SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४८ व्यवहार - छेदसूत्रम्-१-१/१४ सेसं पंचहिंगुणएठवणादिणजुयाउछम्मासा ।। वृ- इयमर्थत प्रागेव व्याख्याता परमन्यथा कियान् शब्दसंदर्भ इति भूयोपि व्याख्यायते, संचयमासेभ्यःस्थापनामासेषुशुद्धेषुयच्छेपमवतिष्ठते, तत्जइमित्तियतिमासाभवत्यारोपणा, किमुक्तं भवति, यतिभिमसिनिष्पन्नाआरोपणा यतिभागंतावत्संख्याकंभागंकरोतिकृत्वा चाद्यंतिपंचगुणमिति त्रिपंचगुणं पंचदशगुणं करोति, शेषं समस्तमनेकभागात्मकमपि संपिंड्य पंचभिर्गुणयेत्, ततः स्थापनादिनयुताः षण्मासा भवंति, एतत्कर्म पंचदशादिष्वारोपणासु कर्त्तव्यं, एकादिषु चतुर्दशदिनपस्तासुपुनरारोपणासुयावंत्यारोपणादिनानितावद्भिर्गुणयितव्यं, एवंसंचवमासानांमध्ये यावतो मासात् यत् गृहीतं तद्दिनपरिमाणाभिधानतो मासपरिमाणविषयलक्षणमभिहितं संप्रत्येतदेव प्रकारांतरणाभिधित्सुराह[भा.४२१] जतिमि भवे आरुवणाततिभागं तस्स पनरसहिंगुणए । ठवणारोवणसहिया छम्मासा होति नायव्वा ।। वृ-ये संचयमासास्ते पूर्वं स्थापनारोपणामासविशुद्धाः कर्त्तव्याः तोत जइमीति यतितमा प्रथमा द्वितीया तृतीया इत्यादि आरोपणा ततिभागस्थास्ते कर्त्तव्याः तत्र यद्येकभागस्थास्ततः सर्वानपि पंचदशभिर्गुणयति, गुणने च कृते स्थापनारोपणादिवससहिता झोषविशुद्धास्ते पण्मासा भवंति, अथानेककभागस्थास्तर्हि अनेकस्य भागस्य आद्यं भागं पंचदशभिर्गुणयेत्, शेषान् समस्तानपि पंचगुणानिति वाक्यशेषस्तेन स्थापनारोपणदिवससहिताः षण्मासा ज्ञातव्या भवंति, तद्यथा विंशतिदिनायां स्थापनायांपंचदशदिनायांचारोपणायांत्रयोदशसंचयमासास्तेभ्यएक आरोपणामासो द्वौ स्थापनामासावुभयमीलने त्रयोमासाः शोधिता जाता दशमासा इयमारोपणा प्रथमेस्थाने प्रथमेति ते दश मासा एकभागस्थाः क्रियते, कृत्वा पंचदशभिर्गुण्यंते, जातं पंचाशं शतं ।। अत्र झोपः पंचक इति पंच ततो विशोधिता जातं पंचचत्वारिंशं शतं ।। तत्र स्थापनादिवसा विंशतिः आरोपणादिवसाः पंचदशेति मीलिताः पंचत्रिंशत् ते प्रक्षिप्यंते, जातमशीतं शतमिति, तथा विंशतिदिनायां स्थापनायां पंचविंशतिदिनायां आरोपणायां पंचविंशतिदिनायां आरोपणायां त्रयोविंशतिः संचयमासाः तेभ्योद्वौ स्थापनामासौत्रय आरोपणामासाउभयमीलन पंचमासाः शोधिता जाता अष्टादशइयमारोपणा प्रथम स्थाने तृतीयेति त्रिभागस्थाः क्रियते, जाता एककस्मिन् भागेपट पट् तत्राद्योभागः पंचदशभिर्गुण्यते, जातानवतिः,अत्रपक्षोझोषइति तेभ्यः पंचदशशोधिताजाता पंचसप्ततिः ।। शेषौद्वावपिभागावेकत्र मीलितौ जाता द्वादश, ते पंचभिर्गुण्यंते जाता षष्ठिः ते पूर्वराशौ प्रक्षिप्यंते, जातं पंचत्रिंशंशतं । तत्र स्थापनादिवसाः विंशतिरारोपणादिवसाः पंचविंशतिः उभयमीलने पंचचत्वारिंशत्प्रक्षिप्ताजातमशीतं शतमेवमन्यत्रापिभावनीयं, नवरमेतत्कर्मकचिदेव प्रतिनियतेषुपदेषुकर्त्तव्यं, नावश्यं सर्वत्रेतिसंप्रति गुणकारवशेन यथा कृत्स्नारोपणापरिज्ञानं भवति तथा प्रतिपादयति - [भा.४२२] जेन उपणगुणिएहोऊणंसो न होइगुणकारो । तस्सुवरिजेन गुणे होइसमंसहुगुणकारो ।। वृ-जेणउ पएण गुणिया पदमेकद्वित्र्यादिकं येन पदेन दशादिलक्षणेन गुणिते आरोपणादिवसे षण्मासपरिमाणमशीतं दिवसशतमूनमुपलक्षणमेतत् अधिकं वाभवति, समकरणं प्रतीत्य गुणकारोन . भवति, यथा पाक्षिक्या आरोपणाया दशादिकस्तथाहि विंशिकायां स्थापनायां पाक्षिकी आरोपणा ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy