________________
उद्देश : १, मूलं : १४, [भा. ४७८ ]
१६७
षष्ठवेलायामपिछेदः, सर्वत्र त्रीणि त्रीणिदिनानि छेदः सप्तमवेलायां मूलमष्टमवेलायां मूलं, नवमवेलायामपि मूलं, दशम वेलाया मनवस्थाप्य मेकादश वेलाया मनवस्थाप्यं, द्वादश वेलायामप्य नवस्थाप्यं त्रयोदशवेलायां पारञ्चितमिति । एवमनुद्घातितेऽपि असंचये त्रयोदशपदानि प्रस्थापनायां वक्तव्यानि । ‘पढमं’ ति प्रथममसंचयं पदं पदम् । । द्वितीयं संचयपदं 'तववज्जियं' ति मासचतुर्मासलक्षणाभ्यामादमिभ्यां वर्जितमेकादशपदं भवति । एतदेव व्याख्यानयति
[भा. ४७९ ।
बिइयं संचइयं खलु तं आइपएहिं दोहिं रहियं तु । छम्मासतवादीयं एक्कारसपएहिं चरमेहिं ।।
वृ द्वितीयं खलु संचयितमुच्यते । तत् द्वाभ्यामादिदाभ्यां रहितं पण्मासतपआदिकं षण्मासतपःप्रभृतिकं चरमैरेकादशपदैर्द्रव्यम् । तत्रापीयं भावना-संचयितप्रायश्चित्तस्थानमापन्नस्य प्रथममुद्घातं षाण्मासिकं तपो दीयते । द्वितीयवेलायां च्छेदः, तृतीयवेलायां च्छेदः, चतुर्थवेलायामपि च्छेदः, पञ्चमवेलायां मूलं, षष्ठवेलायां मूलं, सप्तमवेलायामपि मूलं, अष्टमवेलायामनवस्थाप्यं, नवमवेलायामनवस्थाप्यं, दशमवेलायामनवस्थाप्यं, एकादशवेलायां पाराञ्चितमिति । एतदेवाह - [ भा. ४८० ] छम्मास तवो च्छेदा इयाण तिगतिग तहेक्क चरमंच । संवट्टियावराहे, एक्कारस पयाउ संचइए ।।
वृ- संचयिते कथंभूते ? इत्याह- संवर्तितापराधे संवर्तिताः पिण्डीभूता अपराधा यत्र तत् संवर्तितापराधं । तथाहि बहुषु मासेषु प्रतिसेवितेषु स्थापनारोपणाप्रकारेम तेभ्यां मासेभ्यो दिनानि दश दश पञ्च पञ्चेत्यादिरूपतया गृहीत्वा षाण्मासिकं तपः । ततः छेदादीनां त्रिकं त्रिकं । किमुक्तं भवति ? तदनन्तरं वेलात्रयमपि यावत् च्छेदत्रिकं, ततो मूलत्रिकं तदनन्तरमनवस्थाप्य त्रिकं । तथा एकमेक वेलं वा चरमं पाराञ्चितमिति । एवं अनुद्घातितेऽपि संचयिते एकादश पदानि वाच्यानि । सम्प्रतियेऽत्र प्रायश्चित्तस्यार्हाः पुरुषास्तान् प्रतिपादयति
[ भा. ४८१ ]
पच्छित्तस्स उ अरिहा इमे उ पुरिसा चउव्विहा होंति ।
उभयतर आयतरगा परतरगा अनतरगाय ।।
वृ- प्रायश्चित्तस्यार्हा योग्या इमे चतुर्विधाश्चत्वारः पुरुषा भवन्ति । तद्यथा - उभयतरा आत्मतरकाः परतरका अन्यतरकाश्च । तत्र ये उत्कर्षतः षण्मासानपि यावत्तपः कुर्वतोऽग्लानाः सन्तः आचार्यादीनामपि वैयावृत्यं कुर्वन्ति, तत् लब्ध्युपेतत्वात्, ते उभयमात्मानं परं चाचार्यादिकं तारयन्तीत्युभयतराः । पृषोदरादित्वात् ह्रस्वः ये पुनस्तपोबलिष्ठा वैयावृत्यलब्धिहीनास्ते तप एव यथोक्तरूपं कुर्वन्ति, न वैयावृत्यमाचार्यादीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः । स्वार्थिकप्रत्ययविधानात् आत्मतरकाः । ये पुनस्तपः कर्तुमसमर्था वैयावृत्यं चाचार्यादीनां कुर्वन्ति, ते परंतारयन्तीति परतरकाः । येषां तपसि वैयावृत्ये च सामर्थ्यमस्ति केवलमुभयं युगपत्कर्तुंन शक्नुवन्ति, किन्त्वन्यतरत् ते एकस्मिन् काले आत्मपरयोरन्यमन्यतरं तार्यन्तीति अन्यतरकाः ।। आयतर परतरे वि य, आयतरे अभिमुहे य निक्खित्ते ।
[ भा. ४८२ ]
एक्वेक्कमसंचइए, संचइ उग्घायमनुग्घाया ।।
वृ- आत्मतरश्च स परतरश्च आत्मतरपरतर उभयतर इत्यर्थः । यश्चात्मतर एतौ द्वावपि प्रायश्चित्तवहनाभिमुखौभवतः । ततस्तस्मिन् प्रत्येकं प्रायश्चित्तमभिमुखमुच्यते । यस्तु परतरोऽन्यतरको
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International