SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं: १४, [भा. ४४९] १५९ प्रायश्चित्तान्यालोचयति तावंति दीयंते इति, तृतीयेपि भंगे बहुप्रतिसेवितमोतऽशठस्य सत एकनिषद्ययालोचना न समापित्मुपगता, ततो यस्मिन् दिनेसमाप्तिमुपयाति, तस्मिन् दिने प्रथमभंगक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यं, अथ शठतया अन्यस्मिन् अन्यस्मिन्नहन्यालोचयति, तर्हि यावंत्यपराधपदानि आलोचयति, तावंति प्रायश्चित्तानि दातव्यानि, चरमभंगेपि यद्यशठभावतो विस्मृततया बहुप्रतिसेवनातो वा अनेकेषु दिवसेष्वालोचना समाप्तिगच्छति, ततस्तत्रापिप्रथमभंगक इवैकंगुरुतरकमवघाटनंप्रायश्चित्तं देयमथ मायावितयाततो यावंत्यपराधपदानि तावंतिप्रायश्चित्तानि दातव्यानीति, इह आगारी दृष्टांतः पूर्वमुपक्षिप्तभिदानीं कथयति - [भा.४५०] गावी पीयावासी, यहारियाभावणंचतेभिन्नं । अज्जेव ममंसुहयं कारउ पडओवितेनट्ठी ।। [भा.४५१] एगावराहदंडे अन्नेय कहेयगारिहम्मंती । एवंनेगपएसुविदंडो लोगुत्तरो एगी ।। वृ- अगारी गृहस्था स्थकारस्य भार्या, एकापराधदंडे शून्ये गृहे चाप्रविष्टइत्येकस्यापराधस्य दंडे पिट्टनलक्षणे भाक्रियमाणे हन्यमानाऽचिंतयत् बहवोऽपराधा मया कृतास्ततो मा प्रतिदिवसमेव मां हन्यात्, किंअद्यैव मांसुहतां करोतु, एवं चिंतयित्वा अन्यानप्यपराधान् कथयति, यथागौर्वत्सेन पीता, किमुक्तंभवति,गांवत्सोधावितवान्, तथावासी चहारिताक्वापिमुक्ता कस्मैसमर्पिता वान जानामि, तथाभाजनमपि कांस्यभाजनमपिते तव संबंधी यत्रभवान् भुक्ते हस्तात् पतितं सत्भग्नं तथा पटोपि ते तवसम्बन्धी नष्टो न दृश्यते केनापि हृत इति भावः एवं लोकोतरेपि एक निषद्यायामे कालोचानायामित्यादि, चतुर्भङ्ग्याममायाविनो अनेकेष्वपराधपदेषु दण्ड एको गुरतरको दीयते, अथवा अत्रैवालोचनविषयेऽयमन्यो दृष्टान्तः [भा.४५२] नेगासुचोरियासुमारणदंडोनसेसवादंडा । एवमनेगपएसुविएको दंडो न उविरुद्धो ॥ वृ. एगो चोरो तेन च बाहुयाओ चोरियाओ कयाओतं जहा, कस्सइभाणं हरियं, कस्सइ पडओ, कस्सइ हिरणं कस्सइप्पं, अनया तेन राउले खत्तं खणियं रयणा हिया दिट्टो, आरक्खगेहिं गहितो रनो उवढवितो, तस्समयं च अने बहवो उवठिया भणंति, अम्हवि एएण हडं, ततो रन्ना रयणह रित्ति काउं तस्स मारणदंडो एक्को आणत्तो, सेस चोरिया दंडा तत्थेव पविट्ठा तथा चाह, अनेकासु चोरिकासु रत्नचोरिकानिमित्तं तस्यैको मारणदंडः प्रयुक्तो, न शेष चोरिका दंडा स्तेषां तत्रैव प्रविष्टत्वात्, एवं लोकोत्तरेप्यनेकपदेषु गुरुकैकपदनिमित्त एकोदंडोऽविरुद्धः शेषदंडाना तत्रैव प्रवेशत्, तदेवमालोचनां प्रत्येकत्वं दोषाणामुपपादितं,साम्प्रतंदुर्बलंप्रतीतभाव्यते,तत्रभंडी दृष्टांतस्तत्रापिभङ्गचतुष्टयं, तद्यथा भंडी बलिकाबलीव बलिका ? भंडी बलिका बलिवर्धा दुर्बलाः,२भंडी दुर्बला बलीव दुर्बलिकाः ३ दुर्बलाबलीवद्धाश्च दुर्बलिकाः ४ तत्र प्रथमभंगे बाह्यं परिपूर्णमारोप्यते, द्वितीयभंगे यावत् बलीवर्धा आक्रष्टुं शक्नुवंतितावदारोप्यते तृतीयभंगे यावता आरोपितेन भंडा न भज्यते तावदारोहयतेचरमभंगे यावन्मात्रेण नभंडीभंगमुपयाति, यावच्चबलीवर्धा आक्रष्टुमलं तावदारहयतेएष दृष्टांतोऽयमुपनयः - [भा.४५३] संघयणंजह सगडंधित्तीउधोजेहि होतिउवनीया । बिय तिय चरिमेभंगे,तंदिज्जइजंतरइवोढुं ।। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy