________________
१६२
व्यवहार - छेदसूत्रम् - १-१/१४ तथा आचार्योपि गच्छोपग्रहं करोति, गच्छोपग्रहणं च कुर्वन् भगवदाज्ञां पालयति, ततो मरुकवत् स पूज्यः, सर्वं च तस्य प्रायश्चित्तं मुच्यते इत्यदोषः, तथा चाह, मरुकसमानो गुरुरिति पूज्यते, अत एव च से तस्य पूर्वं प्रायश्चितं मुच्यते, साधुः पुनर्यथा वणिक तथा द्रष्टव्यः, ततः सर्वं प्रायश्चित्तं वाह्यते, अथवा वणिक मरुयनिही पुनी इत्यत्र वणिग्दृष्टांतोऽगीतार्था नाम, मस्कदृष्टांतोगीतार्थानामुभयेषामपि यादृशः, षण्मासालोचनायामाचार्यस्य विनयोपचारः करणीयस्तथा मासिकालोचनायामपि इत्यत्रार्थे निधिदृष्टांतस्तथा चाह;[भा. ४६०]
य
अहवामहानिहिम्मी जो उवयारो स एव धोवेवि । विनया दुवयारो पुन, जो छमासे समासे वि ।।
बृ- अथवेति निधिशब्दस्यार्थांतरार्थदृष्टांते चोपदर्शने महानिधावुत्खनितव्ये, यो यादृश उपचारः क्रियते, स एव तादृश एव स्तोकेपि निधावुत्खनितव्ये करणीयः, एवमपराधालोचनायामपि यादृशः षण्मासालोचनायां विनयाद्युपचारः क्रियते, आदिशब्दात् प्रशस्तद्रव्यक्षेत्रकालभावपरिग्रहः स तादृशो मासेपि मासिकायामपि कर्त्तव्यः, अत्राह परो यदिदं सूत्रखंडं यूयं प्ररूपयथ तेन परं पलिउंचए वा अपलिउंचिए वा ते चेव छम्मासा इति, स किमेष सर्वस्यापि नियम उत पुरुषविशेषस्य ? सूरिराह । । [ भा. ४६१] सुबहूहिंवि मासेहिं छम्मासाणं परं न दायव्वं । अविकोवियस्स एवं विकोविए अन्नहा होइ ।।
वृ- षण्मासेभ्यः परतः सुबहुभिरपि मासैः प्रतिसेवितैः प्रायश्चित्तं पण्मासानां परं सप्तमासादिकं न दातव्यं, किंतु षण्मासावधिकमेव, यतोऽस्माकमेतावदेव भगवता वर्धमानस्वामिना तपोर्हं प्रायश्चित्तं व्यवस्थापितं एतच्चैवमुक्तप्रकारेण स्थापनारोपणाप्रकारेणलक्षणेन दातव्यं, अविकोविदस्य अपरिणामकस्य अतिपरिणामकस्य वा अगीतार्थस्य च, इयमत्र भावना, सर्वस्याप्येष नियमो यदुत सुबहुष्वपि षएमासेभ्यः परतो मासेषु प्रतिसेवितेषु प्रायश्चित्तं परमासावधिकमेव दातव्यं, न ततोधिकमपि, केवलमेतावांस्तु विशेषो योऽपरिणामको अतिपरिणामिको वा तस्यागीतार्थस्यस्थापनारोपणाप्रकारेण सर्वान् मासान् सफलीकृत्य षाएमासिकं तपोदीयते, वस्तुविकोविदो गीतार्थोऽगीतार्थो वा परिणामकस्तस्मिन्नन्यथा भवति प्रायश्चित्तदानं किमुक्तं भवति, विकोविदस्य पण्मासानां परतः सुबहुष्वपि मासेषु प्रतिसेवितेषु शेषं समस्तं त्यक्त्वा षण्मासा दीयंत, न पुनरस्ति तत्र स्थापनारोपणाप्रकार इति, आह परो, यदि भगवता तपोहे प्रायश्चित्ते उत्कर्षतः षण्मासा दृष्टास्ततः षण्मासातिरिक्तमासादिप्रतिसेवने छेदादि कस्मान्नदीयत, येन शेषं समस्तमपि त्यज्यते इति तत्राह -
[ भा. ४६२ ]
सुबहूहिं वि मासेहिं छेदो मूलं तहिं न दायव्वं । अविकोवियस्स एवं विकोविए अन्नहा होंति ।।
7
वृ- यो नामागीतार्थोऽपरिणामको ऽतिपरिणामिको वा यो वा छेदादिकं न श्रद्दधाति तस्य एवमवसातव्यं, षण्मासानामुपरि सुबहुभिरपि मासैः प्रतिसेवितैः छेदो मूलं वा न दातव्यपरिणामादिस्वभावतया तस्य छेदमुलानर्हत्वात्, किंतुस्थापनारोपणाप्रकारेण सा दीयंते; विकोविदे गीतार्थेऽगीतार्थे परिणामके तदेव षण्मासदांनमन्यथा भवति, स्थापनारोपणाप्रकारमंतरेणापि एवमेव दीयंते षण्मासा इति भावः, अयमत्र संप्रदायः, अविकोविदा उक्तस्वरूपा निःकारणं प्रतिसेवनया यतनया प्रतिसेवनया वा अभीक्ष्णप्रतिसेवनया वा यदिवा कथमपि छेदमूलादिकं प्राप्तास्तथापि तेषां छेदो मूलं वा न देयं, किंतु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International