SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १५० व्यवहार -छदसूत्रम्-१-१/१४ अष्टाविंशतिः । तत एवमालोचकाय कथयति, यथा द्वौ स्थापनामासोऽष्टाविंशतिरारोपणामासा एते मिलितास्त्रिंशत अष्टाविंशतिरन्येमासा आरोपणायाभागे हतेलब्धा एवं सर्वत्रसंचयमासाग्रलोचकाय विविक्तं भणनीयमिति, येन पुनरारोपणाभागहारेण भागे ह्रियमाणे झोषविरहेण समं शुध्यति, तत्कृत्स्नमारोपणंद्रष्टव्यं, येन यावत्प्रमाणेन तुदिवसमीलनचिंतायांषण्मासपरिमाणमधिकंभवति,तच्च तावत्प्रमाणं पुनर्दोषाग्रं झोपपरिमाणमवसातव्यं, यथा विंशिकायां स्थापनायां पाक्षिक्यामारोपणायां पंचेतिएतेन झोषपरिमाणलक्षणमुक्तं द्रष्टव्यं - - [भा.४२५] जत्थउदुरूवहीणा, नहोतितत्थओ हवंतिसाभावी । एक्काई जाचोइस, एक्का तो सेस दुगहीना ।। वृ- इहसर्वासां स्थापनानामारोपणानांच दिवसभ्यो मासानामुत्पादनाय पंचभिर्भागोहर्तव्यः, तत्र भागेहृतेयल्लब्धंतन्नियमाद्विरूपहीनंकर्तव्यं,यत्रपुनरारोपणाशुद्धहीनालब्धामासानभवंति, एकादिषु चतुर्दिनपर्युतासुपंचभिर्भागहारस्यएवासंभवात्पंचदिनादिषुनवदिनपर्यंतासुपंचभिर्भागेहृतेलब्धस्य द्वयोरूपयोरभावात् दशदिनादिशु चतुर्दशदिनपर्यंतासु शुद्धिरूपापसरणे शून्यस्य भावात् ता एकादय एकदिनादयो यावच्चतुर्दशदिनपर्यंताःस्थापनारोपणाश्चस्वाभाविकाएकस्मात्मासात्द्रष्टव्याः किमुक्तं भवति, स्वभावेनैव न तुमासोत्पादननिमित्तकरणप्रयोगत एकस्मान्मासान्निर्वृताः प्रतिपत्तव्या इति ।। सेसदुगहीनत्ति शेषाः पुनः पंचदशदिनादयः स्थापना आरोपणाश्च द्विकहीना ज्ञेयाः पंचभिर्भागे हृते लब्धद्विरूपहीन स्वभावात् उपचारतो द्विकहीना उक्ताः ।। [भा.४२६] उवरिंसुपंचभइए जइसेसातत्थ केइ दिवसाउ। तेसव्वे एगातो, मासातो होतिनायव्वा ।। वृ-पंचदशदिनायाः स्थापनाया आरोपणायाश्च उपरिषोडशदिनादिषुस्थापनारोपणासुपंचभिर्भागे हृते उपरभिगलब्धेभ्यःशेषायेएकद्विकादयोदृश्यतेतेसर्वेलब्धानांपूरणभूतत्वादेकस्मात्मासाद्भवंति ज्ञातव्याः, किमुक्तं भवति, तेषु शेपीभूतेष्वपि स एवैको मासो गृह्यते, यः पंचदशदिनायां लब्ध इत्येवमेकविंशतिदिनादिष्वपि भावनीयं, संप्रति हीनाहीने ग्रहणे लक्षणं प्रतिपिपादयिपुर्वथा स्थापनारोपणामासेभ्यः शेषसंचयमासेभ्यश्च दिवसग्रहणं क्रियते, तथा प्रतिपादयति । [भा.४२७] होइसमे समगहणंतहवि व पडिसेवणाउनाऊणं । हीनंवा अहियं वा सव्वत्थसमंवा गेण्हेज्जा ।। वृ-स्थापनारोपणादिवसानां दिवसपरिमाणे समे तुल्ये तासुस्थापनारोपणासुमासेभ्यो दिवसग्रहणं समं भवति, यावंतः स्थापनामासेभ्यः प्रत्येकं दिवसा गृहीतास्तावंत आरोपणामासेभ्योपीति भावः, शेषमासेभ्यो दिवसग्रहणंसमं विषमंवा यथा सप्तदिनायां स्थापनायासप्तदिनायां चारोपणायां तथाह्यत्र पूर्वकरणप्रयोगतः षड्विंशतिसंचयमासा लब्धाः, तत्र स्थापनारोपणामासाभ्यां सप्त सप्त दिनानि गृहीतानि, ये चारोपणया भागे हृते लब्धाश्चर्विंशतिमासास्तेष्वेकस्मात पंच दिनानि गृहीतानि, द्वयोर्दिनयोपिं पतित्वात् शेषेभ्यस्तु त्रयोविंशतिमासेभ्यः सप्त सप्त.दिनानीति एवमन्यास्वपि स्थापनारोपणासुतुल्येदविसपरिमाणेस्थापनारोपणामासेभ्यस्तुल्यदिवसग्रहणं,शेपमासेभ्यस्तुल्यं विषमं वा भावनीयं, कासुचित् पुनः स्थापनारोपणासु यद्यपि दिवसपरिमाणं समं भवति, तथापि प्रतिसेवनां ज्ञात्वा कस्यापि मासस्य कीदृशी प्रतिसेवना उत्कटरागाद्यध्यवसाया इति ज्ञात्वा तदनुरोधतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy