SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३४ व्यवहार - छेटसूत्रम् - १-१ /१४ पृच्छति, तस्यां तस्यां स्थापनायामारोपणायां च संचयमासानां मध्ये कुतो मासात् किं गृहीतमत्र सूरिः करणमाह, ठवणामासे ततो सोहे, ततः संचयमाससंख्यातः स्थापनामासान् शोधयेत् शोधिते च सति [ भा. ३७५ ] दिवसेहिं जइहिं मासो निप्फन्नो हवई सव्व रूवाणं ।। तइहिं गुणियाउ मासा, ठवणदिनदिन जुया उछम्मासा ।। वृ- सर्वासामारोपणानां वतिभिर्दिवसैर्मासो भवति, निष्पन्नस्ततिभिर्गुणितास्ते मासाः कर्त्तव्याः, पुनः स्थापनादिनयुक्तास्ततस्ते पण्मासा भवंति, यथा प्रथमायामारोपणायां त्रयोदशं संचयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितो, स्थिताः पश्चादेकादश, अत्रारोपणायामेको मासः, स च पंचदशभिर्दिनैर्निष्पन्न इति, ते एकादश पंचदशभिर्गुण्यंते, जातं पंचपष्टंशतं, ततो विंशतिर्दिवसाः स्थापनासत्काः प्रक्षिप्यंते, जातंपंचाशीतं शतं पंचझोष इति ते त्यक्ता जाताः षण्मासाः आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशभ्यः पंचदश पंच दिनानि, केवलंतन्मध्यात्पंचझोपः कृतः पंचदिनानि त्यक्तानीति भावः, झोषशब्दस्य तत्त्वतस्त्यागवचित्वादत एव च यान्यमूनि पंचदिनानि त्यक्तानि, तान्येव प्राक्राशिसमकरणार्थं प्रक्षिप्तानीति समकरणप्रक्षेपणीयां राशिझषशब्देनोक्ताः, एवं सर्वत्र झोषभावना भावनीया, तथा विंशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश किल संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितो जाताः षोडश, अत्र विंशतिदिनारोपणा द्विमासेत्येकेको मासो दशभिर्दिनैनिष्पन्नस्ततस्ते षोडश दशभिर्गुण्यंते, जातं षष्टं शतं । । ततः स्थापनादिवसा विंशतिः प्रक्षिप्यंते, जातमशीतं शतं आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः शेषेभ्योपि षोडशेभ्यो मात्रतो दश दशेति तथा विंशिकायां स्थापनायां पंचविंशिकायां चारोपणायां त्रयोविंशतिः संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितो, जाता पश्चादेकविंशतिः, पंचविंशतिदिना चारोपणा त्रिभिर्मासैर्निष्पन्नेत्येकैको मासः, स त्रिभागैरष्टभिर्दिनैर्निष्पन्नस्तत एकविंशतिरष्टभिर्गुणिता, जातमष्टषष्टं शतं त्रिभागगुणिते च लब्धाः सप्त तेपितत्र प्रक्षिप्यंते, जातं पंचसप्ततं शतं; तत्रविंशतिः स्थापनादिवसाः प्रक्षिप्यंते, जातं पंचनवतं शतं तत्र पंचदश दिनानि झोप इति तान्यपनीयंते, जातमशीतं शतमागतमत्र द्वाभ्यांस्थापनीकृताभ्यां मासाभ्यां दश दश रात्रिंदिवानि गृहीतानि, शेषेभ्यस्त्वेकविंशतिमासेभ्यो मात्रतः सत्रिभागान्यष्टावष्टौ रात्रिंदिवानि, केवलं तत्रापि पंचदश दिनानि झोषीकृतानीति, तदेवं स्थापनातः शेपमासंभ्यो मात्रतो यत् गृहीतं, तत्प्रतिपादितमधुना शेषमासेभ्यो यत् येभ्योविशेषतो गृहीतं तत् प्रतिपादनार्थं करणमाह[ भा. ३७६ ] - रुवणाई जइ मासा, तइभागं तं करे ति पंचगुणं ।। सेसंच पंचगुणियं ठवणादिवसा जुया दिवसा ।। बृ स्थापनामासेषु शोधितेषु वच्छेपमवतिष्ठते, तत् आरोपणायां यतिमासास्ततिभागं तावत्संख्याकभागं करोति, कृत्वा चाद्यभागं त्रिपंचगुणं पंचदशगुणं करोति, शेषं तु समस्तमपि पंचगुणं एतच्चैवं द्रष्टव्यं, पाक्षिक्यादिष्वारोपणासु यदिपुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा तदा यतिदिना आरोपणा ततिगुणं कुर्यात्, ततस्ते दिवसा स्थापनादिवसयुताः क्रियते, ततो दिवसाः षण्मासदिवसा भवंति, तद्यथा प्रथमासां स्थापनायां प्रथमायां चारोपणायां त्रयोदश संचयमासाः तेभ्यो स्थापनामा शोधितो जाता एकादश, अन्यं तु ब्रुवते, अत्रायं वृद्धसंप्रदायः यद्येकस्मात् मासान् निष्पन्ना आरोपणा, ततः प्रतिसेवितमासेभ्यः स्थापनाया आरोपणायाश्च मासाः शोधयितव्याः अथ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy