________________
१६६
पुरुषाणामिमे विशेषा इति प्रतिपादयति । [ भा. ४७४ |
व्यवहार - छेदसूत्रम् - १- १/१४
निग्गयवहंताविय संचइया खलु तहा असंचइया । एक्का दुविहा उग्घाया तहा अनुग्धाया ।।
बृ- ये प्रायश्चित्तं वहति, ते द्विविधास्तद्यथा निर्गताः वर्तमानाश्च वर्तमानाश्च निर्गता नाम ये तपोह प्रायश्चित्तमतिक्रांताच्छेदादिप्राप्ताः, वर्तमाना ये तपोर्हे प्रायश्चित्ते वर्त्तते तत्र वैवर्त्तमानास्ते पुनर्द्विविधाः संचयिता असंचयिताश्च संचयः संजात एषामिति संचयिताः, तारकादिदर्शनादितचप्रत्ययः येषां षण्णां मासानां परतः सप्तमासादिकं यावदुत्कर्षतोऽशीतं शतं मासानां प्रायश्चित्तं प्राप्तास्ते संचयितास्तेषां मासेभ्यः स्थापनारोपणाप्रकारेण दिवसान् गृहीत्वा षण्मासावधिकं प्रायश्चित्ते वर्त्तते, ते संचयिता असंचयिताश्च एकैके द्विविधा उद्घातास्तथा अनुद्घाता, उद्घातो नाम लघुरनुद्घातो नाम गुरुस्तत्र ये संचये असंचये च उदघाते वर्त्तते, ते संचयिता असंचयिताश्च उद्याताः, ये पुनरनुद्घाते वर्त्तते, संचयिता असंचयिताश्च ते अनुद्घाता; सांप्रतमेनामेवगाथां यथोक्तव्याख्यानेनव्याख्यानयति । । छयाई आवणाउ निग्गयाते तवाउ बोधव्वा । जे पुन वहति तवे, ते वट्टंता मुनेयव्वा ।। मासादी आवणे जा, छम्मासा असंचयं होइ । छम्मासाउ परेणं, संचइयं तं मुनेयव्वं ।।
[ भा. ४७५ ]
[भा. ४७६ ]
वृ- ये छेदादिप्रायश्चित्तमापन्नास्ते निर्गता उच्यंते, कुतस्ते निर्गता इत्याह, ते तवाउ बोधव्वा, ते निर्गतास्तपसस्तपोर्हात् प्रायश्चित्तात्तु बोधव्वा, ये पुनर्वर्त्तते, तपसि तपोर्हे प्रायश्चित्ते, ते वर्त्तमाना ज्ञातव्याः, मासादी इत्यादि मासादिकं प्रायश्चित्तस्थानमापन्ने मासादारभ्य यावत् षण्मासास्तावत् प्रायश्चित्तमसंचयं असंचयसंज्ञं भवति, षण्मासात् षड्भ्यो मासेभ्यः परेण परतो यत् प्रायश्चित्तं तत् संचयितं ज्ञातव्यं, उद्घातानुद्वातविशेषस्तु सुप्रतीत इति न व्याख्यातः संप्रति संचयासंचयेपूद्घातानुद्घातेषु प्रस्थापनविधिं विवक्षुरिदमाह -
[भा. ४७७ ]
मासाइ असंचइए, संचइए छहिं तु होइ पट्टवणा । तेरसपय असंचइए संचये एक्कारस पयाई ।।
वृ- असंचयितेप्रायश्चित्तस्थाने प्रस्थापना मासादि मासप्रभृतिका, संचयिते पुनः प्रस्थापना नियमतः षडुभिर्मासैर्भवति, प्रस्थापना नाम दानं, उक्तं च निशीथचूणौ पट्टवणा नाम दाणंति, इयमत्र भावना, असंचयिप्रायश्चित्तस्थाने विषये यो मासिकं प्रायश्चित्तस्थानमापन्नस्तस्य मासिकी प्रस्थापना द्वौ मासावापन्नस्य द्वैमासिकी, त्रीन् मासान्नापन्नस्य त्रैमासिकी एवं यावत् षम्मासानापन्नस्य षाण्मासिकी, यः पुनः संचयापन्नस्तस्य नियमात् षाण्मासिकी प्रस्थापनातत्रासंचये प्रस्थापनायाः पदानि त्रयोदश, संचये एकादश, तत्रा संचये प्रस्थापनायाः पदानि त्रयोदशामूनि । ।
[ भा. ४७८ ]
तवतियं छेयतियं वा मूलतियं अनवट्टावणतियं च ।
चरमं च एक्कसस्यं, पढमं तववज्जियं बिइयं ।।
वृ-तपत्रिकं, छेदत्रिकं मूलत्रिकं, अनवस्थाप्यत्रिकं चरमं पारांचितं, तदेकसरं एकवारं दीयते, इदमुक्तं भवति, असंचय उद्घातं मासादिकमापन्नस्य प्रथमवेलाया मुद्धातो मासो दीयते, द्वितीयवेलायामुद्घातचातुर्मासकं, तृतीयवेलायामुद्घातषण्मासिकं, चतुर्थवेलायां छेदः पंचमवेलायामपि छेदः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org