SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [भा. ४७१] १६५ मूलगुणा द्वे चक्रे उद्धी अक्षश्च, उतरगुमा वनकीलकलोहपट्टकादयः एतैर्मूलगुणैरुत्तगुणैश्चसुसंप्रयुक्तं सत्शकटं यथा भारवाहनक्षम भवति, मार्गे च सुखं भवति, साधुर्गप मूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तंः सन्अष्टादशशीलांगसहस्रभारवहनक्षमोभवति, विशिष्टविशिष्टतरोत्तरसंयमाध्यवसायस्थानपथेचसुखं वहति, अथ शकटस्य मूलांगानामेकमपि मूलांगं भग्नं भवति, तदा न भारवहनक्षम, नापि मार्गे वर्त्तते, उत्तरांगैस्तुकैश्चिद्विनापिशकटंकियत्कालंभारक्षमभवति, प्रबहतिचमार्गेकालेनपुनर्गच्छताऽन्यान्यपि परिशटनादयोग्यमेव तदुपजायते। . ___ एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते न साधुनामष्टादशशीलांगसहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहनं, उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति कियंतं कालं चरणभारवहनक्षमता, संयमश्रेणिपथेप्रवर्त्तनंच, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवतिसमस्तचारित्रभ्रंशस्ततः शकटदृष्टांतादुपपद्यते, मूलगुणानांएकस्यापिमूलगुणस्यन नाशेतत्कालंचारित्रभ्रंश, उत्तरगुणनाशे कालक्रमेणेति, इतश्चैतदेवं मंडपसर्षपादिइष्टांतात्, तथाोरंडादिमंडपेयद्येको द्वौ बहवो वा सर्षपा, उपलक्षमेतत् तिलतंदुलादयो वा प्रक्षिप्यंते, तथापि न स मंडपो भंगमापद्यते, अतिप्रभूतैः आढकादिसंख्याकैर्भज्यते, अथतत्रमहती शिलाप्रक्षिप्यते, तदा तयैकयापितत्क्षणादेवध्वंसमुपयाति, एवंचारित्रमंडपोप्येकाद्वित्र्यादिभिः उत्तरगुणैरतिचर्यमाणैर्न भंगमुपयाति,बहुभिस्तुकालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं भ्रंशमुपगच्छतीति, तदेवं यस्मात्मूलगुणातिचरणेक्षिप्रमुत्तगुणातिचरणेकालेन चारित्रभ्रशोभवति, तस्मान्मेमूलगुणाउत्तरगुणाश्च निरतिचाराः स्युरितिषट्कायरक्षणार्थं सम्यक्प्रतिपत्तव्यं, षट्कायरक्षणेहिमूलगुणाउत्तरगुणाश्चशुद्धा भवंतितेषुचद्वयेष्वपिशुद्धेषु, अत्रगाथायामेकवचनंप्राकृतत्वात्,प्राकृतेहिवचनव्यत्ययोपिभवतीति, चरणशुमिद्धश्चारित्रशुद्धिः, अत्र शिष्य प्राह, ये प्राणातिपातादिनिवृत्त्यात्मकाः पंचमूलगुणास्ते ज्ञाता येतूतरगुणास्तान्नजानीमस्ततः केते उत्तरगुणा इति सूरिराह[भा.४७२] पिंडस्स जा विसोही, समितीओ भावना तवो दुविहो । पडिमा अभिग्गहाविय, उत्तरगुणा मो वियाणाहि ।। वृ-पिंडस्यया विशोधिर्याश्च ईसिमित्यादिका याश्चभावना महाव्रतानां, यच्च द्विभेदंतपः, याश्च प्रतिमा भिक्षूणांद्वादशयेचाभिग्रहाद्रव्यादिभेदभिन्ना एतानुत्तरगुणान्मोइतिपादपूरणेविजानीहि, एतेषां चोत्तरगुणानामियंक्रमेण संख्या ।। [भा.४७३] बायाला अट्टेवउ पणवीसा बारबारस यचेव । दव्वाइचउरभिगह,भेया खलुउत्तरगुणाणं ।। वृ- उत्तरगुणानांप्रागुक्तानां पिंडविशुध्यादीनांक्रमेणखल्वमीभेदास्तद्यथा,पिंडविशुद्धाचत्वारिंशभेदाः षोडशविध उद्गमः, षोडशविधा उत्पादना, दशविधा एषणाच, समितीनामष्टो भेदास्तद्यथा पंचईर्यासमित्यादयस्तथा मनःसमितिक्सिमितिःकायसमितिरित्यष्टौ,भावनानांभेदाः पंचविशतिः, एकैकस्य महाव्रतस्यपंचपंचभावनाः सद्भावात्, तपसो द्विविधस्यापिसर्वसंख्ययाभेदाद्वादश, द्विविधं हितपोबाह्याभ्यंतरभेदात्, बाह्याभ्यंतरस्यच प्रत्येकंषट्भेदा इति,प्रतिमानांभेदाद्वादश, तेचमाासत्तं ताइत्याद्यावश्यकग्रंथतो वेदितव्याः, अभिग्रहभेदाश्चत्वारो द्रव्यादिकाः द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाभावाभिग्रहाश्चतदेवमुक्ता उत्तरगुणाः; संप्रतियदधस्तात्प्रायश्चित्तमुपवर्णित्, तद्गतानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy