________________
पीठिका - [भा. १७]
१३
एते हि द्वयेऽपियदा न स्वदोषं प्रतिपद्यंते प्रतिपद्यमानावा न सम्यगालोचयंति, किंतु व्याजांतरेण कथयंति तदा द्रव्यव्यवहर्त्तव्या द्रष्टव्याः, तथाहिएगो धिज्जाइतो उरालाएण्डुसाए चंडालीए वा अज्झो ववणो ततो तं कारण फासित्ता पायच्छित्तनिमित्तंचउव्वेयमुवट्ठित्तो भणति सुमिणेप्हुसं चंडालिंवागतोमि इति, एवमादयो द्रव्यव्यहर्तव्या तथा चाह । -
( भा. १८) फासेऊण अगम्मं, भणेइ सुमिणे गओ अगम्मति । एवमादिलोयदव्वे उज्जु पुनहोइ भावंभि ।।
वृ- स्पृष्ट्वा कायेनेतिगम्यते अगम्यांस्नुषां चांडाल्यादिकां वा स्त्रियमिति शेषः, भणति प्रायश्चित्तनिमित्तं चतुर्वेदपुपस्थितः सन् यथा स्वप्ने अपेयपानं कृतवानहमित्यादिपरिग्रहः, लोयदव्वेति, लौकिका द्रव्यव्यवर्हतव्याः उज्जु पुन होइ भावंमि, अत्र सामान्यविवक्षायामेकवचनं, ततोऽयमर्थः त एव जातमृतकसूतकादिनिर्व्यूढादय रुजवः संतो यदासम्यगालोचयंति, तदा भावे भावविषया लौकिका व्यवहर्तव्या भवंति उक्ता लौकिकद्रव्यभावव्यवहर्तव्याः, संप्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह । । [ भा. १९ ]
परपच्चएण सोही दव्युत्तरिओ उ होइएमादी । गीतो व अगीतो वा सम्भावउवठ्ठिओ भावे ।।
वृ- यस्य शोधिः परप्रत्येयेन परआचार्यादिकः स एव प्रत्ययः कारणं तदा परप्रत्ययस्तेन किमुक्तं भवति, नूनमहं प्रतिसेवमान आचार्येण उपाध्यायेनाऽन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचयामीत्येवं परप्रत्ययेन यस्य शोधिप्रतिपत्तिरेवमादिशब्दात् यो गुरुदोषं सेवित्वा अल्पं कथयति, स्वकृतं चान्यकृतं ब्रवीति तदादिपरिग्रहः, लोकोत्तरिको द्रव्यव्यवहर्तव्यो भवति. भावे भावविषयः पुनः लोकोत्तरिको व्यवहर्तव्योगीतो वा गीतार्थो वा अगीतो वेति अगीतार्थो वा प्रायश्चित्तप्रतिपत्तयर्थं सद्भावेनोपस्थितः स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति, तानेव गुणानुपदर्शयति
[भा. २० ] अवंके अकुटिले यावि कारणपडिसेवि तहय आहच्च । पियधम्मे बहुसुए, बिइयं उवदेसि पच्छित्तं ।।
वृ-वक्रोऽसंयतो, नवक्रोऽवक्रः, संयतो विरत इत्यर्थः, अकुटिलो अमायी चशब्दादक्रोधी अमानी अलोभीश्चेतिपरिग्रहः, अपि पदार्थसंभावने, स चामून् पदार्थान् संभावयति, कारणे समापतिते सति नामैको यतनया प्रतिसेवते इत्येको भंगः । कारणे अयतनयेति द्वितीयः, अकारणेयतनयेति तृतीयः, अकारणेऽयतनयेति चतुर्थः, अत्र प्रथमभंगशुद्ध इति तत्प्रतिपादनार्थमाह । । कारणप्रतिसेवीकारणे अशिवादिलक्षणे विशुद्धेनालंबनेन बहुशो विचार्य शुल्कादिपरिशुद्धलाभाकांक्षिवणिग्दृष्टांतेनाकृत्यं यतनया प्रतिसेवते इत्येवं शीलं कारणप्रतिसेवी, तहय आच्चेति तथा चेति समुच्चये कारणेप्यकृत्यप्रतिसेवी, न यदा तदा वा, किंतु आच्च कदाचित् अन्यथा कदाचित् अन्यथा वादीर्धसंयमस्फातिमनुपलक्षमाणो अथवा आहच्चेति कदाचिदकारणे पि प्रतिसेवी पियधम्मे य बहुसुए इति आद्यंतयोर्ग्रहणेमध्यस्यापिग्रहणमितिन्यायत्प्रियधर्म्मादृढधर्म्मा संविग्नोऽवद्यभीरुः सूत्रार्थतदुभयविद इत्यपि दृष्टव्यं एते सर्वेऽपि व्यवहर्त्तव्या, विइयंति अत्रद्वितियं मतांतरं केचिदाहरवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति, उवदेव पच्छित्तं इह द्विविधः साधु गीतार्थोऽगीतार्थश्च तत्रयोगीतार्थः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org