SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [भा. ३८१] १३७ जातमशीतंशतमागतमत्रद्वाभ्यांस्थापनीकृताभ्यां मासाभ्यांदशदशदिवसा गृहीताः,एकस्मात्पंचदश शेषेभ्यः पंचपंचेतिएवंसर्वत्रभावनीयंतत्रप्रथमस्थाने यावती प्रथमास्थापना यावतीच प्रथमारोपणा यावंतश्च तत्रसंचयमासास्तदेतत्प्रतिपादयति[भा.३८२] पढमा ठवणा वीसा, पढमा आरोवणा भवे पक्खे ।। तेरसहिंमासेहिपंचउराइंदियाझोसो।। वृ-प्रथम स्थाने प्रथमा स्थापना विंशिका विंशतिदिना प्रथमा चारोपणा भवति, पक्षः पक्षप्रमाणा एषा स्थापनारोपणा च त्रयोदशभिर्मासैनिष्पन्ना, तथा एषारोपणा अकृत्स्ना ततोऽवश्यमस्यां झोषोऽभूदिति, झोषपरिमाणमाह, पंचरात्रिंदिवानि झोषः एतद्विषया भावना प्रागेव कृता, न भूयोपि क्रियते, अधुना प्रथम स्थाने एव प्रथमस्थापनाया द्वितीयारोपणायाश्च यावद्दिना भवंति, यावद्भिश्च संचयमा रेषास्थापनारोपणाच निष्पन्नातदेतत्प्रतिपादयति[भा.३८३] पढमा ठवणा वीसा, बिइया आरोवणाभवेवीसा । अठारसमासेहिं एसा पढमाभवे कसिणा ।।। वृ-प्रथमस्थाने प्रथमास्थापना विंशतिर्द्वितीया आरोपणाभवेद्विंशिका विंशतिदिनाएषास्थापना आरोपणा च निष्पन्ना अष्टादशभिर्मासैरेषा चारोपणा कृत्स्नभागहरणात कृत्स्ना प्रथमा स सर्वासां कृत्स्नारोपणानामिति, एवद्विषयार्पिभावनाप्रागेवकृतेतिनभूयः क्रियते, संप्रतिप्रथमस्थाने प्रथमायां स्थापनायां यावद्दिना तृतीया आरोपणा यतिभिश्चसंचयमासैस्ते उभे निष्पन्ने तत्प्रतिपादयति - [भा.३८४] पढमा ठवणावीसा तइया आरोवणा उपणवीसा ।। तेवीसा मासेहिं पक्खोउ तहिं भवेझोसो ।। वृ- प्रथम स्थाने एव प्रथमा स्थापना विंशतिदिना तृतीया चारोपणा पंचविंशतिदिना एपा प्रथमा स्थापना तृतीयाचारोपणा त्रयोविंशतिभिर्मासैनिष्पन्ना, इयमप्यकृत्स्नारोपणा इतिझोसोऽत्राभूत् अतो झोषपरिमाणमाहपक्षस्तत्रतस्यांतृतीयायाभारोपणायांझोषइति विशेषःस्थापनारोपणानां दिनपरिमाणे संचयपरिमाणेवेति, देशपरिमाणमाह - [भा.३८५] एवं एयागमिया, गहातो होतिआनुपुवीए ।। एएगा कमेणभवे चत्तारिसयाउपणट्टा ।। वृ- एवमुक्तेन प्रकारेण एसोऽनंतरोदितो दिनमानादिलक्षणोगमः प्रकारो यासांता एतद्गमिका गाथा भवंत्यानुपूर्व्यानुक्रमेणाऽन्यापिज्ञातव्या, यथा -- पढमा ठवणा वीसा चोत्था आरोवणा भवेतीसा। छव्वीसा मासेहिं वीसइराइंदिया झोषो ।। इत्यादि; अथानेनप्रकारेण कियत्संख्याका गाथाअनुगंतव्याः तत आह, एएणेत्यादिएतेन क्रमेण चत्वारिशतानि पंचषष्टानि गाथानां भवंति, इयमत्र भावना विंशिकां स्थापनाममुंचता पंच पंच आरोपणायांप्रक्षिप्ताःतावन्नेतव्यं,यावदंतिमा आरोपणाएतासुसंचयमासानयनायप्रागुक्तकरणलक्षणं प्रयोक्तव्यं, तद्यथा अशीतात् दिवसशतात् प्राक् स्थापनारोपणादिवसाः शोधयितव्याः, ततो यच्छेषमवतिष्ठते, तस्याधिकृताया आरोपणाया भागो हर्त्तव्यस्तत्र यदि शुद्धं भागं न प्रयच्छति, ततो यावता प्रक्षिप्तेन परिपूर्णो भागः शुद्ध्यति, तावन्मात्री झोषः प्रक्षेपणीयः, तत्प्रक्षेपानंतरच भागे हृते ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy