SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३८ व्यवहार - छेदसूत्रम्-१-१/१४ लब्धा मासास्ते यतिभिसिरारोपणा निष्पन्नाः ततिभिर्गुणयितव्यास्ततः स्थापनारोपणमासा अपितत्र प्रक्षिप्यंते, ततः समागच्छति प्रतिसेवितमासपरिमाणमिति कृत्वामासात् किं गृहीतमित्यस्यामपि जिज्ञासायां संचयमासेभ्यः प्रथम स्थापनामासाः शोधयितव्यास्ततः शेषा ये मासास्तिष्ठति, यतिभिर्मासैनिष्पन्ना यत्संख्याका वा आरोपणा तावंतो भागाः कर्त्तव्याः, तत्र प्रथमो भागः पंचदशभिर्गुणयितव्यः,शेषाः सर्वेपंचभिर्गुणनीयाः एतेसर्वेपिदिवसा एकत्रमीलयितव्याः; यश्चझोषः प्रक्षिप्तःसशोधयितव्यःततः स्थापनादिवसाःप्रक्षेपणीयाः; आगतफलमप्येवं कथनीयं,यतिभिर्दिवसः स्थापनामासो निष्पन्नस्ततिदिवसाः स्थापनीकृतेभ्यो मासेभ्यः प्रत्येकं गृहीता यावंतश्च मासाः पंचदशभिर्गुणितास्तावद्भ्यः पंचदशशेषेभ्यः पंच पंचेति एवं पंचविंशिकायामपि स्थापनायां पाक्षिक्यादय आरोपणा द्रष्टव्याः, यावच्चरमा पंचपंचाशद्दिनशतमाना त्रिंशत्कायां स्थापनायां पाक्षिक्यादय आरोपणा यावत् पंचाशद्दिनशतमाना एवं तावत् यावच्चरमायां स्थापनायां पंचषष्टिदिनशतमानायां पाक्षिक्येकारोपणा एतासु च पूर्वभणितेन प्रकारेण चत्वारिंशतानि पंचषष्टाधिकानि गाथानां कर्तव्यानीतिप्रथमं स्थापनारोपणास्थानं समाप्तं । । संप्रति द्वितीयंस्थापनारोपणास्थानं प्रतिपिपादयिपुरिदमाह - [भा.३८६] तेत्तिसं ठवणपया तेत्तीसारोवणाएठाणाई; ठवणाणं संवेहो, पंचेव सयाउएगट्ठा ।। वृ-द्वितीयेस्थाने त्रयस्त्रिंशत्स्थापनापदानि, त्रयस्त्रिंशच्चारोपणायाः स्थापनापदानि एतच्चप्रागेव भावितमितिनभूयोभाव्यते,संप्रतिसंवेधपरिमाणमाह, ठवणाणमित्यादिस्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवंति, पंचशतान्येकषष्टानि एकपष्टयधिकानि ।। कथमेतदवसातव्यमिति चेदुच्यते,इह संवेधसंख्यानयनाय प्रागुक्ता गच्छोत्तरसोवगेइत्यादिकरणगाथागच्छश्चात्र त्रयस्त्रिंशत् तथा च गच्छानयनाय पूर्वसूरिप्रदर्शितयंकरणगाथा । [भा.३८७] ठवणारोवणविजुया छम्मासा पंचभागभइयाजे ।। रूवजुया ठवणपया तिसुचरिमादेसभागेको ।। वृ- अस्या व्याख्या-षण्णां मासानां समाहारः षण्मासं, तस्मात् षण्मासात् स्थापनारोपणदिवसैर्विरहितात्तदनंतर पंचभागसक्तात्येलब्धास्तेरूपयुताः संतोयावतोभवंति,एतावंतिस्थापनापदानि एतावान्तत्र गच्छइतिभावः, एतच्चत्रिष्वाद्येषुस्थानेषुद्रष्टव्यं, चस्मेपिस्थाने एषएवादेशः, केवलमेकेन भागो हर्त्तव्यः, एष गाथाक्षरार्थःभावार्थस्त्वयंप्रथमेस्थाने प्रथमास्थापना विंशतिदिनाप्रथमा चारोपणा पंचदशदिना उभयमीलने दिनानिपंचत्रिंशत्तानिषण्मासदिवसेभ्योऽशीतशतप्रमाणेभ्यःशोध्यंते, जातं पंचचत्वारिंशंशतं, तस्य पंचभिर्भागो ह्रियते, लब्धा एकोनत्रिंशत् सा रूपयुता क्रियते, जाता त्रिंशत् आगतं प्रथम स्थाने त्रिंशत् गच्छः, तथा द्वितीय स्थाने प्रथमा स्थापना पंचदशदिना प्रथमा चारोपणा पंचदिना उभयमीलने जातानि दिनानि विंशतिः, षण्मासदिवसेभ्यो अशीतशतप्रमाणेभ्यः शोध्यंते, जातं षष्टिशतं ।। तस्य पंचभिर्भागो ह्रियते, लब्धा द्वात्रिंशत् सा रूपयुता क्रियते, जाता त्रयस्त्रिंशत्, आगतं द्वितीय स्थाने त्रयस्त्रिंशत् गच्छः, उत्तरमेकः आदिरप्येकः अत्र भावना प्रागुक्तानुसतव्याः, तत्र गच्छस्त्रयस्त्रिंशत् एकेन गुण्यते, एकेन गुणितं तदव भवतीति जातात्रयस्त्रिंशदेवसा उत्तरणैकेन हीना क्रियते, जाता द्वात्रिंशत् तत्रादिममेककलक्षणं प्रक्षिपेत् जाता भूयस्त्रयस्त्रिंशत् एतदंतिमं धनं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy