SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं: १४, [भा. ४६२] पाण्मासिकं तपः, यदिपुनरकोविदोप्युपेत्य पंचेन्द्रियघातं करोति, दर्पणवा मैथुनं प्रतिसेवते, तदा तपः छेदो मूलं वा दीयते, विकोविदस्य षन्नां मासानामुपरि बहुष्वपि प्रतिसेवितेषु मासेषु प्रथमवेलायामुद्घातिताः षण्मासादीयंते, द्वितीयवेलायामनुद्घातितास्तृतीयवेलायां छेदो मूलंवा इति, अथकीदृशो विकोविदः कीदृशोवा अविकोविद इत्यतआह[भा.४६३] गीतोविकोविदो खलुकयपच्छित्तोसियाअगीतोवि । छमासियपट्ठवणाए तस्स सेसाण पक्खेवी ।। वृ-गीतो गीतार्थः खलु कृतप्रायश्चित्तो विकोविदः, योप्युक्तो यथा आर्य यदीयं भूयः सेविष्यसे, ततः छेदं मूलं वा दास्यामः, सोपिकोविदः, तद्विपरीतोऽगीतार्थः यश्च प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोपि तथा न सम्यक् परिणमयति, सस्याद्भवेदकोविदः, तत्र यदि कोविदः षट्मासेषु तपसा कर्तुमारब्धेष्वंतरायदिवामासादिकंप्रतिसेवितेतततस्यपूर्वप्रस्थापितषण्मासस्ययेशेषामासा दिवसा वा तिष्ठति.तेषां मध्ये प्रक्षिप्यंते, न पुनः षण्मासपरिपूर्णानंतरं तद्विषयं भिन्न प्रायश्चित्तं दातव्यमिति तथाचाहषण्मासप्रस्थापनायांषण्मासेषुतसाकर्तुमारब्धेषुइत्यर्थः तस्यमासिकादेरपांतराले प्रतिसेवितस्य पण्मासस्ययेशेषामासा स्तिष्ठति, तेषांमध्ये अनुग्रह कृत्स्नननिर नुग्रहकृत्स्नेन वा प्रक्षेपः, आह, एतत् तपः छेदमूलार्ह प्रायश्चित्तंकुत उत्पद्यते; सूरिराह[भा.४६४] मूलातिचारे चेयं, पच्छित्तं होइउत्तरेहिंवा । तम्हाखलुमूलगुणेऽनतिक्कमे उत्तरगुणेवा ।। वृ- एतत्तपः छेदमूलाहँ प्रायश्चित्तं यस्माद् भवति, मूलातिचारमूलगुणतिचारे प्राणातिपातादि प्रतिसेवने इत्यर्थः, उत्तरैर्वा उत्तरगुणैर्वा पिंडविशुद्धयादिभिरतिचर्यमाणैर्भवति प्रायश्चित्तं, तस्मात् मूलगुणात्प्राणातिपातादिसेवनयाउत्तरगुणाद्वा उद्गमादिदोषासेवनया नातिक्रमेत्, अत्र पर आह[भा.४६५] मूलव्वयाइयारा जयाऽसुद्धाचरणभंसगा होति । उत्तरगुणातियारा, जिनसासने किंपडिकुठ्ठा ।। वृ- यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्याभ्रंशकाः प्राप्ता मूलगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात्, ततः किमुत्तरगुणा जिनशासने प्रतिक्रुष्टाः न युक्तस्तेषां प्रतिषेधो दोषाकारित्वादितिभावः । [भा.४६६] उत्तरगुणातियारा जयसुद्धा चरणभंसया होति, . मुलव्वयातियारा, जिनसासने किंपडिकुट्ठा ।। वृ- यदि उत्तरगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः मूलव्रतातिचारांश्चरणभ्रंशकान्प्राप्नुवंति, उत्तरगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात्तथाच सतिमूलव्रतातिचाराः किं जिनशासनेप्रतिक्रुष्टाः दोषाभावात् अत्रसूरिराह - [भा.४६७] मूलगुणउत्तरगुणा जम्हाभंसंतिचरणसेढितो । तम्हा जिनेहिं दोनिवि, पडिकुट्ठा सव्वसाहूणं ।। वृ-यस्मात्मूलगुणा उत्तरगुणा वा पृथक् पृथक्युगपद्वा अतिचर्यमाणाश्चरणश्रेणीसंयमश्रेणीतो भंशयति साधून ततो जिनैः सर्वईयोरषि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिक्रुष्टाः अन्यच्च मूलगुणेष्वतिचर्यमाणेषुमूलगुणास्तावद्धताएव किंतूत्तरगुणा अपिहन्यंते, उत्तरगुणेष्वतिचर्यमाणेषूतर Jain Education International For For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy