SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं: १४, [भा. ४४६] १५७ आलोचयतांभावमभिप्रायंदुरूपलक्षमप्यागमबलतः सम्यग्जानंति,ज्ञातच भावे या येन प्रायश्चित्तेन शुध्यति, तस्मै तत् चतुर्भगिकविकल्पतो जिना इव प्रयच्छंतीति, न किंचिदनुपपन्नं, तदेवं चतुर्दशपूर्विणमधिकृत्य दोषा एकत्वमापन्ना इति भावितम्, अधुना यथा जातिं प्रतीत्य दोषा एकत्वमापाते, तथा प्रतिपादयति[भा.४४७] मासचउमासेहिं, बहुहिं वगंतु दिज्जएसरिसं । असनाई दव्वाई, विसरिस वत्थूसुजंगरुयं ।। वृ- जातिर्द्विधा, प्रायश्चितैकजातिव्यजातिश्च तत्र प्रायश्चित्तकजातिमधिकृत्येदमुच्यते, मासचतुर्मासिकैर्बहुभिरपि प्रतिसेवितैरेकं मासंचतुर्मासादिकं दीयते, इयमत्र भावना बहुपु लघुमासिकेषु प्रतिसेवितेष्वेकवेलायामालोचितेषु प्रतिसेवनायां मंदानुभावकृतत्वात् प्रतिसेवितमासानामपि सादृश्यत्वात्आलोचनायामपि सर्वेषामशठभावेनैकवेलायामालोचितत्वात्; एकं लघुमासिकं दातव्यं, एवं बहुषु गुरुमासिकेपु प्रतिसेवितेष्वेकं गुरुकं, बहुपु लघुषु द्वैमासिकेष्वेकं लघु द्वैमासिकं बहुषु गुरुद्वैमासिकेष्वेकं गुरु द्वैमासिकं, एवं त्रैमासिकं चातुर्मासिक पांचमासिकंषाण्मासिकेष्वपिभावनीयं, विसरिसवत्थूसु जं गरुयमिति विसदृशवरतुषु यत् गुरुकं तद्दातव्यं, तद्यथा बहुषु लघुगुरुमासिकेषु प्रतिसेवितेष्वेकं गुरुकं, बहुषु लघुगुरुद्वैमासिकेष्वेकं गुरु द्वैमासिकमेव त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि द्रष्टव्यं, तथा बहुषु मासिकेषु बहुषु च द्वैमासिकेषु प्रतिसेवितेष्वेकं द्वैमासिकमेवं त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं, बहुषुमासिकेषुद्वैमासिके त्रैमासिकेषु चातुर्मासिकेषु पांचमासिकेषु षाण्मासिकेषु प्रतिसेवितेष्वेकं पाण्मासिकमिति, संप्रति द्रव्यजातिमधिकृत्य दोषाणामेकत्वंभावयति - ___ असनाई दव्वाई इति, द्रव्याणि अशनादीनि अशनपानखादिमस्वादिमानि तान्येकान्यधिकृत्य दोषाणामेकत्वमुपजायते, तत्रैव द्रव्यमधिकृत्यैवं अनेकानि अशनैक द्रव्यविषयाण्याधाकर्मिकान्यभवन्, तत्रैकमाधाकर्मिकंचतुर्गुरुदीयते यदिवा बहून्याहृतान्यभवन्तत्रैकमाहृतनिष्पन्नंमासिकं दीयते, एवमुदकार्द्रराजपिंडादिष्वपि भावनीयं, अनेकद्रव्याण्यधिकृत्यैवं अशनमाधाकर्मिकं पानमाधाकर्मिकं प्रतिसेवितं, तेषा सर्वेष्वेकवेलमालोचितेषु एकमाधाकर्मिकं चतुर्गुरु दीयते, बहुष्वनेकद्रव्यविषयेषूदकातेषु एकमुदकाईनिष्पन्नं मासलघु दीयते, एवमनेकद्रव्यविषयेष्वपि स्थापनौद्देशिकादिष्वपि भावनीयं, विसरिसवत्थूसुजंगुरुयमित्येतदत्रापि संबध्यते, तद्यथा एकमशनं राजपिंडोअपरमशनमाह्वतमन्यदुदकाईमपरमाधाकर्मिकमत्रैकमेवगुरुतरमाधाकर्मिकनिष्पन्नंचतुर्गुरु दीयते, एवं पानकादिष्वपिस्वादिममौद्देशिकमत्राप्येकमाधाकर्मिकनिष्पन्नंचतुर्गुरुदीयते अत्रचागारी दृष्टांतः यथाएगोरहगारो तस्सभजाएबहू अवराहा कया, नयभत्तुणा नाया, अन्नयासा घरं उग्घाडदुवारं पमोतुं पमायाओ सयज्झियघरे ठिया, तत्थ य घरे साणो पविठ्ठो, तस्समयं च पई आगतो, तेन साणो ट्ठिोपच्छासाअगारी आगया, अवराहकारिणीतिभत्तुणा पिट्टिउमारद्धासा चिंतेइ, अन्नेविमेबहू अवराहा अत्थि. ते विमाणाउं एस पिट्टिहिइ, ता इयाणिं चेव सव्वे कहेमि, गावी वच्छेण पीता वासी हारिया कंसभायणमवि हत्थातो पडियं भिन्नं, पडओवि तुम्हाणं नट्ठोत्ति, एवमादि अवराहे, एकसरा कहिएसु तेन सा एकवारं पिट्टिया, एवं लोकोत्तरेपि अनेकेष्वपराधपदेष्वेकप्रायश्चित्तदंडो दीयते, तदेवं दव्वे एगमनेगत्ति, गतमिदानीमालोचनादीनि त्रीणि द्वाराणि वक्तव्यानि, तेषां यथाक्रममिमे दृष्टांताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy