SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४२ व्यवहार - छेदसूत्रम्-१-१/१४ आरोपणा एकमासनिष्पन्नेत्येकभागीक्रियते, आद्यश्च भागः पंचदशभिः किल गुणयितव्य इति, पंचदशभिस्ते द्वादशापि गुण्यंते, जातमशीतं शतं, पंच झोप इति ततोऽपनीयंते, जातं पंचसप्ततं शतं, तत्र पंच स्थापनादिवसाः प्रक्षिप्यंते, जातमशीतं शतमागतमन्त्र स्थापनीकृतान्मासात पंच दिवसा गृहीताः शेषेभ्यस्तु द्वादशमासेभ्यः पंच झोषीकृत्य पंचदश पंचदशेति । [ भा. ३९६ ] एवं एया गमिया गाहाओ होति आनुपुवीए ।. एएण कमेण भवे, छच्चेव सयाइं तीसाई ।। वृ- एवमुक्तेन प्रकारेण एतद्गमिका अनंतरोदितगमा गाथा आनुपूर्व्या क्रमेणान्या अपि भवंति ज्ञातव्याः कियत्संख्याका इत्याह- एतेनानंतरोदितेन क्रमेण भवंति गाथानां षष्टशतानि, किमुक्तं भवति, पंचदिनां स्थापनाममुंचतारोपणायां च यथोत्तरं पंच पंच प्रक्षिपता तावद् गंतव्यं, यावत् पंचत्रिंशत्तमा पंचसप्तत शतदिना आरोपणा पुनर्द्दशदिनां स्थापनां कृत्वा यथोक्तप्रकारेण तावन्नेयं यावच्चतुस्त्रिंशत्तमा सप्ततदिनशतारोपणा एवं स्थापनासु पंच पंच प्रक्षिपता आरोपणास्वेकैकमुपरितनं स्थानं हापयता तावन्नेयं यावत् गाथानां षट्शतानि त्रिंशदधिकानि भवंति, तृतीयं स्थापनारोपणास्थानं समाप्तं; संप्रति चतुर्थं स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाह [भा. ३९७ ] - अउनासीयं ठवणा न सयं आरोवणावि तह चेव । सोलस चेव सहस्सा दसोत्तरसयं च संवेहो ।। वृ- चतुर्थे स्थाने एकोनाशीतं स्थापनानां स्थापनापदानां शतं भवति, आरोपणाया अपि तथैव ज्ञातव्यं, किमुक्तं भवति, आरोपणानामपि पदानां शतमेकोनाशीतं भवतीति एतच्च प्रागेव भावितं, संप्रति संवेधपरिमाणमाह, स्थापनानामारोपणाभिः सह संबंधे संयोगाः षोडश सहस्राणि दशोत्तरं शतं भवतीति एव संख्याकाश्च संवेधा गच्छोत्तरसंवग्गे इत्यादिकरणवशादानेतव्यः । । गच्छश्चात्र एकोनाशीतं शतं, तथाहि अशीतात् शतात् प्रथमस्थापना दिवस एकः प्रथमारोपणादिवस एक इत्युभयमीलने द्वौ शोधिती, जातमष्टसप्ततं शतं तस्य चरमादेसभागेक्को इति वचनादेकेन भागो हियते, लब्धमष्टसप्ततमेव शतं तत्र रूपं प्रक्षिप्तं, जातमेकोनाशीतशतं उत्तरमेक आदिरप्येकस्तत्र गच्छ एकोनाशीतशतलक्षण उत्तरेणैकेन गुण्यते, जातं तदेव एकोनाशीतं शतं तदेकेन हीनं क्रियते, जातमष्टसप्ततं शतं, तत्रादिमेकं प्रक्षिपेत्, भूयस्तदेवाभूदेकोनाशीतं शत मेतदंतिमधनं एतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्छराशिरत्र विषम इत्यस्यैवाशीतस्य शतस्यार्धं क्रियते जाता नवतिः, सा गच्छेन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते, आगतं षोडश सहस्राणि शतं दशोत्तरमिति, अथास्मिन् चतुर्थे स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा कतिमिश्च सा प्रथमा स्थापना आरोपणा च प्रतिसेवितैर्मासैर्निष्पन्नेत्यत आह - ( भा. ३९८ ] पढमा ठवणा एक्को पढमा आरोवणा भवे एक्को । आसीया माससया एसा पढमा भवे कसिणा ।। वृ- चतुर्थे स्थाने प्रथमा स्थापना एको दिवसः एकदिनप्रमाणा इत्यर्थः प्रथमा आरोपणा भवत्येक एकदिना, एषा स्थापना आरोपणा च अशीतादशीत्यधिकात् मास शतात् निष्पन्ना, तथाहि अशीतात् शतादेकः स्थापनादिवस एक आरोपणादिवस इति द्वौ शोधितौ जातमष्टसप्ततं शतं, तस्य एकदिनप्रमाणया भागो हियते, लब्धमष्टसप्तमेव शतं, एकः स्थापनामास एक आरोपणामास इति द्वौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy