________________
१७५
उद्देशक : १, मूलं : १४, [भा. ५०१]
वृ-परतरको वैयावृत्त्यं तुकुर्वन् यदि इन्द्रियादिभिः स्तोकं वहुवा आपद्यते प्रायश्चित्तं ततस्तस्मिन् परतरके ततो वैयावृत्यकरणादारभ्य यावद्वैयावृत्यं करोति तावत् परोपकारीति । स्तोकं बह वा यदन्यदापद्यते, तस्य सर्वस्य झोषणता परित्यागः । ततो वैयावृत्यसमाप्त्यनन्तरं पूर्वनिक्षिप्तं प्रायश्चित्तमुद्घातं वहतो भूयो भूय आपत्तौ मासलघुकाः सप्त भवन्ति दातव्याः, सप्तवारान् लघुमासो दीयते इतिभावः । अनुद्घातंवहतः षट्भवन्तिमासगुरवो देयाः षट्वारान् गुरुमासोदीयतेइत्यर्थः । चडलहुगाणमित्यादिउद्घातंवहतःसप्तवारलघुमासिकदानानन्तरंभूयोभूय आपत्तौचर्तुलधुकानांपञ्चकं दात्तव्यम् । पञ्चवारान्चत्वारोमासलघुकादातव्या इत्यर्थः ।अनुद्घातंवहतः षड्वारगुरुमासिकादानानन्तरं चतुर्गुरुकाणां चतुष्कं चतुरो वारान् चतुर्गुरुकं देयम् । ततः परमभुयस्यापि च्छेदादि चतुष्कं च्छेदमूलानवस्थाप्प पाराञ्चित लक्षणं भवति । पूर्वप्रकारेण दानबुद्धया ज्ञातव्यं । साम्प्रतं झोषणा ततो परेणंएतस्य व्याख्यानार्थमाह[भा.५०२] तंचेवपुव्वभणियं परतरए नत्थि एगखंधादी ।
दो जोए अचयंते, वेयावच्चट्ठयाझोसो ।। वृ-यत्पूर्वमन्यतरकेभणितंयथानास्त्येतत्यत्एगखंधाईएकेन स्कन्धेन एककालंद्वेकापोत्यावुह्येते इति तदेव परतरकेऽपि सर्वं भणनीयम् । ततो द्वौ योगौ तपःकरणवैयावृत्यलक्षणौ युगपदशक्नुवन् संचयितमसंचयितंवा यदापन्नस्तन्निक्षिप्तं कृत्वा वैयावृत्यं कुरुते ।वैयावृत्यं च कुर्वतो यद्यदापन्नंस्तोकं बहुवा तस्य सर्वस्यापिवैयावृत्यार्थतया प्रवृत्तत्वात्झोषः परित्यागः कर्त्तव्यः । तदेवंतपोभणितंयानि यत्र भिन्नमासादीनि मासादीनि वा तपःस्थानानि षट् पञ्चेत्यादिलक्षणानि तावन्ति दिनानि च्छेदप्राप्ते च्छेदाः कर्तव्याः । अथ मूलं कीदृशस्य देयमुच्यते[भा.५०३] तवतीयमसद्दहएतवबलिए चेव होइपरियागे ।
दुब्बल अप्परिणामे अस्थिरअबहुस्सुए मूलं ।। वृ- यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो व्युत्क्रान्तः । किमुक्तं भवति ? । मासादिना षण्मासपर्यन्तेन तपसा यो न शुद्धयति, तपोग्रहणमुपलक्षणं देशच्छेदमपि योऽतीतो देशच्छेदेनापि यो न शुद्धयतीति भावः, तस्य मूलं दीयते, इति सर्वत्र सम्बद्धयते । तथा असद्दहिए इति तपसा पापं शुद्धयतीति एतद्यो न श्रद्दधाति, तस्मिन्नप्यश्रद्दधाने मूलं अथवा अश्रद्दधानो नाम मिथ्याष्टिः । ततो योअश्रद्दधान एव सन्व्रतेषुस्थापितः पश्चात्सम्यक्त्वं प्रतिपन्नः सन्सम्यगावृत्तोभवति तस्य मूलं देयं यथा गोविन्दवाचकस्य दत्तमिति । तव बलिएत्ति तपसा बलिको बलिष्ठोऽसौ तपोबलिकः । किमुक्तं भवति? । महतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विन्नित्य प्रतिसेवते। यदिवाषाण्मासिके तपसि दत्तेवदति समर्थोऽहमन्यदपितपः कर्तुतदपिमे देहीतितस्मिन् तपोबलिके मूलं पर्याये इति यस्य च्छेदेन छिद्यमानः पर्यायो न पूर्यते न पूर्यते स्तोकत्वात् । अथवा च्छेदपर्यायंयोनसम्यक्श्रद्दधाति । यथा कोऽयमर्धजरतीयोन्यायः कियत्पर्यायस्यच्छिद्यते कियन्नेति, च्छिद्यतेतर्हिमूलतएवच्छिद्यतां ।यदिवान किमपीति, यदिवावक्तिरत्नाधिकोऽहंबहुकेऽपिपरिच्छिन्ने पर्याय अस्ति मे दीर्घः पर्याय इति न किमपिच्छेत्स्यति, तस्य सर्वस्यापि पर्याय हीनस्य पर्याये श्रद्धानरहितस्य पर्याय गर्वितस्य मूलं, तथायोबहुप्रायश्चित्तमापन्नोऽथचधृतिसंहननाभ्यांदुर्बलत्वात् तपःकर्तुमसमर्थस्तस्मिन् दुर्बले मूलं, तथायोऽपरिणामत्वात् बूते । यदेतत्तपः पाण्मासिकं युष्माभिर्मे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org