________________
व्यवहार - छंदसूत्रम्-१
गीतार्थत्वादेवानाभाव्यं न गृह्णातीति न तस्योपदेशः यः पुनरगीतार्थस्तस्यानाभाव्यं गृह्यत उपदेशी दीयते, यथा न युक्तं तवानाभवात् गृहीतुं यदि पुनरनाभवत् ग्रहीष्यसि ततस्तन्निमित्तं प्रायश्चितं भविष्यतीत्युपदेशदानं, तत एवमुपदेशे दत्ते सति दानप्रायश्चितं दीयते इति गाथासमासार्थः, अत्र शिष्यः प्राह कारणप्रतिसेवी भावव्यवहर्त्तव्यं उक्तः स कथमुपपद्यते, प्रतिषिद्धं हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी ननु सदुष्टभाव इतिकथं भावव्यवहर्त्तव्यः ? नैष दोषो, जिनाज्ञाप्रद्वेषकारित्वाभावात् सतिकारणे प्रतिसेवायामपि वर्त्तते, जिनाज्ञामवलंब्यैव यथास्यामवस्थायां दीर्धसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्त्तितव्यमिति, ततो न कश्चिद्दोषः, अपि च भगवंतो वीतरागा न मिथ्या कदाचनापि ब्रुवते, वीतरागतया तेषां मिथ्यावचन कारणभावात्; उक्तंच -
रागाद्वा द्वेषाद्वा मोहाद्वावाक्यमुच्यते ह्यनृतम् । यस्यतु नैते दोषास्तस्याऽनृतकारणंकिं स्यात् ।।
भगवता वा यतनयापि कारणे प्रतिसेविनो भावव्यवहर्त्तव्या उक्तास्तद्यदि भगवद्वचनाद् द्वितीयभंगवर्त्तिनोपि भावव्यवहर्त्तव्यास्ततः प्रथमभंगवर्त्तिनः सुतरां भावव्यवहर्त्तव्या भवेयुः तथा चाह [ भा. २१] आच्च कारणमि, सेवंती अजयणं सिया कुज्जा । एसोवि होइ भावे, किं पुन जयणाए सेवंती ।।
वृ- आह्च्च कदाचित् गत्या कारणे अशिवादिलक्षणे अकृत्यं सेवमानः स्यात्कदाचित् अयतनां कुर्यात् अयतनया प्रतिसेवेतेतिभावः एषोपि भवद्वचनाद्भवति भावे व्यवहर्त्तव्य किं पुनर्यतनयाप्रतिसेवमानः प्रथमभंगवर्त्ती ससुतरांभवेद्भावेव्यवर्हतव्य इत्यर्थः, न तु केवलं प्रथमभंगवर्ती वा भगवद्वचनाद् भावे व्यवहर्तव्यः, किंतु तृतीयभंगवर्त्यपि तथा चाह
[भा. २२ ]
पडिसवियंमिं सोहिं काहं आलंबणं कुणइ जो उ ।
१४
-
सेवंतोवि अकिच्चं, ववहरियव्वो स खलुभावे ।।
वृ- कारणमंतरेणाऽपि यतनया प्रतिसेविते अकृत्ये पश्चात् शोधि प्रायश्चित्तमहं करिष्यामीत्येवंरुपमालंबनंयः करोति, किमुक्तं भवति, एवंरुपेणालंबनेनाकृत्ये यः प्रवृत्तिं चिकीर्षति, स तथा रुपमालंबनं कृत्वा प्रतिसेवमानो ऽप्य कृत्यं खलु निश्चितं भावे व्यवहर्त्तव्यः अंतःकरणविशुद्धिपुरस्सरं यतनया प्रवर्तमानत्वेन भावतो व्यवहारयोग्यत्वात्ः किमुक्तंभवति ? अकारणे यतनयेति तृतीयभंगवर्त्यपि भगवद्वचनाद्य व्यवहर्तव्यो वेदितव्य इति, तदेवं चतुर्भागिकायामाद्यभंगत्रयवर्तिनो भावव्यवहर्तव्य उक्ताः संप्रति चुतर्भगिकामनपैक्ष्यान्यथैव भावव्यवहर्तव्यलक्षणमाहअहवा कज्जाकजे जताजतो वावि सेविउं साह । सब्भावसमाउट्टो, ववहरियव्वो हवइभावे ।।
[ भा. २३ ]
वृ- अथवेति प्रकारांतरे तच्च प्रकारांतरमिदं प्राक्चतुर्भंगिकां प्ररुप्य भावव्यवहर्त्तव्या उक्ताः संप्रति तु तामनपेक्ष्यैव भावव्यवहर्त्तव्योऽमिधीयते, कथमितिचेदत आह, कजाकज्ज कार्येऽशिवादिनिस्तरणलक्षणे प्रयोजने अकार्य तथाविधपुष्ट प्रयोजनाभावे जयाजयोवेति यतमानो वा अयतमानो वा साधुरकृत्युं सेवित्वा सद्भावे पुनकरणलक्षणया तात्विक्या वृत्त्यासमावृत्तोऽकृत्यकरणात् प्रत्त्यावृत्तः सन् गुरोः समीपे यः आलोचयतीतिशेषः, स भावे भवति व्यवहर्त्तव्यः, भावतोऽकृत्यकरणतः प्रत्त्यावृतत्वात् संप्रति प्राक्प्ररुपितायां चतुर्भीगिकायां यश्चतुर्थो भंगस्तत्प्ररूपणार्थमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org