमासपर्यन्तं बहुत्रिमासादिपाराञ्चितान्तं । एवं त्रैमासिकादिष्वप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहु वेदितव्यानि । ततः सप्तदशवारेभ्यः परतो यदि भूयः पुनः पुनरापद्यते ।। ततस्त्रैमासिकं सप्तदशवारान् दीयते । ततोऽपिपरतो यदिपुनः पुनराद्यते, ततः सप्तवारान् लघु चातुर्मासिकं दीयते । ततोऽपि परतो यदि पुनर्भूयो भूय आपद्यते ततः पञ्च वारान् लघु पञ्च मासिकं दीयते । यदि ततोऽपि परतो भूय आपत्तिस्ततः एकवारं लघु षाण्मासिकं दीयते । तदनन्तरं यदि पुनरपि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् छेदो दीयते । यदि ततः परमपि पुनः पुनरापत्तिस्ततरस्त्रीन् वारान् मूलं दीयते । ततोऽपि परतो भूयो भूय आपत्तौ त्रीन् वारान् अनवस्थाप्य दानं । तदनन्तरं यदि पुनरप्यापद्यते ततः एकं वारं पाराञ्चितं दानमिति । एवमसञ्चयितमुद्धातितं गतमथासञ्चयमनुद्घातितं प्रस्थापितं । ततोमल्पं बहु वा यदि प्रायश्चित्तस्थानमापद्यते तर्हि गुरुको भिन्नमासो दीयते । ततः पुनः पुनरापत्तौ स अष्टादश वारान् दीयते । ततः परं भूयो भूय आपत्तौ पञ्चदश वारान् गुरुमासिकं । ततः परं पञ्चदश वारान् गुरु द्वैमासिकं । ततः परं पञ्चदश वारान् गुरु द्वैमासिकं । ततः परं पञ्चदश वारान् गुरु त्रैमासिकम् ततो भूयोपि परं पंचवारान् गुरुचातुर्मासिकम् । ततः परं यदि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् गुरुपञ्चमासिकं । तदनन्तरमेकवारं षट्गुरु । ततः परं छेदत्रिकं, ततो मूलत्रिकं, ततोऽनवस्थाप्य त्रिकं । तत परमेकं वारं पाराञ्चितम् | सम्प्रत्यक्षरार्थो विक्रियते यदि पूर्वस्थापितमुद्घातमनुद्यातंच प्रायश्चित्तं वहतो लघुभिन्नानां मासिकानां विंशतिवारान प्रदानम्, अनुद्घातं प्रायश्चित्तं वहतो गुरुभिन्नानां मासिकानामष्टादश वारान्। तदनन्तरं भूयो भूय आपत्तावुद्धातं प्रायश्चित्तं वहतः सप्तदश वारान् लघुमासिका भवन्ति, अनुद्घातं प्रायश्चित्तं वहतः पञ्चदश वारान् गुरुमासिकाः । । [भा. ४८८ ] [भा. ४८९ ] उग्घाइयमासाणं सत्तरसेव य अनुमयतेनं । नायव्वा दोन्नि तिन्निय, गुरुया पुन होति पन्नरस ।। सत्त चउक्का उग्घाइयाणं, पंचेव होत अनुग्घाया । पंच लहुयाओ पंच उगुरुगा पण पंचगा तिन्नि । । वृ-उद्घातितमासानामनुद्घातितमासानां ये सप्तदश वारा स्तान् अमुञ्चता ज्ञातव्यौ द्वौ मासौ, त्रयश्च मासा ज्ञातव्याः ये पुनर्गुरुका द्वौ त्रयश्च मासास्ते पञ्चदश वारान् ज्ञातव्याः । किमुक्तं भवति ? उद्घातितं प्रायश्चित्तं वहतो मासिकानन्तरं भूयो भूय आपत्तौ द्वौ मासौ सप्तदश वारान् दीयते । ततोऽपि भूयो भूय आपत्तौ सप्तदश वारान्त्रीन् मासान् अधानुद्घातितं प्रायश्चित्तं वहति, तर्हि गुरुमासिकानन्तरं भूयो भूय आपत्तौ द्वौ गुरुको मासौ पञ्चदश वारान् दीयते । तदनन्तरं पञ्चदशवारान् त्रीन् गुरुकान् मासानिति सप्तचउक्केत्यादि उद्घातितानां चतुष्काः सप्त भवन्ति । अनुद्घातितानामत्र गाथायां प्रथमा षष्ठ्यर्थे चतुष्काः पञ्च भवन्ति लघुकाः पञ्च मासा पञ्च वारान् भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रीन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy