SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [भा. ३९८ ] १४३ तत्र प्रक्षिप्तौ, लब्धमशीतं मासशतं, अथ कुतो मासात् किं गृहितमुच्यते, एकैकस्मात् मासात् एकैको दिवसः, अत्र भागः शुद्धः पतित इति कृत्स्नारोपणा सा चान्यासां कृत्स्नारोपणानामाद्येति प्रथमा, तथा चाह ।। एसा पढमा भवे कसिणा [ भा. ३९९ ] पढमा ठवणा एक्को बिइया आरोवणा भवे दोन्नि । एगा नउअ मासेहिं एगोउ तहिं भवे झोसो ।। वृ- चतुर्थे स्थाने प्रथमा स्थापना एकः एकवासरा द्वितीया आरोपणा भवति द्विदिने द्विदिनप्रमाणा, एषा स्थापना आरोपणा च निष्पन्ना एकनवतिमासैस्तथाहि अशातीत् शतात् एकस्थापनादिवसो द्वावारोपणादिवसौ उभयमीलने त्रयः शोध्यंते, जातं सप्तसप्ततं शतं, तस्याधिकृतया द्विदिनप्रमाणया आरोपणया भागो हियते, तत्र भागः शुद्धो न पततीत्येको झोषः प्रक्षिप्यते, तथाचाह । । एगोउतहिं भवेझोसो, ततो जातमष्टसप्ततं शतं, भागे हते लब्धा एकोननवतिरेकः स्थापनामासः एक आरोपणामास इति द्वौ मासौ तत्र प्रक्षिप्त, आगता एकनवतिमासाः अथ कुतो मासात् किं गृहीतमुच्यते, एकेन नवतिसंख्याकेभ्यः संचयमासेभ्यः एकः स्थापनामासः शोध्यते, जाताः पञ्चान्नवतिमासाः द्विदिना आरोपणेति द्वाभ्यां गुण्यंते, जातमशीतं शतं एको झोष इति स ततः शोध्यते, ततोऽभवदेकोनाशीतं शतं, तत्रस्थापनादिवस एकस्तत्रप्रक्षिप्तो, जातमशीतं शतमागतमेकस्मात् स्थापनीकृतात्मासात् एको दिवसो गृहीतः शेषेभ्यः एवं झोषीकृत्य द्वौ द्वौ दिवसाविति । । [ भा. ४०० | पढमा ठवणा एक्को, तइया आरोवणा भवेतिन्नि । एगट्टी मासेहिं, एगोउ तहिं भवे झोझो || " वृ- चतुर्थे स्थाने प्रथमा स्थापना एकः एकदिना तृतीया आरोपणा त्रीणि दिनानि एषा स्थापना आरोपणा च निष्पन्ना एकषष्ठिमासैस्तथाहि अशीतात् दिवसशतात् एकः स्थापनायाः दिवसस्त्रय आरोपणाया उभयमीलने चत्वारः शोध्यंते, जातं षट्सप्तत् शतं । । तस्य त्रिभिर्भागो हियते, आरोपणायास्त्रिदिननिष्पन्नत्वात् तत्र भागः शुद्धो न पततीत्येको झोषः प्रक्षिप्यते, जातं सप्तसप्ततं शतं । भागे हृते लब्धा एकोनषष्ठिर्मासाः एकः स्थापनाया मास, एक आरोपणाया मास इति द्वौ मासौ तत्र प्रक्षिप्तौ आगतमेकषष्टिभिर्भासैः प्रतिसेवितैर्निष्पन्ना, अथ कुतो मासात् किं गृहीतमुच्यते- संचयमासेभ्यः एकषष्ठिसंख्याकेभ्यः एकः स्थापनामासः शोध्यते, जाता षष्ठिः, त्रिदिना अधिकृता आरोपणेति ते त्रिभिर्गुण्यते, जातमशीतं शतमेको झोष इत्येकस्ततोऽपनीतो जातमेकांनाशीतं शतमेकः स्थापनादिवसस्तत्र प्रक्षिप्तो जातमशीतं शत मागतमेकस्मात् स्थापनीकृतान्मासात् एकदिनं गृहीतं, शेषेभ्यः षष्ठिमासेभ्यः एकं दिनं झोषीकृत्य त्रीणि त्रीणि दिनानीति । [ भा. ४०१ ] एवं खलु गमियाणं गाहाणं होंति सोलस सहस्सा । सयमेगं च दसहियं, नायव्वं आनुपुव्वीए ।। वृ- एवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोक्तानां गाथानामानुपूर्व्याक्रमेण खलु निश्चितं भवंति ज्ञातव्यानि षोडश सहस्राणि शतमेकं च दशाधिकमिति, एतदुक्तं भवति, एकदिनां स्थापनाममुंचता आरोपणायां यथोत्तरमेकैकमारोपयता तावन्नेयं यावदेकोनाशीतदिनशता चरमारोपणा द्विदिनादिष्वपि स्थापनास्वेकादिकारोपणादि तावत् ज्ञेया, यावत् स्वस्वचरमा आरोपणा, एवं षोडश सहस्राणि गाथानां शतमेकं च दशोत्तरं पूरणीयमिति, एतासु च स्थापनारोपणासु मासकरणं कुर्वता एकादिषु चतुर्दिनपर्यंतासु For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy