________________
१३२
व्यवहार - छेदसूत्रम् - १- १/१४ लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थितौ द्वौ मासौ स्थापनायाः तथा पंचदशदिनाया आरोपणायाः पंचभिर्भागो हियते, लब्धास्त्रयस्ते द्विरूपहीनाः कृता जात एको लब्ध आरोपणाया एको मासः, तेन यदि वा प्रथमेयमोपणेति लब्धा मासा दश एकेन गुण्यते जाता दशैव एकेन गुणितं, तदेव भवतीति न्यायात्, ततो द्वौ स्थापना पंचविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, त्रयोविंशतिभिर्मासैस्तथाहि स्थापनादिवसा विंशतिरारोपणादिवसाः पंचविंशतिरेते मिलिताः पंचचत्वारिंशत् ते षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः शोध्यंते, जातं शेष. पंचत्रिंशत्शतं, ततोऽधिकृतया पंचविंशतिदिनया आरोपणया तस्य भागो हियते, तत्रोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पंचदशसु च प्रक्षिप्तेषु प्रयच्छतीति पंचदशपरिमाणोऽत्र झोषः प्रक्षिप्यते, लब्धाः षण्मासाः, तथाधिकृतारोपणायाः पंचभिर्भागो हियते, लब्धा पंचः, ते द्विरूपहीनाः क्रियते, जातास्त्रयः एतावंतश्चारोपणाया मासा यदि चेयं तृतीयारोपणेति तिण्हंपि गुणसु लद्धं इच्छियरूवणाए जइमासा इति वक्ष्यमाणवचनात् तेषण्मासास्त्रिभिर्गुण्यंते, जाता अष्टादश द्वौ स्थापनामासौ त्रयश्चारोपणामासा इति, सर्वसंख्यया त्रयोविंशतिमासाः अथवा अन्यथा झोषपरिमाणं कथयति
[ भा. ३७१]
ठवणा दिवसे माना विसोहइत्ताण भयह रूवणाए । जो छेयं सविसेसो अकसिणरुवणाए सो झोसो ।।
वृ-मानात् षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसात् अधिकृतस्थापनावासरान् विशोधय, विशोध्य च यच्छेषमवतिष्ठते, तदारोपणया अधिकृतारोपणादिवसैर्भज, भागहारं कुर्यात्, भागे च हृते यः छेदादंशानां विश्लेषः इह विश्लेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः, स तावत्प्रमाणोऽकृत्स्नारोपणायां झोषः, यथा षण्मासदिवसपरिमाणभूतात् अशीतिशतात् विंशिकायाः स्थापनायाः दिवसा विंशतिरिति, ततो विंशतिः शोध्यंते जातं षष्ट्यधिकं शतं ।। ततः पाक्षिक्यामारोपणायां संचयमासा ज्ञातुमिष्टा इति, पंचदशभिर्भागो हियते, स्थिताः शेषा दश अधस्ताच्छेदः पंचदश, तेभ्यो दश विश्लिष्यंते, स्थिताः पंच आगतंपंचदशिक्यामकृत्स्नारोपणायां पंचको झोषः, तथा अशीतिशतात् स्थापनादिवसा विंशतिः शोध्यंते, जातं षष्टंशतं । । ततः पंचविंशतिदिनाया आरोपणायाः संचयमासा ज्ञातुमिष्टा इति, पंचविंशत्या भागी हियते, तथा शेषा । दश छेदोऽधस्तात् पंचविंशतिस्तस्या दश विश्लिष्यंते, स्थिताः पंचदश आगतं पंच विंशतिदिनायामारोपणायां पक्षो झोषः, एवं सर्वत्र भावनीयं । [ भा. ३७२ ]
i
जत्थ पुन देइ सुद्धं, भागं आरोवणाउ सा कसिणा ।। दोपि गुणसु लद्धं इच्छियरुवणाए जइ मासा ।।
वृ-यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धं भागं प्रयच्छति, न किंचित् पश्चाद्यस्यावतिष्ठते, इति भावः सा आरोपणा कृत्स्ना भागहरणात् कृत्स्नेति प्रतिपत्तव्या, यथा विंशतिदिना, तथाहि केनापि पृष्टं विंशिका स्थापना विंशिका चारोपणा कतिर्भिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, अष्टादशभिर्मासौः, कथमेतदवसेयमितिचेत् ? उच्यते, षण्णां मासानामशीतंदिवसशतं, तेभ्यो विंशतिर्दिनानि, स्थापनाया विंशतिर्दिनान्यारोपणायाः शोध्यंते, जातं शेषं चत्वारिंशंततं, तत इच्छियरुवणाए भए इति वचनात्, विंशिकया आरोपणया भागो हियते, भागे च हते उपरितनो राशिर्निर्लेपः, शुद्ध एषा कृत्स्नारोपणा लब्धाः सप्तमासाः ततो दोण्हपि गुणसुलद्धं इच्छिवरुवणाए जइ मासा इति, वक्ष्यमाणवचनात् इयमारोपणा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International