SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उद्देशक : : १, मूलं : १४, [ भा. ४०४] १४५ ततस्तदनंतरमवधिज्ञानेन जिना अवधिज्ञानजिनाः, जिनशब्दो विशुद्धावधिप्रदर्शकः, विशुद्धावधिज्ञाना इत्यर्थः । । ततश्चतुर्द्दशपूर्विणो, दशपूर्विणो नवपूर्विणश्च इहासतां नवपूर्विणः, न परिपूर्णनवपूर्वधराः, किंतु नवमस्य पूर्वस्य यत् तृतीयमाचारनामकं वस्तु तावन्मात्रधारिणोपि नवपूर्विणः, तथा कल्पधराः कल्पव्यवहारधारिणः प्रकल्पो निशीथाध्ययनं तद्धारिणः च शब्दोऽनुक्तसमुच्चयार्थः, तदेवानुक्तं च शब्देन सूचितं दर्शयति [ भा. ४०५ ] घेप्पंति चसद्देणं, नित्रृत्तीसुत्तपेढियधराय । आणाधारण जीए होति पहुणो उपच्छित्ते ।। वृ- चशब्देन गृह्यंते नियुक्तिसूत्रपीठिकाधराः, तत्र नियुक्तिर्या भद्रबाहुस्वामिकृता, सूत्रपीठिका निशीथकल्पव्यवहारप्रथमपीठिका गाथारूपाः तथा आज्ञायां धारणे जीते च ये व्यवहारिण आज्ञाव्यवहारिणो धारणाव्यवहारिणां जीतव्यवहारिणश्च एते प्रायश्चित्तदाने प्रभवः, तदेवं गतं प्रभुद्वारमिदानीं कियंति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः, तत्र शिष्यः पृच्छति कियंति खलु प्रायश्चित्तानि ? आचार्य आह, ।। अर्थत अपरिमितानि, सूत्रतः पुनरिदं परिमाणं । । आनुग्घाइयमासाणं दो चेव सया हवंति बावन्ना । तिन्निसया बत्तीसा होंति अउग्घाइयाणंपि ।। पंचसया चुलसीया सव्वेसिं मासियाण बोधव्वा । तेन परं वोच्छामी चाउमासाण संखेवं ।। [ भा. ४०६ ] [भा. ४०७] वृ- अनुद्घातिता नाम गुरवः, उद्घातिता लघवः, निशीथनाम्नि अध्ययने प्रथमोद्देशके अनुद्घातिता गुरवो मासा अभिहितास्तेषामेकत्र संक्षिप्ता नाम द्वे शते द्वापंचाशद्विपंचाशदधिके भवतः, द्वितीयतृतीयचतुर्थपंचमोद्दशकेषु उद्घातिता मासा उक्तास्तेषामुद्धातितानां मासानामेकत्र संक्षिप्तानां त्रीणि शतानि द्वात्रिंशानि भवंति, एतेषां सर्वेषामप्युद्धातितमासानामनुयातितमासानां चैकत्र मीलने मासानां प्रायश्चित्तानां बोधव्यानि पंचशतानि चतुरशीतानि । तेन परमित्यादि अतः परं चातुर्मासिकानां संक्षेपं वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति । [भा. ४०८] छच्चसया चोयाला चाउमासाण होंति अनुग्घाया । सत्तसया चउवीसा चाउमासाण उग्घाया ।। तेरसय अडसड्डा, चाउमासाण होति सव्वेसिं । तेन परं वोच्छामी सव्वसमासेण संखेवं ।। [ भा. ४०९ ] वृ- षष्ठसप्ताष्टमनवमदशमैकादशोद्देशकेषु अनुद्घातितानि चातुर्मासिकान्युक्तानि, एतेषामेकत्र संक्षिप्तानां भवंति षट्शतानिचतुश्चत्वारिंशानि ।। गाथायां हांति अनुग्घाया इत्यत्र षष्ठ्यर्थे प्रथमा प्राकृतत्वात् एवमुत्तरार्धेपि द्वादशत्रयोदशचतुर्दशपंचदशषोडशसप्तदशाष्टादशैकोनविंशतिमेष्वष्टसूद्देशकेषु उद्घातिता चतुर्मासिका उक्तास्तेषामेकत्र संक्षिप्तानां सप्तशतानि चतुर्विंशानि ।। उद्घातितानामनुद्घातितानां सर्वेषां चतुर्मासानामेकत्र मीलितानां भवंति त्रयोदशशतानि अष्टषष्ठानि । । तेन परमित्यादिततः परं सर्वेषां मासिकानां चातुर्मासिकानां च यः समासो मीलनं तेन संक्षेपं सर्वसंख्या संग्रहं वक्ष्ये, प्रतिज्ञातमेव निवार्हयति 2110 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy