SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उदशक: १, मूल : १४, भा. ३७२/ १३३ प्रागुक्तक्रमेण द्वाभ्यां मासाभ्यां निष्पन्नेति सप्तमासा द्वाभ्यां गुण्यंते, जाताश्चतुर्दशमासाः, ततो द्वौस्थापनामासौचारोपणामासावितिसमुदिताश्चत्वारःतेचतुर्दशसुप्रक्षिप्यंते, आगतंविंशिकास्थापना विंशिका चारोपणा अष्टादशभिमसिनिष्पन्नेति, दोण्हंतु इत्यादि द्वायोरपि आरोपणायाः कृत्स्नाकृत्स्नयोर्लब्धुमीप्सितायाआरोपणाया यतिमासायतिभिमसिरीप्सितारोपणानिष्पन्नेतियावत्ततिभिर्गुणय, यद्येकेन मासेन निष्पन्ना तत एकेन गुणाय, अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेनाप्यथ त्रिभिस्ततस्त्रिभिरित्यादि, अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लब्धं, यतिमासास्तत ईप्सितया आरोपणया गुणय, यदिप्रथमा तत एकेन गुणवते, अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततस्त्रिभिरित्यादि, एतच्चप्रागपिभावितं, तदेवमशीतिशतात्स्थापनारोपणादिवसेषुशोधितेषुयच्छेषं तद्वक्तव्यतोक्ता, संप्रति स्थापनारोपणादिवसेभ्यो यथा मासा आगच्छंति मासेभ्यो वा दिवसास्तथा प्रतिपादयति[भा.३७३ दिवसा पंचहिंभइयादुरूवहीणाउतेभवेमासा ।। मासा दुरूवसहिया पंचगुणा तेभवे दिवसा ।। वृ-स्थापनाया आरोपणाया वा दिवसाः पंचभिर्भज्यंते, पंचभिस्तेषांभागो हियते इतिभावः, ततो भागे हते लब्धास्ते द्विरूपहीनाः क्रियते, ततो रूपद्वयं स्फेट्यते इति भावः, रूपद्विक वा स्फेटिते यदवशिष्यते, तेभवेयुर्मासा, यथा विशिंकायाः स्थापनाया दिवसा विंशतिस्तेषांपंचभिर्भागो हियते, लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थितौ द्वौ, आगतं विंशिका स्थापना द्वाभ्यां मासाभ्यां निष्पन्ना, तथा पाक्षिक्या आरोपणाया दिनानिपंचदश तेषां पंचभिर्भागहरणं लब्धास्त्रयस्ते द्विरूपहीनाः क्रियते, स्थित एक आगतं पाक्षिकी आरोपणा एकन मासेन निष्पन्ना, विंशिकारोपणा विंशिका स्थापना च द्विमासनिष्पन्ना भावनीया, तृतीयायाः पंचविंशतिदिनाया आरोपणायाः दिवसाः पंचविंशतिस्तेषां पंचभिर्भागहारो, लब्धाःपंचतेद्विरूपहीनाः कृताः स्थितास्त्रयः, आगतंपंचविंशतिदिना, तृतीयारोपणा त्रिभिर्मासैनिष्पना एवं सर्वत्रभावनीयं,मासा दूरुवसहिया इत्यादि, यतिमासाः स्थापनायामारोपणायां वाधिकृतकरणवशाल्लब्धास्तेदिवसानयनायद्विरूपसहिताः क्रियते, ततपंचगुणास्ततोभवेयुयथोक्ता दिवसाः, यथा विंशिकायाःस्थापनाया द्वौमासौ तो द्विरूपसहितौ क्रियेते,जाताश्चत्वारस्तेपंचभिर्गुण्यंते, आगतंविंशिकायाः स्थापनायाविंशतिर्दिनानितथापाक्षिक्या आरोपणायाएकोमासः,सद्विरूपसहितः क्रियते, जातास्त्रय स्ते पंचर्भिगुण्यते, आगतं पाक्षिक्या आरोपणायाः पंचदश दिनानि तथा पंचविंशतिदिनाया आरोपणायास्त्रयोमासास्तेविरूपयुताः क्रियते,जाताः पंचतेपंचभिगुण्यंते, आगतं पंचविशतिर्दिनानि एवं सर्वत्रभावनीयं, तदेवं करणान्यभिधायोपसंहारमाह, [भा.३७४] ठवणारोवणसहिया संचयमासा हवंतिएवइया ।। कत्तो किंगहियं तिय ठवणामासे ततोसोहे ।। वृ-पूर्वं ठवणारोवणदिवसे माणाउ विसोहइतु इत्यादि करणवशात् ये लब्धा मासास्तेऽनंतरोक्तकरणवशादानीता ये स्थापनारोपणा मासा स्तत्सहिताःक्रियंते, ततः शिष्मेभ्यः एवं प्ररूपय, अस्यां स्थापनायामस्थांचारोपणायामेतावंतःसंचयमासाः,सर्वप्रायश्चित्तसंकलनमासाभवंति, तदेवंयतिभिमसिः प्रतिसेवितैर्यास्थापना आरोपणाच निष्पन्ना. तदेततप्रतिपादितमधुना तस्यांतस्यास्थापनायामारोपणायांसंचयमासानांमध्येकुतो मासात् किंगृहीतमिति प्रतिपादनार्थमाह, कत्तो इत्यादि-शिष्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy