SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १४१ उद्देशकः १, मूलं : १४, [भा. ३९२] च कियद्भिः संचयमासैः प्रतिसेवितै-निष्पन्नेत्येतदभिधित्सुराह - [भा.३९३ पढमा ठवणापंच उ, पढमा आरोवणा भवेपंच । छत्तीसा मासेहिंएसा पढमाभवेकसिणा ।। वृ-तृतीय स्थाने प्रथमा स्थापना पंच पंचदिनप्रमाणा प्रथमा आरोपणा भवति पंच पंचदिना एषा स्थापना आरोपणा च निष्पन्ना षट्त्रिंशता मासैः प्रतिसेवितैः कथमिति चेदुच्यते, अशीतात् शतात् पंच स्थापनादिवसाः पंच आरोपणादिवसाःउभयमीलनेदशशोधिता जातंसप्ततंशतंएतस्यपंचदिनाया आरोपणाया भागो ह्रियते, लब्धाः चतुस्त्रिंशत् मासाः एकस्थापनायां पूर्वप्रकारेण मास एक आरोपणायामिति द्वौ मासौ तत्र प्रक्षिप्तौ जाताः षट्त्रिंशत्मासाः अथ कुतो मासात् किं गृहीतमुच्यते, प्रतिसेवितमासेभ्यः षट्त्रिंशदेकःस्थापनामासःशोधितेजाता पंचत्रिंशत्यद्येकद्वित्र्यादिना आरोपणा पंचदिना दशदिना वा ततस्तयैवारोपणया संचयमासा गुण्यंते, इति वचनादत्र पंचदिना रोपणेति पंचभिर्गुण्यंते जातं पंचसप्ततं शतं ।। स्थापनादिनाश्च पंच तत्रैव प्रक्षिप्ता जातमशीतंशतमागतमेकैकस्मात्मासात् पंच पंच रात्रिंदिवानि गृहीतानि अत्रभागःशुद्धः पतित इति कृत्स्नैषारोपणा सर्वासांच कृत्स्नारोपणानामाद्येति ।प्रथमा तथा चाह एसा पढमा भवेकसिणा[भा.३९४] पढमा ठवणापंचउ, बिइया आरोवणाभवे दसउ । एगुणवीसमासेहिं, पंचहिराइंदिया झोसो ।। वृ-तृतीये स्थाने प्रथमा स्थापना पंचपंचदिना द्वितीया आरोपणा भवति दशदशदिना एषा प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, एकोविंशत्या मासैः प्रतिसेवितैः । तथाहि अशीतात् पंच स्थापनादिवसा दश आरोपणादिवसाः उभयमीलने पंचदश शोध्यंते, जातं पंचपष्टं शतं ।। अस्य दशभिर्भागो ह्रियते, तत्र परिपूर्णो भागो न पततीति पंच रात्रिंदिवानि झोषः प्रक्षिप्यते तथाचाह - पंचराइंदियाझोसो,झोषेच प्रक्षिप्तेलब्धाः सप्तदसमासाः एकः स्थापनायामास एक आरोपणाया इति द्वौ मासौतत्रप्रक्षिप्तौजाता एकोनविंशतिरागतमेकोनविंशत्या प्रतिसेवितैमर्सिनिष्पन्नेति ।। अथ कुतो मासात्किंगृहीतमुच्यते, प्रतिसेवितमासेभ्य एकोनविंशतैरेकः स्थापनामासः शोधितो, जाताअष्टादश मासाः अत्रदशदिनारोपणेति दशभिर्गुण्यंतेजातमशीतंशतं,पंच वासरा झोष इतिपंच ततोऽपसारिता जातपंचसप्ततंशतं, अत्रस्थापनादिवसाःपंचप्रक्षिप्ता जातमशीतंशतं आगतं, स्थापनीकृतात्मासात् पंचरात्रिंदिवानिगृहीतानि, पंच झोषीकृत्यशेषेभ्यो दशदश रात्रिंदिवानीति । [भा.३९५] पढमा ठवणापंचउतइया आरोवणा भवे पक्खो । तेरसहिमासेहिं पंचउराइंदिया झोसो ।। वृ- तृतीय स्थाने प्रथमा स्थापना पंचपंचदिना, तृतीया चारोपणा भवति पक्षः, पक्षप्रमाणा एषा प्रथमास्थापना,तृतीयाचारोपणा त्रयोदशभिःप्रतिसेवितैसिनिष्पन्ना, तथाहि अशीतात् दिवसशतात् पंच स्थापनादिवसाः पंचदश आरोपणादिवसा, उभयमीलने विंशतिः शोध्यंते, जातं षष्टं शतं ।। तस्याधिकृतयापंचदशदिनयाआरोपणयाभागो ह्रियते,तत्रशुद्धोभागोनपततीतिपंचझोषः प्रक्षिप्यते, तथाचाह,पंचउराइंदियाझोसोझोषेचप्रक्षिप्ते लब्धाएकादशएकः स्थापनायामासः, एक आरोपणाया इति द्वौ मासौ तत्र प्रक्षिप्ता वागतं त्रयोदशभिर्मासैः प्रतिसेवितैर्निष्पन्ना, अथ कुतो मासात् किं गृहीतमुच्यते, प्रतिसेवितमासेभ्यस्त्रयोदशभ्य एकः स्थापनामासः शोधितः स्थिताः पश्चात् द्वादश For Private & Personal Use Only . Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy