________________
उद्देशक : १, मूलं : १४, [भा. ४२२]
१४९
दशभिर्गुणिता, जाताः पंचाशंशतं । । तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातं सप्ततं शतं । । तदेवं दशभिर्गुणने ऊनाः षण्मासा एकादशभिर्गुणने अधिका इति पाक्षिक्यामारोपणायां समकरणं प्रतीत्य न दशादिको गुणकार इतीयमकृत्स्नारोपणेति प्रतिपत्तव्यं, तस्सुवरिमेत्यादि तस्याधिकृतस्य विंशिकादिरूपस्य पदस्योपरि त्रिंशत्प्रभृतिके स्थापनापदे येन गुणकारेण दशादिलक्षणेन गुणने षण्मासदिवसपरिमाणं समं भवति, स तत्र गुणकारस्तेन गुणकारेण सा आरोपणा तस्मिन् स्थापनापदे कृत्स्नेत्यवगंतव्या यथा पाक्षिक्येवारोपणा त्रिंशत्स्थापनायां तथाहि पंचदशदिनारोपणा दशभिर्गुणिता जातं पंचाशं शतं, त्रिंशत्स्थापनादिवसाः प्रक्षिप्ता जातमशीतं शतं ।। एवं पंचचत्वारिंशद्दिने स्थापनापदे नवभिः षष्ठिदिनेऽष्टभिः, पंचसप्ततिदिने सप्तभिर्नवतिदिने षड़भिः, पंचोत्तरशतदिने पंचभिः, विंशत्युत्तरशतदिने चतुर्भिः पंचत्रिंशदुत्तरशतदिने त्रिभिः पंचाशशतदिने द्वाभ्यां पष्ठिशतदिने एकेन गुणने, समं षण्मासदिवसपरिमाणं भवति, पंचचत्वारिंशदादिषु स्थापनापदेषु पाक्षिक्यारोपणा कृत्स्ना प्रतिपत्तव्या, तथा विंशिकायां आरोपणायां विंशतिदिने स्थापनापदेऽष्टभिः चत्वारिंशद्दिने सप्तभिः पष्टिदिने षड्भिरशीतिदिने पंचभिः शतदिने चतुर्भिः, विंशतिशतदिने त्रिभिः, चत्वारिंशशतदिने द्वाभ्यां, षष्ठिदिनशतदिने एकेन समं षण्मासदिवसपरिमाणं भवतीति, विंशिकाप्यारोपणा विंशिकादिपु स्थापनापदेषु कृत्स्नेत्यवसेया । एवंशेषा आरोपणा गुणकारैर्विचारयितव्या इति, एतदेव सुव्यक्ततरमाह [ भा. ४२३ ] जहिं गुणा आरोवण ठेवणाजुत्ता हवंति छम्मासा ।
7
तावइयारुवणाओ हवंति सरिसा भिलावाओ ।।
वृ- यतिभिर्यावद्भिर्गुणकारैर्गुण्यते स्म, गुणा गुणिता आरोपणा तदनंतरं स्थापनायुक्ता स्थापनादिवसयुक्ताः पण्मासा भवंति तावत्यो गुणकारसंख्यास्तुल्यास्ता आरोपणाः कृत्स्ना इति गम्यते प्रतिपत्तव्याः कथंभूतास्तास्तावत्यः कृत्स्नारोपणा इत्याह, सद्दशाऽभिलाषा एकाभिलापा इति भावः, यथा पाक्षिकी आरोपणा त्रिंशद्दिनादिषु स्थापनादिषु दशादिभिर्गुणकारैर्गुणितास्तदनंतरं च स्थापनादिवसयुताः षण्मासान् पूरयतीति दश कृत्स्ना आरोपणाः सदृशाभिलाषा एवमन्या अपि तैस्तैर्गुणकारस्तावत् संख्याकैस्तेषु तेषु स्थापनापदेषु गुणितास्तदनंतरं तत्र स्थापनादिवसयुक्ताः षण्मासपूरिकास्तावत्संख्याकाः कृत्स्ना आरोपणाः सदृशाभिलाषा भावनीया संप्रति आलोचकमुखात् प्रतिसेवितमासाग्रं श्रुत्वा तन्मासाग्रस्थापनायामारोपणायां च स्थापयित्वारोप्य च परस्मै विविक्तमुपदर्शयेदित्युपदेशमाह।
[ भा. ४२४]
Jain Education International
ठवणारोवणमासे, नाऊणं तो भणाहि मासग्गं । जेन समं तं कसिणं, जेनहियं तं च झोसग्गं ।।
बू- आलोचकमुखात् प्रतिसेवितमासपरिमाणमाकर्ण्य तदनंतरमेतावंतो मासाः स्थापनायामेतावंत आरोपणायामिति ज्ञात्वा ततः संचयमासाग्रं विविक्तमालोचकाय भण, प्रतिपादय, यथाऽष्टापंचाशत् प्रतिसेवितमासा आलोचकमुखादुपलब्धाः, तत आचार्येण स्थापनारोपणादक्षेण विंशिकास्थापना पंचाशशतिका चारोपणा स्थापिता तत्र स्थापनारोपणादिवसानामेकत्र मीलने जातं सप्ततं शतं । । ततः षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः शोधितं, स्थिताः पश्रातू दश, तेषामधिकृतया पंचाशशतिकया आरोपणया भागो ह्रियते तत्र भागो न लभ्यते इति चत्वारिंशं शतं प्रक्षिप्तं, ततो भागे हृते लब्ध एकोमास . इयमारोपणा अष्टाविंशतिमासनिष्पन्ना अष्टाविंशतितमा चेति एकोऽष्टाविंशत्या गुणितो जाता
For Private & Personal Use Only
www.jainelibrary.org