SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम् - १- १/१४ पंचभिर्भागमददानासु पंचदिनादिषु नवदिनपर्यंतास्वऽशुध्यति, रूपद्विके दशदिनादिषु चतुर्द्दिनपर्यंतासु रूपाद्विकशुद्ध जायमाने शून्ये मास एको गृहीतव्यः । एवं पंचदशदिनादिष्वप्येकोनविंशतिदिनपर्यंतास्वेकोनविंशतिदिनादिषु चतुर्विंशतिदिनपर्यंतासु द्वौ मासावेवं सर्वत्र यावत् पंचकं न पूर्वते, तावत् पूर्वं संख्याकान् मासान ददता पंचके तुपूर्णे रूपमधिकंप्रक्षिपता भावनीयं, तदेवमुक्तं स्थापनासंचयद्वारमधुना राशिद्वारमाह [भा. ४०२ ] १४४ वृ- एष प्रायश्चित्तराशिः कुत उत्पन्नः ? उच्यते, यानि खल्वसमाधिस्थानानि विंशतिः खलु शब्दः संभावने, स चैतत् संभावयति, असंख्यातानि देखलापुरुषभेदतोऽसमाधिस्थानानि, एवमेकविंशतिः सबलानि, द्वाविंशतिः परीषहाः, तथामोहे मोहनीये कर्म्मणि येऽष्टाविंशतिर्भेदाः, अथवा मोहे मोहविषयाणि त्रिंशत्स्थानानि एतेभ्योऽसंयमस्थानेभ्य एष प्रायश्चित्तराशिरुत्पद्यते, भूयः शिष्यः पृच्छति, कियंति खलु तान्यसंयमस्थानानि ? उच्यते, पलितोवमेत्यादि पल्योपमे सागरोपमं यावंति वालाग्राणि तावंति न भवंति, किंतु व्यावहारिकपरमाणुमात्राणि यानि वालाग्राणां खंडानि तेभ्योऽसंख्येयानि, इयमत्र भावना, यावंति खलु पल्योपमे वालाग्राणि, तावंत्यसंयमस्थानानि भवंति नायमर्थः, यावंतिसागरोपमे वालाग्राणितावंति नायमर्थः समर्थः, यद्येवं तर्हि सागरोपमे यानि वालाग्राणि प्रत्येकमसंख्येयखंडानि क्रियंते, तानि च खंडानि सांव्यवहारिकपरमाणु तावंति भवंति, नायमप्यर्थः समर्थः, कियंति पुनस्तानि भवंति ? उच्यते, तेभ्योप्यसंख्येयगुणानि, अन्ये तु ब्रुवते, परमाणुमात्राणि खंडानि सूक्ष्मपरमाणुमात्राणि खंडानि, सूक्ष्मपरमाणुमात्राणिद्रष्टव्यानि तदसम्यक् सूक्ष्मपरमाणवो हि तत्रानं ताः, असंयमस्थानानि चोत्कर्षतोप्यसंख्येयलोकाकाशप्रदेशप्रमाणानीति; गतं राशिद्वारमधुना मानद्वारमाह असमाहि ठाणा खलु सबला य परीसहा य मोहंमि । पलितोवम सागरोवम परमाणु ततो असंखेज्जा ।। [ भा. ४०३ ] बारस अठय छक्कग मानं भणियं जिनेहिं सोहिंकरं । तेन परं जे मासा, साहणंता परिसडंति ।। वृ- मीयते परिछिद्यते वस्त्वनेनेति मानं, तत् द्विधा द्रव्ये, भावेच, तत्र द्रव्येषु प्रस्थकाटिप, भावतः पुनरिदं मानं प्रायश्चित्तमानं जिनैस्तीर्थकृद्भिस्त्रिविधं शोधिकरं भणितं, तद्यथा प्रथमतीर्थकरस्य द्वादश मासा मध्यमतीर्थकृतामष्टौ मासाः वर्धमानस्वामिनः षट्कंषण्मासाः इतोऽधिकंन दीयते, किंतु बहुष्वपि प्रतिसेवितेषु मासेष्वेतावनमात्रमेव, अत्र प्रस्थकदृष्टांतो यथा प्रस्थकेन मीयमानं धान्यं तावन्मीयते, यावत्प्रस्थकस्य शिखा परिपूर्णा भवति, ततः परमधिकमारोह्यमानमपि परिपतति, एवं षण्णां मासानामधिकं यद्यपि प्रतिसेवितं, तथापि तत् स्थापनारोपणप्रकारेण संहन्यमानं परिशटति, तथा चाहतेनपरमित्यादि तत उक्तरूपात् षण्मासादिकात् मानात् परमित्यव्ययं परा ये मासास्ते स्थापनारोपणाप्रकारेणा संहन्यमानाः संघात्यमानाः परिशटंति, तावन्मात्रेणापि च प्रायश्चित्तप्रतिपत्तारः शुध्यंति, शुद्धस्वभावत्वात् भगवतां तीर्थकृतामाज्ञैषा सम्यगनुष्टेया इति, संप्रति प्रभुद्वारमाह[ भा. ४०४] केवलमनपज्जव नाणिणो य तत्तो य ओहिनाण जिना; । चोद्दसदसनवपुव्वी, कप्पधर पकप्पधारीय ।। वृ- केवलमनपज्जवनाणिणोत्ति ज्ञानिशद्वः प्रत्येकमभिसंबध्यते, केवलज्ञानिनो मनपर्यायज्ञानिनश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy