SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १३० व्यवहार - छेदसूत्रम्-१-१/१४ गुण्यते, एकेन च गुणितं तदेव भवतीति जाता त्रिंशदेव, तत्र उत्तरहीणमिति उत्तरेणैकेन हीनं, तस्मिन कृते एकेन हीना त्रिंशत् क्रियते इत्यर्थः, जाताएकोनत्रिंशत् ततः प्रक्षिपेदादिममेकं जाता भूयस्त्रिंशत् एतदंतिमधनमंतिमेअंकस्थानेपरिमाणमेतत्, आदिनाएकेन युतंक्रियते,जाताएकत्रिंशत्गच्छस्त्रिंशत् तस्यार्धं पंचदश तैः सार्द्ध एकत्रिंशता गुण्यते, जातानि संवेधानां चत्वारि शतानि पंचपट्यधिकानि अथवाऽयमन्यो गणितप्रकारः - भा.३६५] दो रासीउठविज्जा, रूवं पुन पक्खिवाहि एगत्तो। जत्तो यदेइ अद्धंतेन गुनं जाणसंकलियं ।। वृ- राशिर्गच्छ इत्यर्थांतरं, ततो द्वौ राशी स्थापयेत्, किमुक्तं भवति? द्वौवारावुपर्यधोभागेन त्रिंशतं स्थापयेत्ततएकतएकस्मिन् राशौ रूपंपुनः प्रक्षिपेत्जातःसएकत्रिंशत्यतश्चयस्माच्चराशेरमात्मानं ददाति तस्यार्धं गृह्यते, तत्रेह त्रिंशदर्धमर्पयति तेनेकत्रिंशदिति, त्रिंशतो) पंचदशगृह्यन्ते, तेन इतरो राशिरेकत्रिंशल्लक्षणो गुण्यते, गुणितेच सति यत जायते, तज्जानीहि, संकलितं सर्वसंवेधसंकलनं तच्च चत्वारि शतानि पंचषष्ठीनि, इह चत्वारि स्थापनास्थानानि चत्वारि चारोपणास्थानानि तत्र कस्मिन् स्थापनास्थाने कियंति स्थापनापदानि कस्मिन्नारोपणास्थाने कियंत्यारोपणापदानीत्येतत् परिज्ञानाय करणमाह - भा.३६६] आसीया दिवससया, दिवसा पढमाणठवणरूवणाण । सोहि उत्तरभइएठाणादुराहंपिरूवजुया ।। वृ- षण्णां मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसशतात् प्रथमयोः स्थापनारोपणयोर्ये दिवसास्तान् शोधयेत्, शोधयित्वा च यत्र यदुत्तरा वृद्धिस्तत्र तदुत्तरं तत्रायेषु त्रिपु स्थापनास्थानेषु त्रिषु चारोपणास्थानेषु पंचानां पंचोत्तरा वृद्धिरिति, तत्रोत्तरं पंचचरिमे स्थापनास्थाने चरिमेचारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति, तत्रोत्तरमेकः, ततस्तेनोत्तरेण भक्ते सति यदागच्छति, तावंतिरूपयुतानि द्वयोरपिस्थापनारोपणयोः स्थानानि, एपगाथार्थः, भावार्थस्त्वयंपट्सुमासेषुकिल दिवसानामशीतंशतमित्यशीतंशतंध्रियते ।।ततःप्रथमेस्थाने प्रथमायाः स्थापनाया दिनानि विंशति प्रथमाया आरोपणायाः पंचदशेत्युभयमीलने जाता पंचत्रिंशतसा शोध्यते, जातंपंचचत्वारिशतं, तत उत्तरेण पंचलक्षणेन भागो ह्रियते, लब्धा एकोनत्रिंशत् । सा रूपयुता क्रियते, प्रथमस्थापनारोपणयोः प्रथमतएवशोधित्वात्,जाता त्रिंशत्, एतावंतिप्रथमस्थानेस्थापनापदानि, एतावत्येव चारोपणापदानि, तथा द्वितीयेस्थाने प्रथमस्थापनाया दिवसांपंचदशप्रथमारोपणायाः पंचउभयेषा मीलनेजाताविंशतिः सा अशीतिशताच्छोध्यते, जातं षष्ठं शतं, तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा द्वात्रिंशत् रूपयुता क्रियते,जातात्रयस्त्रिंशत, एतावंतिद्वितीयेस्थाने स्थापनापदान्येतावंत्येवचारोपणापदानि, तृतीये स्थाने प्रथमस्थापनाया दिवसाः पंच, प्रथमारोपणाया अपि पंच उभयमीलने जाता दश, ते अशीतात् शतात् अपनीयंते, जातं सप्ततिशतं, ।। तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, जाता पंचत्रिंशत् एतावंति तृतीय स्थाने स्थापनापदान्येतावंत्येव चारोपणापदानि, चतुर्थे स्थाने प्रथम स्थापनाया एक दिनं प्रथमारोपणाया अपिचैकं उभयमीलने जाते द्वे दिने, ते अशीतात् शतात् शोध्यते, जातमष्टसप्ततं शतं ।। तस्योत्तरेण एकैकलक्षणेन भागो हियत, लब्धमष्टसप्ततं शतं तद्रूपयुतं क्रियते, जातमेकोनाशीतिशतमेतावंति चतुर्थे स्थाने स्थापनापदानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy