________________
१६८
व्यवहार - छंदसूत्रम् - १-१ / १४
वा यावत् वैयावृत्त्यं करोति तावत्तयोः प्रायश्चित्तं निक्षिप्तं क्रियते, इति तन्निक्षिप्तमभिधीयते । एकैकमभिमुखं निक्षिप्तं च द्विधा संचयितमसंचयितंच, पुनरेकैकं द्विधा उद्घातमनुद्धातंच । तदेतत् संक्षेपत उक्तमिदानीं विस्तरोऽभिधेयस्तत्र यः प्रथम उभयतरस्तस्येमं दृष्टान्तमाचार्याः परिकल्पयन्तिः सेवक दृष्टान्त भावना | [भा. ४८३ ]
जह मासतो उ लद्धो, सेवियपुरिसेन जुयलयं चेव । तरस दुवे तुट्टीतो वित्तीय कया जुयलयं च ॥
वृ- एगो सेवग पुरिसो, रायं ओलग्गइ । सो राया तस्स वित्तिं न देइ । अन्नया तेन राया केणइ कारणेण परितोसितो । ततो तेन रन्ना तस्स तुट्टेण पइदिवसं सुवन्नमासगो वित्ति कया । पहाणं च सेवत्थजुयलं दिनं, तथा चाह- ' जहेत्यादि' यथेति दृष्टान्तोपन्यासे माषकः सुवर्णभाषकः सेवकपुरुषेण लब्धो, युगलं च वस्त्रयुगलं च तस्य च सेवकपुरुषस्य द्वे तुष्टयौ जाते- एकं वृत्तिः कृता द्वितीयं वस्त्रयुगलमिति एप दृष्टान्तोऽयमुपनयः । [ भा. ४८४ ]
एवं उभयतरस्सा दो तुडीओ उसेवगस्सेव । सोही य कयामेत्ती वेयावच्चे निउत्तोय ||
वृ- एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्य सेवकस्येव द्वे तुष्टयौ भवतस्तद्यथा-एकं तावन्मे प्रायश्चित्तदानेन शोधिः कृता, द्वितीयं वैयावृत्ये नियुक्तस्य महती मे निर्जरा भविष्यति । अथ प्रायश्चित्तं वहन् वैयावृत्त्वं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पञ्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण । आदिशब्दात् क्रोधादिभिश्च स्तोकं बहुवा प्रायश्चित्तमापद्यते । यदि अन्यदपि प्रायश्चित्तमापद्यते तदा कथम्? उच्यते[ भा. ४८५ ] सो पुन जइ वहमाणी, आवज्जइ इंदिया इह पुनोवि ।
तं पिय से आरुहिजइ, भिन्नाई पंचमासंतं ।।
वृ- स पुनरुभयतरः प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पञ्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण । आदिशब्दात्क्रोधादिभिश्च स्तोकं बहु वा प्रायश्चित्तमापद्यते । तत्र स्तोकं विंशतिरात्रिंदिवादारभ्य पश्चादानुपूर्व्यायावत् पञ्चरात्रिंदिवं बहुपाराञ्चितादारभ्य पश्चादनुपूर्व्यायावत्मासिकं तदपि से तस्य आरुह्यते, भिन्नादिभिन्नमासादि । आदिशब्दात्सकलमासादिपरिग्रहः पञ्चामासान्तं पञ्चमासपर्यन्तं इयमत्र भावना-स्तोकं बहु वा यथोक्तस्वरूपं यदि प्रायश्चित्तस्थानमापन्नस्तथापि तस्य भिन्नमासादि दीयते । कस्मादिति चेदत आह
[भा. ४८६ ]
तवबलितो सो जम्हा, तेन तेन अप्पे वि दिज्जये बहुयं ।
परतर उ पुन जम्हा, दिज्जइ बहुए वितो तोवं ।।
वृ-यस्मादुभयतरकः प्रायश्चित्ततपः करणे धृतिसंहननबलिष्टस्तेन कारणेन रेफः पादपूरणे 'इजेराः ' पादपूरणे इतिवचनात् । अल्पेऽपिपञ्चरात्रिंदिवादिके प्रायश्चित्तस्थाने बहुकं भिन्नमासादि दीयते । यस्माच्च परतरः परमाचार्यादिकं वैयावृत्यकरणतस्तारयति । ततो बहुकेऽपिपाराञ्चितादिके प्रायश्चित्ते प्राप्ते स्तोकं भिन्नमासादि दीयते, तदेवं स्तोके बहुके वा प्रायश्चित्तस्थानं प्राप्ते भिन्नमासादिदाने कारणमुक्तम् । सम्प्रति भिन्नमासादि यथा दातव्यं तथा प्रतिपादयति
[ भा. ४८६ ]
Jain Education International
वीसारस लहु गुरु भिन्नाणं मासियाणमावन्नो । सत्तारस पन्नारस, लहुगुरुगा मासिया होंति । ।
For Private & Personal Use Only
www.jainelibrary.org