________________
१६४
व्यवहार - छेदसूत्रम्-१-१/१४ गुणास्तावद्धता एव, किंतुमूलगुणा अपिहन्यते तथा चात्र दृष्टांतमाह - भा.४६८] अग्गग्घातो हणेमूलं, मूलघातोउअग्गयं ।
तम्हा खलुमूलगुणा नसंतिन य उत्तरगुणाय ।। वृ- यथा तालद्रुमस्याग्रसूच्या घातो मूलं हंति मूलधातोपि चाग्रं हंति, एवं मूलगुणानां विनाश उत्तरगुणानपिनाशयति, उत्तरगुणानामपि विनाशोमूलगुणान्तस्मात्मूलगुणातिचाराश्चजिनैः प्रतिक्रुष्टाः, अत्र चोदक आह, यदि मूलगुणानां नाशे उत्तरगुणानामपि नाश उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात्ततोनखलुनैवमूलगुणासंति, नाप्युत्तरगुणाः यस्मानास्तियसंयतो, यो मूलोत्तरगुणानामन्यतमं गुणंनप्रतिसेवते, अन्यतमगुणप्रतिसेवनेचद्वयानामपिमूलोत्तरगुणानामभावः, तेषामभावेसामायिकादिसंयमाभावः, तदभावेवकुशादिनिर्गथानामभावस्ततः प्राप्तं तीर्थमचारित्रमिति, अत्रसूरिराह - [भा.४६९] चोयग छक्कायाणं,तुसंजमोजाऽनुधावएताव ।
मूलगुणउत्तरगुणा दोणिवि अनुधावतेताव ।। वृ-चोदक यावत्षट्जीवनिकायेषुसंवमोऽनुधावति, अनुगच्छति,प्रबंधेन वर्तते,तावत्मूलगुणा उत्तरगुणाश्च द्वयेप्येते अनुधावंति, प्रबंधन वर्तते । [भा.४७०] इत्तरसामाइयछेयसंजमा तहदुवे नियंठाय ।
बउस पडिसेवगातो अनुसजंते य जातित्थं ।।' वृ- यावत् मूलगुणा उत्तरगुणाश्चानुधावंति, तावदित्वरसामायिकछेदसंयमावानुधावतः, यावच्चत्वरसामायिकछेदोपस्थापनसंयमौतावद्द्वौ निग्रंथावनुधावतः तद्यथाबकुशःप्रतिसेवकश्चतथाहि यावत्मूलगुणप्रतिसेवना, तावत्प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना, तावद्बकुशः, ततोयावत्तीर्थं तावत् बकुशाः प्रतिसेवकाश्च अनुसज्जंति, अनुवर्तते, ततो नाचारित्रं प्रसक्तं प्रवचनमिति, अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशेऽस्ति कश्चिद्विशेप उत नास्ति? अस्तीति बूमः, कोसावित्याह[भा.४७१) मूलगुणदइयसगडे, उत्तरगुणमंडवेसरिसवाई।
छक्कायरक्खणट्ठा दोसुविसुद्धे चरणसुद्धी ।। वृ-मूलगुणेषुदृष्टांतोतिः,शकटंच केवलम्,उत्तरगुणा अपितत्रदर्शयितव्याः, उत्तरगुणेषु दृष्टांतो मंडपे सर्षपादि, आदिशब्दात् शिलादिपरिग्रहः, अत्रापि मूलगुणा अपि दर्शवितव्याः इयमत्र भावना, एकेनापि मूलगुणप्रतिसेवनेन ततक्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन अत्र दृष्टांतो दृतिकः, तथाहि यथा दृतिक उदकभृतः, पंचमहाद्वारस्तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रत अतिचर्यमाणे तत्क्षणादेव समस्त चारित्रभ्रंशो भवति, एकमूलगुणघाते सर्वमूलगुणानां घातात्, तथा चगुरवोव्याचक्षते, एकव्रतभंगेसर्वव्रतभंगइति, एतन्निश्चयनयमतं,व्यवहारतः पुनरेकव्रतभंगेतदेवैकं भग्नं प्रतिपत्तव्यं, शेषाणां तु भंगः क्रमेण, यदि प्रायश्चित्तप्रतिपत्या नाऽनुसंधत्ते इति, अन्ये पुनराहु श्चतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभ्रंशः, शेषेसु पुनर्महाव्रतेष्वभीक्ष्णं प्रतिसेवनया महत्यतिचरणे वा वेदितव्यः, उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो, यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्वालयति, एतदपि कुतोऽवसेयमिति चेत् उच्यते, ते शकटदृष्टांतात्तथाहि, शकटस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org